सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

४० परिशिष्टे [११ अध्याय।
औषधानाञ्च सर्व्वेषां काथानां१ नस्यकर्म्मणाम् ।
तैलानाञ्च घृतानाञ्च यवस्य यवसं परम् ॥ ३२ ॥
पर्व्वतानां यथा मेरुरायुधानाञ्च वज्रकम् ।
तथा सर्व्वोपचाराणां सप्तेः श्रेष्ठतमा२ यवाः ॥ ३३
देवतानां यथा विष्णुर्ब्रह्मा वेदविदां वरः ।
नदीनाञ्च यथा गङ्गा तथा श्रेष्ठा यवा हये ॥ ३४
यथोदितः सहस्रांशुर्निःशेषं तिमिरं जयेत् ।
तथा शरीरजान् दोषान्३ यवाः सप्तेर्हरन्ति
उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता हये ।
कृताः स्युर्यवभोज्येन सप्तेस्तस्य कृता नरैः४
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थि[ते]
अकृतापि५ कृता सर्व्वा पञ्चर्त्तुजनिता
कृताः स्युर्यवभोज्येन सप्तेस्तस्य कृता न... ...ते ॥ ३५ ॥
नीरोगास्तुरगाः सर्व्वे शालिहोत्रमते...
पञ्चर्त्तुजनिता वाथ६ क्रिया न्यस्ता ... वकार्षं च वाजिनाम् ।
अतीतास्ते विजानीयाद्यवभोज्य... सर्व्वव्याधिविनाशिनाः ॥ ३६ ॥
...तु दुग्धांश्च स्वेच्छया सदा ।
... रोगा कदाचिच्च यवान्नभाक् ॥ ३७ ॥

१। काथ्यतां । कः ।
२। अश्रेष्ठतमाः । खः ।
३। सर्व्वान् । कः ।
४। कृताः सर्व्वेषा भोजेन सप्ते...
५। क्रिया अपि कृताः...
६। व्यंथा । कः...

...रणम् । ४३
... क्रमः ।

  • ॥
    ... ॥
    ... ।
    ॥ ४१ ॥
    ...ौषधिभिः२ ।
    ...प्रवर्द्धिनीम् ॥ ४२ ॥
    ...रजा हये ।
    ...तां तान् विनिर्द्दिशेत् ॥ ४३ ॥
    ...त्तमं वाजिनां बुधाः ।
    ...शनाल्लङ्घनमुत्तमम् ॥ ४४ ॥
    ... । तयोदरे । कः ।
    ...व्याधिजः । कः ।
    ...भावे यवान् दद्यात् । मुकुटान् तैलसंयुतान् । कः ।
    ...सर्व्वरोगैः प्रमुच्यते । कः ।
    ५ । विवेकिकिमिः । कः ।
    ६ । नान्यदन्नं । कः ।
    ७ । दानं । कः ।

(o-matra) on top and an 'आ' stroke!
In footnote 2, look at 'र' in 'रागः': it has an 'आ' stroke, but NO top horn/stroke!
So it is printed as 'रागः'!

Everything is clear, precise, and faithful to the printed page.४२ परिशिष्टे । [११ अध्यायः ।
दुग्धं वा केवलं रात्रौ कथितं संप्रशस्यते ।
तथान्यदपि यत्किञ्चिन्मधुरं संप्रजायते ॥ ३० ॥
पानाय सारसं तोयं यवसं सुमनोहरम् ।
नीलवर्णमकुष्ठांश्च घृतं प्राशनेन संयुतम् ॥
वाहनं च प्रयत्नेन सुखल्पमपि वर्जयेत् ॥ ३१ ॥
परीक्षाग्नौ यथा हेम्नः स्नेहस्य च प्रतिक्रिया ।
हयजीवस्य तद्वच्च परीक्षा यवभक्षणे ॥ ३२ ॥
यथा सांयात्रिकः पारं गत्वोच्चैः स्वस्थतां व्रजेत् ।
तद्वत् यवाशनात्तीर्णाः शुद्धदेहा हयोत्तमाः ॥ ३३ ॥
अल्पेनापि हि छिद्रेण यथा नश्यति नौर्जले ।
स्वल्पेना

११ अध्यायः ।] ऋतुचर्य्याविवरणम् । ४३
नच शूलं नच श्वासो 'नच प्लीहा नच क्लमः ।
नच रक्तप्रकोपश्च नच वातादिधातवः२ ॥ ३८ ॥
योग्योऽशनार्थं वाहानां प्रधानो यव ईष्यते ।
यवाभावेऽथ चणका धान्यमन्यतमं परम् ॥ ३९ ॥
यवाभावेऽथवा दद्यान्मुकुष्ठांस्तैलसंयुतान्३ ।
भोजने तुरगेन्द्राणां परां पुष्टिमभीप्सताम् ॥ ४० ॥
मुकुष्ठभोजनाद्वाजी पुष्टिं गच्छत्यलौकिकीम् ।
उत्साहं परमं धत्ते सच४ रोगैर्विमुच्यते ॥ ४१ ॥
अप्राप्तौ च मुकुष्ठानां मुद्गा देया मनीषिभिः५ ।
सतैलास्तेऽपि कुर्व्वन्ति पुष्टिं सत्वविवर्द्धिनीम् ॥ ४२ ॥
एते पुष्टिगुणाः प्रोक्ताश्चणकाहारजा हये ।
नान्यस्तस्मादभावेन सर्व्वेषां तान् विनिर्दिशेत् ॥ ४३ ॥
नान्यद्धितं६ प्रशंसन्ति पञ्चमं वाजिनां बुधाः ।
भक्षणार्थं यतस्तस्य दानो७ऽल्लङ्घनमुत्तमम् ॥ ४४ ॥
१ । प्लीहं नच तथोदरे । कः ।
२ । वातादिव्याधयः । कः ।
३ । तदभावे यवान् दद्यात् । मुकुटान् तैलसंयुतान् । कः ।
४ । सर्व्वरोगैः प्रमुच्यते । कः ।
५ । विवेकिभिः । कः ।
६ । नान्यदन्नं । कः ।
७ । दानं । कः ।

४४ परिशिष्टे । [११ अध्यायः ।
अन्नाभावे प्रदातव्यं घृतं वा यदि वा पयः ।
शस्यं वा मांसमेवाथ पुष्ट्यर्थं वाजिनां सदा ॥ ४५ ॥
यस्याश्वः शस्यमश्नाति सदा लवणमिश्रितम्¹ ।
किं तस्य शस्यदानेन यथाभूतेन² भूपतेः ॥ ४६ ॥
शस्याभावेऽथ यवसं शुष्कं वा यस्य वाजिनः ।
दिवानिशमरण्ये च स्वेच्छया संविभुक्तिकः³ ॥ ४७ ॥
तेषापि वाजिनो ज्ञेया यथा शस्यचरास्तथा ।
तथा सर्व्वप्रयत्नेन मुक्तान⁴ सञ्चारयेद्वने ॥ ४८ ॥
आरोग्यार्थं सुपुष्ट्यर्थमुत्साहार्थं विशेषतः ।
वित्तव्ययस्य रक्षार्थं हरेद्रोगं⁵ प्रयत्नतः ॥ ४९ ॥
वसन्तसमये प्राप्ते वाहयेत् सततं हयम् ।
सनिम्बं लवणं दद्यात्ताभ्यां तैलं⁶ विशेषतः ॥ ५० ॥
सर्व्वश्च सम्भवं भोज्यं तैलं वा यदि वा घृतम् ।
न दोषकारणं प्रोक्तं सक्षारं लवणमश्नतः ॥ ५१ ॥
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।
तस्योत्साहः⁷ प्रणश्येत सालस्यं जायते वपुः ॥ ५२ ॥
१ । वर्जितं । कः । ५ । दरिद्रस्य । कः ।
२ । वृथा दानेन भूपतिः । कः । ६ । सतैलञ्च । कः ।
३ । च भुनक्ति यः । कः । ७ । तस्योत्साहप्रणाशाय । कः ।
४ । मुक्ताः । खः ।

११ अध्यायः।] ऋतुचर्य्याविवरणम्। ४५
ततो मन्दाग्निनाविष्टो रोगाभावे' प्रजायते ।
तस्मात्सर्व्वप्रयत्नेन वसन्ते वाहयेद्धयम् ॥ ५३ ॥
ग्रीष्मकालेच संप्राप्ते दूर्व्वाभोज्यं प्रशस्यते ।
वाजिनामिह सर्व्वेषां घर्म्मतापोपशान्तये ॥ ५४ ॥
घृतपानं विशेषेण सुच्छायासु निबन्धनम् ।
रक्तस्रावेच गात्रेषु ग्रासं वा घृतसंयुतम् ॥ ५५ ॥
दूर्व्वाभावे प्रदातव्यं तुरगाय घतान्वितम् ।
ह्रत्त'काशस्यमध्याग्रं सर्व्वदोषोपशान्तये ॥ ५६ ॥
एवं स्वस्थमयं सम्यगुपचारं' करोति यः ।
हयस्यतु ग्रहे। नित्यं' तस्य वर्द्धन्ति वाजिनः ॥ ५७ ॥
नीरोगाः पुष्टिसंयुक्ताः प्रकृष्टोत्साहसंयुताः ।
तर्पिता' भूमिपैश्चा भूमिमार्गक्रियाक्षमाः ॥ ५८ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते ऋतुपर्य्यायाध्याय
एकादशः ॥
१। श्रमाभावे । कः ।
२। यति । कः ।
३। उपहारं । खः ।
४ । गृहे । कः ।
५। सुदुर्लभास्तेऽपि वै यन्त्रा भूमिकायेकियाक्षमाः । कः ।

[ ४६ ]
अथ द्वादशोऽध्यायः।
नस्यः।
कासश्वाससमे नस्यो वातपित्तकफोद्भवः ।
नस्यः संनाशयेत्तस्मात्तं नस्यं योजयेद्वये ॥ १ ॥
पिप्पली सैन्धवं सारं नागरं१ च गुड़ान्वितम् ।
कृत्तिकासार 'मध्याग्रं वाजिनां' श्लेष्मनाशनम् ॥ २ ॥
चूलिकालवणं नस्ये सदा रोगविनाशनम् ।
सिता"चन्दनतोयानि साक्तुकाख्यानि" वाजिनाम् ॥ ३ ॥
नस्यकर्माणि युक्तानि नाड़ीवातप्रशान्तये ।
मृदुकैरार्द्रकं सान्द्रं वचाक्षारविमिश्रितम् ॥ ४ ॥
नस्ये दत्तं वातशान्त्यै हयरोगविनाशनम् ।
शर्करां माक्षिकं सैरं' पटोलं पलसंयुतम् ॥ ५ ॥
नस्ये° शरदि सतीनां जायते रोगशान्तये ।
वचा चोष्मायणं' कुष्ठं शुण्ठीच कासमर्दिका' ॥ ६ ॥
१ । निवारं गरड़ान्वितम् । कः ।
६ । सारं । कः ।
२ । कतिकाग्रस्य । खः ।
७ । नस्यं । कः ।
३ । सर्व्वदोषप्रशान्तये ।
८ । चोष्ण्यकं । कः ।
४ । शिखा । कः ।
९ । पुष्करमाक्षिकं । कः ।
५ । शिक्तकाख्यानि वाजिनाम् । कः ।

१२ अध्यायः ।] नस्यविवरणम् । ४७
युक्तं शीतोदके स्तोके तेषां नस्येऽपसर्पयेत्¹ ।
गुडूची कौमुदी ताली मिश्रिता कूपवारिणा² ॥ ७ ॥
नस्ये दत्ता वराश्वानां शिशिरे³ सुखदा स्मृता ।
अपामार्गं⁴ महानस्यं सर्व्वरोगविनाशनम् ॥ ८ ॥
केवलं कटुतैलं वा गोमूत्रे पाचितं च यत् ।
मैथुनाद्रिक्तसन्धीनां स्रोतोबलकरं विदुः ॥ ९ ॥
कण्ठरोगे तथा नस्यं गोमूत्रलवणान्वितम् ।
महद्गुणकरं प्रोक्तं सर्व्वदोषनिवारणम् ॥ १० ॥
अपामार्गस्य⁵ मूलेन नस्ये मूत्रंच छागलम् ।
मुखरोगविनाशाय नस्यं मत्स्य⁶वसोद्भवम् ॥ ११ ॥
लशुनं पिप्पलीमूलं गण्डकी नागकेशरम् ।
दत्तं नस्येन रोगघ्नं कटुतैलेन वाजिनाम् ॥ १२ ॥
नस्यं पर्युषितैस्तोयैः⁷ प्रातर्दत्तं तु केवलैः⁸ ।
अश्वानाञ्च नराणाञ्च चाक्षुष्यं बलवर्द्धनम् ॥ १३ ॥


१ । दोषप्रशान्तये । कः । ५ । मूत्रं चैव पुमामत्स्यं । कः ।
२ । मिश्रितं कोष्णवारिणा । कः । ६ । वत्स । कः ।
३ । शरीरे । कः । ७ । नस्ये पर्युषितं । कः ।
४ । अभयाद्यं । कः । ८ । केवलम् । कः ।

४८ परिशिष्टे [१२ अध्यायः ।
पिप्पलीमिश्रतोयेन¹ ससितासलिलेन च ।
नस्यं यच्छति सप्तानां सर्पिषा² यच्छते बलम् ॥
नस्यं स्निग्धं तथा रूक्षं तिक्तञ्च मधुरं तथा ।
चतुर्धा वाजिशास्त्रज्ञैर्यथावत्परिकीर्त्तितम् ॥ १५ ॥
देयं वाताधिके स्निग्धं रूक्षं³ तिक्तं कफाधिके ।
मधुरं⁴ चैव पित्ताख्ये तुरङ्गे समयोचितम् ॥ १६ ॥
द्विपञ्चाशत्प्रमाणं वा श्रेष्ठं तन्नस्यमुच्यते ।
पादोनं⁵ मध्यमं तच्च षड्विंशत्यां तथाधमम् ॥ १७ ॥
नस्यान्ते वाजिनो रक्तं सदा दुष्टं प्रजायते ।
नस्यदानात् हतं तस्य विनाशमुपगच्छति ॥ १८ ॥
दाड़िमं पुष्करं श्रीकं श्वेतदूर्वाङ्कुरास्तथा ।
शीतोदकेन⁶ संयुक्तं रक्तं दुष्टं न जायते ॥ १६ ॥
धातकी गोक्षुरं रोध्रं कुसुमं सिन्धुवारकम् ।
१ । तैलेन श्लिष्मच । कः ।
२ । स तेषां । कः ।
३ । रौक्षतिक्ते । कः ।
४ । पित्ताधिकेतु मधुरं तुरङ्गे संप्रयोजितम् । कः ।
५ । अष्टोत्तरं मध्यमं प्रोक्तं षड्‌विंशत्या । कः ।
६ । शीतोदकेन तन्नस्यं दुष्टरक्तं जयेत् ध्रुवम् । कः ।

१२ अध्यायः।] नस्यविवरणम्। ४९
शीतोदकेन संयुक्तं नस्यं रक्तविनाशनम् ॥ २० ॥
धातकी गण्डकी चैव गोमूत्रं लवणं तथा।
नस्ये दत्तं कफं हन्ति तमः सूर्य्योदये यथा ॥ २१ ॥
गुण्ठी घृतञ्च दुग्धञ्च रससारं¹ तथैव च।
वातदोषविनाशाय नस्यमेतत्प्रयोजयेत् ॥ २२ ॥
माक्षिकं शर्करायुक्तं² चन्दनं केशराणि च।
नस्योऽयं वारिणा सद्यः पित्तनाशकरः परः³ ॥ २३ ॥
गुडूची गुण्ठी मुस्ता च तगरं सितसर्षपाः।
सन्निपाते सपित्तेऽयं नस्यः स्याज्जीवरक्षकः⁴ ॥ २४ ॥
अभया पुत्रिणी धात्री⁵ एला लाक्षा शतावरी।
सन्निपातेऽनिलाधिक्ये नस्योऽयं क्षेमकारकः ॥ २५ ॥
मरिचं पिप्लीमूलं वचा भारङ्गिका⁶भया।
सन्निपाते कफाधिक्ये नस्यं सद्यः सुखप्रदम् ॥ २६ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते नस्याधिकारा-
ध्यायो द्वादशः ॥
१। रजःसारं। कः।
२। मिश्रं। कः।
३। सदा। कः।
४। तु नस्योऽयं वारिणा क्रमकारकः। कः।
५। एला। कः।
६। सारङ्गिका। कः।
7

[ ५० ]
अथ त्रयोदशोऽध्यायः ।
पिण्डः ।
कटुका च जयन्ती च भ्रामरी सुरसा¹ घनाः ।
पञ्चामृतमयः पिण्डो वाजिनामयमिष्टकृत् ॥ १ ॥
एला शतघ्नी² सुरसा काकजङ्घा³ शतावरी ।
माक्षिकं ससितं पिण्डः पित्तयुक्ते⁴ हि वाजिनि ॥ २ ॥
माक्षिकं⁵ सैन्धवं मुस्ता गोमूत्रं च हरीतकी ।
समभागेन पिण्डोऽयमुक्तो वह्निप्रदीपकः ॥ ३ ॥
कंकोलं⁶ केतकी द्राक्षा शर्करा मधुयष्टिका ।
दत्तो घृतयुतः पिण्डः पुष्टिं नयति वाजिनः⁷ ॥ ४ ॥
मत्स्यमांसेन संयुक्तं ग्रावचूर्णं⁸ घृतप्लुतम् ।
बलहीनस्य वाहस्य पिण्डोऽयं बलवर्धनः ॥ ५ ॥
वला मद्यं⁹ दधि क्षौद्रं भक्षयंस्तुरगो भवेत्¹⁰ ।
अतिवृद्धोऽपि सूक्ष्मोऽपि यथा¹¹ षट्सप्तवार्षिकः ॥ ६ ॥
१ । सरसा । खः ।
२ । स्तनघ्नी । कः ।
३ । काकजंघा । कः ।
४ । पित्तयुक्तस्य वाजिनः । कः ।
५ । संशयाखिलरोगेषु गोमूत्रेषु । कः ।
६ । कंकोली । कः ।
७ । वाजिनाम् । खः ।
८ । माषचूर्णं । कः ।
९ । चूर्णमिष्टं । कः ।
१० । भटम् । कः ।
११ । भवेद्यत्सप्तवार्षिकः । कः ।

१३ अध्यायः ।] पिण्डविवरणम् । ५१
मेथिका¹ धातकी काली सारणी² वीजपूरकः ।
पिण्डो दत्तो वराश्वानां तेजोवृद्धिकरः स्मृतः ॥ ७ ॥
कटुका मद्यसंमिश्रा धात्री लोभ्रगुड़ान्विता ।
दत्ता³ पिण्डविधानेन वाजिनां सुखवृद्धिदा ॥ ८ ॥
त्रिफला कटुका मुस्ता विड़ङ्गानि च चित्रकम् ।
सदालस्यसमेतानां वाजिनां पिण्ड आर्त्तिहृत् ॥ ९ ॥
वचा विदलिताः⁴ स्निग्धाः सघृताः क्षारभाविताः ।
पिण्डैर्दत्ताः प्रकुर्व्वन्ति वाजिनां व्याधिनाशनम् ॥ १० ॥
सैन्धवं नागरं श्यामा गुडूची सितसर्षपाः ।
अम्लवेतसमन्नानां⁵ पिण्डोऽयं शूलनाशनः॥ ११ ॥
पिप्पली पिप्पलीमूलं⁶ कटुका सहदेविका ।
दूर्व्वा⁷पल्लवसंमिश्रः पिण्डोऽयं प्लीहनाशकः ॥ १२ ॥
केशरं श्रीफलं तालं माक्षिकं गिरिकर्णिका ।
पिण्डोऽयं श्लथने शस्तो वाजिनां सुगतिप्रदः⁸ ॥ १३ ॥
वचालोभ्रं सकर्पूरं गुहा श्यामा गुड़ं मधु ।
१ । मिथिका । कः ।
२ । सरणी वीजपूरिका । खः ।
३ । दत्तः पिण्डविधानेन वाजिनां सुखवृद्धिदः । कः ।
४ । विध्वस्ता स्निग्धा सघृता क्षारभागिका । कः ।
५ । संयुक्ताः । कः ।
६ । सुप्ता । कः ।
७ । एच्छीपन्नस । कः ।
८ । पिण्डः क्षोभगथे शस्तो वाजिनां हि सुखप्रदः । कः ।

५२ परिशिष्टे [१३ अध्यायः ।
समांशकेन पिण्डोऽयं करोति¹ लघिमा हये ॥ १४ ॥
मद्यं मरिचसंयुक्तं लशुनं नागकेशरम् ।
द्विगुणं मेषमांसं च पिण्डो² दत्तो जयेत्क्लमम् ॥ १५ ॥
जंभीरं फलिनीपद्मं त्वचा किञ्जल्कमेव च ।
जातशोणित³वाहानां पिण्डोऽयं रक्तनाशनः ॥ १६ ॥
तमालं पुष्करं लोध्रमपामार्गं सतिन्दुकम् ।
पयसा पिण्डमेतद्धि वातकोपप्रणाशनम्⁴ ॥ १७ ॥
आरनालं प्रविष्टा च पथ्या नेपालिका⁵फलम् ।
पिण्डे दत्ते⁶ हये दध्ना निहन्त्याशु विजृम्भितम् ॥ १८ ॥
मुङ्गपूपं⁷ वचामिश्रं तथा सर्ज्जरसान्वितम् ।
पिण्डे दत्ते निहन्त्याशु कृमिसंघं⁸ व्रणोद्भवम् ॥ १९ ॥
स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम् ।
पिण्डोऽयं हन्ति मध्यस्थान् रोगान्⁹ सर्व्वान् कृमि-
व्रजान् ॥ २० ॥
१। लघुत्वं कुरुते । कः ।
२। पिण्डे दत्ते । खः ।
३ । जातशोणा वराश्वानां पिण्डोऽयं व्याधिनाशनः । खः ।
४ । वातकोपः प्रशाम्यति । कः ।
५ । नैपालिका । कः ।
६ । पिण्डं दत्तं । कः ।
७ । यूषं । खः ।
८ । कृमिं सद्यो व्रणोद्भवम् । कः ।
९ । उदरस्थान् कृमिब्रजान् । कः ।

१३ अध्यायः।] पिण्डविवरणम् । ५३
सिता दुग्धं सकर्पूरमेलया¹ पञ्चसंयुक्तम् ।
अग्नि²दाहार्तियुक्तानां पिण्डोऽयं वाजिनां स्मृतः ॥ २१॥
ग्रीष्मासङ्ग³प्रतप्तानामारनालं परिश्रुतम् ।
सकृदिच्छन्ति पिण्डेन⁴ वाजिनां सुखकारकम् ॥ २२ ॥
वृष्टिवातार्हितानाञ्च वाजिनां पुष्टिसंमतः ।
पिण्डः कृतः सतैलेन लशुनेन पलेन च ॥ २३ ॥
महाघृतं सकर्पूरं शर्करा दुग्धमेव च ।
कफ⁵नाशकरः प्रोक्तः पिण्डोऽयं सुखदः स्मृतः ॥ २४ ॥
रोचना च वरी⁶ धात्री तथा स्याद्बीजपूरकः ।
गुल्मं प्रशमयन्त्याशु वाजिनां हृदयोद्भवम् ॥ २५ ॥
सहदेवी वचा कुष्ठं वरुणा चेन्द्रवारुणी ।
अतिश्वासं हरन्त्येते वाजिनां मधुना सह ॥ २६ ॥
उदुम्बरफलं⁷ मांसं सौकरं माहिषं दधि ।
हयस्य चातिवृद्धस्य⁸ करोति परमं सुखम् ॥ २७ ॥
विभीतकं प्रियङ्गुञ्च सर्जिका लवणं तथा ।
१ । एलापत्रकसंयुक्तम् । कः । ७ । चौदुम्बर । कः ।
२ । स्निग्धा । कः । ८ । शीतबद्धस्य । कः ।
३ । ग्रीष्मदाह । कः ।
४ । शर्करामिश्रितः पिण्डः । कः ।
५ । कम्प । कः ।
६ । वर्बरी । खः ।

५४ परिशिष्टे [१३ अध्यायः ।
कासदोषोपशमनः^१ पिण्डः समेः सुखप्रदः ॥ २८ ॥
तक्रं कर्पूरचूर्णंञ्च शिवं सौवर्चलान्वितम् ।
पिण्डोऽयं बस्तिसंरोधे^२ वाजिनः संप्रकीर्त्तितः ॥ २९ ॥
सौवर्चलं हरिद्राच पिप्पली चेन्द्रवारुणी ।
मूत्रकृच्छ्रे^३ परीप्सन्ति पिण्डोऽयं तुरगस्य हि ॥ ३० ॥
पिण्डीर^४सक्तवः क्षौद्रं भल्लातकफलं वृषम्^५ ।
रक्तमूत्रे तु पिण्डोऽयं वाजिनां रक्तनाशनः ॥ ३१ ॥
अभया यष्टिका श्यामा देवदारु सगन्धकम् ।
पुरीषे रक्तसंमिश्रे सदा शंसति वाजिनः ॥ ३२ ॥
पटोलं धातकी मुस्ता यष्टिका गिरिकर्णिका ।
रक्ताधिके शृतः पिण्डः करोति रुधिरक्षयम् ॥ ३३ ॥
हरिद्राद्यसंयुक्तं गन्धकं कटुतैलकम् ।
पिण्डकं^६ श्रुतियुक्तानां सदाश्वानां प्रशस्यते ॥ ३४ ॥
अतसीपञ्चकं निम्बं न्यग्रोधकलिकान्वितम् ।
अतीसारे सुशंसन्ति^८ पिण्डोऽयं वाजिनः शुभः ॥ ३५ ॥
व्रणैः कृमिभिरत्यर्थं सदा वाजी प्रपीड्यते ।

१ । कासे दोषप्रशमनो पिण्डोऽश्वस्य प्रशस्यते । कः ।
२ । धृतिसारोघ्नः । कः ।
३ । मूत्रकृच्छ्रे प्रशंसन्ति । कः । ६ । पिण्डोऽयं । कः ।
४ । डिण्डीरं शर्करा । कः । ७ । नीकं । खः ।
५ । भल्लातकमुदुम्बरम् । कः । ८ । प्रशंसन्ति । कः ।

१४ अध्यायः ।] क्षतविवरणम् । ५५
तदा पिण्डः प्रदातव्यः स्थूलैरण्ड¹दलैरलम् ॥ ३६ ॥
कर्पूरशर्करालोध्रं माक्षिकं त्रिफलान्वितम् ।
तुरङ्गिण्याः प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥ ३७ ॥
पत्त्रकं सिन्धुवारञ्च भामरं² चक्रकिंशुकम् ।
मांसवृद्धौ प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः ॥ ३८ ॥
सैन्धवं चूलिका³क्षारं विड़ङ्गानि मधूनि च ।
शस्त्रपीड़ाभिभूतस्य पिण्डोऽश्वस्य प्रशस्यते ॥ ३९ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते पिण्डाध्याय-
स्त्रयोदशः ॥
अथ चतुर्दशोऽध्यायः ॥
क्षतविधानम् ।
शिलाजतु विशाला च पद्मकं नागकेशरम् ।
लाक्षा पद्मकमूलञ्च निम्बद्वयसमन्वितम् ॥ १ ॥
घृतं माक्षिकसंयुक्तं⁴ सप्तविंशतिकं विदुः ।
अष्टांशं तु समादाय सुरामांसघृतस्य च ॥ २ ॥
पलमात्राणि सर्व्वाणि पूर्व्वद्रव्याणि निःक्षिपेत् ।
तेषां⁵ दानेन तत्सर्पिर्जायते सर्व्ववाजिनाम् ॥ ३ ॥
१ । तिलैरण्ड । कः । ४ । समांसकं देयम् । कः ।
२ । प्लवकं चम्पकं तु च । कः । ५ । तेषामाद्येन । कः ।
३ । चोलिका । कः ।

५६ परिशिष्टे [१४ अध्यायः ।
बलपुष्टिकरं नित्यं सर्व्ववातविनाशनम् ।
सर्व्वरोगप्रशमनं कायाग्नेश्च प्रदीपनम् ॥ ४ ॥
ओजस्करं व्यथानाशं प्लीहशोषप्रणाशनम् ।
धातकी केशरं कुष्ठं कुसुम्भं कुंकुमं नलम् ॥ ५ ॥
दाड़िमं१ सितरोध्रञ्च पलमात्राणि निःक्षिपेत् ।
घतञ्च पाचयेत्२ पानादभिघातान्विते हयः ॥ ६ ॥
जायते सर्व्वशुद्धाङ्गो३ महाप्राणैर्न संशयः ।
आरनालं वचा कुष्ठं पिङ्गला सिक्यकं४ घृतम् ॥ ७ ॥
एतैः पक्वं घृतं सम्यक् पित्तव्याधिविनाशनम् ।
हरिद्राद्वयसंयुक्तं गन्धकं तु मनःशिला ॥ ८ ॥
क्वाथयेन्नवनीतेन द्विगुणेन घृतेन च ।
अभ्यङ्गेनाथ पानेन सप्तरात्रेण५ वाजिनः ॥ ९ ॥
कण्डूतिर्निःक्षयं६ याति तथोदरभवा रुजः७ ।
माक्षिकं निम्बपत्राणि नखं८ गुग्गुल एव च ॥ १० ॥


१ । दाड़िमी । कः ।
२ । पाचयत्याममभिघातान्विते हये । कः ।
३ । सिद्धाङ्गो महाप्राणः । कः ।
४ । सत्कृतं हयम् । कः ।
५ । सदा गात्राणि । कः ।
६ । कच्छूर्निःसंज्ञतां । कः ।
७ । च रुक् । कः ।
८ । नवं । कः ।

१५ अध्यायः।] क्वाथविवरणम्। ५७
भृङ्गराजो विशाला^१ च पाठा चैव पुनर्नवा।
विल्वमारुष्करं^२ रोध्रं सैन्धवं तगरं^३ तथा ॥ ११ ॥
एतैः पक्त्वा घृतं वाजी संप्राप्यार्तेर्विमुच्यते^४ ॥ १२ ॥
इति श्रीमन्नकुलकृतेऽश्वचिकित्सिते घृताध्यायश्चतुर्दशः ॥
——————
अथ पञ्चदशोऽध्यायः।
क्वाथः।
पूर्व्वाणि^५ समभागानि क्वाथयेत् कूपवारिणा।
ततोऽष्टांशं समादाय तोयस्य कथितस्य च ॥ १ ॥
एतत् सिद्धार्थकं नाम ह्युत्कृष्टं^६ सर्व्ववाजिनाम्।
कायाग्निं वर्द्धयत्याशु नीरोगत्वं प्रयच्छति ॥ २ ॥
मुस्ता मधुकपत्राणि केशरं लवणं रुहा^७।
शताङ्गा शाल्मली धात्री वपुसं फलिनी तथा ॥ ३ ॥
क्वाथयित्वा जलं^८ कौपं दत्तैस्तुल्यैर्विचक्षणः।
त्रिभागमेवमादाय ततो दद्याद्वयस्य च ॥ ४ ॥
━━━━━━━━━━━━━━━━━━━━
१। विशालाक्षी। कः। ५। एतानि। कः।
२। आरुष्रकं। कः। ६। उत्कृष्टत्। कः।
३। नागरं। कः। ७। गुहा। कः।
४। आर्त्तिं विमुञ्चति। कः। ८। जलात् कौप्यादेतैः। कः।
8

५८ परिशिष्टे [१५ अध्यायः।
प्रकरोति सदा¹ नाशं पित्तस्यागन्तुकस्य च।
एकविंश²दिनं यावच्छालिहोत्रमतं यथा³ ॥ ५ ॥
शुण्ठी हरीतकी पाठा ब्राह्मी मुस्ता शिफालिका।
हरिद्राद्वयसंयुक्ता हरितालं मनःशिला ॥ ६ ॥
सिद्धस्त्रिभागशेषोऽयं क्वाथो हन्याच्चिराचिकम्।
सन्निपातमशेषेण पलिकः पलमात्रकः ॥ ७ ॥
मधुकं⁴ केशरं पद्मं भल्लातकविभीतकम्।
शङ्खपुष्पं रुहा सारं समभागेन मिश्रितम् ॥ ८ ॥
कासार्त्तस्य समुद्दिष्टः क्वाथोऽयं चिफलात्मकः।
उत्साहवर्द्धकः सद्यस्तथा कायाग्निदीपकः ॥ ९ ॥
कुमारी शाल्मली पाठा मञ्जिष्ठा चेन्द्रवारुणी।
काकोली समभागेन क्वाथयेत् समभागतः ॥ १० ॥
पलद्वयप्रमाणेन ततः पीतेन वाजिना।
मोहये⁵च्छूलजं दोषं मूत्रदोषं च तत्क्षणात् ॥ ११ ॥
यवानी माक्षिकं कासं सौवर्चलयुताभया।
क्वाथयेदष्टमांशन तत्पानाज्जायते हयः ॥ १२ ॥
प्रदीप्ताग्निस्तु तेजस्वी⁶ सर्व्वरोगाद्विमुच्यते।
स शीघ्रमार्गगामी च स्निग्धो रोगविवर्जितः ॥ १३ ॥
१ । सर्व्वनाशं । कः ।
४ । मधुरं । कः ।
२ । एकत्रिंशत् । कः ।
५ । नाशयेत् । कः ।
३ । सदा । कः ।
६ । सुतेजाख्याः । कः ।

१५ अध्यायः ।] विषविवरणम् । ५६
सेफालिका रुहानीले वेणुका सिन्धुवारिका ।
एतैः क्वाथः कृतः सम्यक् कृमिनाशनकरः परः ॥ १४ ॥
मातुलुङ्गस्य बीजानि चन्दनं सितसर्षपाः ।
उशीरं पुष्करं ब्राह्मी लक्ष्मणा च पुनर्नवा ॥ १५ ॥
क्वाथोऽयं शुण्ठिचूर्णेन धावितक्लेशनाशनः ।
प्रकरोति तुरङ्गानां सर्व्वदैव सुखं¹ तथा ॥ १६ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते क्वाथाध्यायः
पञ्चदशः ॥
अथ षोडशोऽध्यायः ।
विषम् ।
वारुणी माक्षिकी गौरी श्रोतालीबीजपूरकम्' ।
कृमिकेदविनाशाय क्वाथो नित्यं रुजाहरः² ॥ १ ॥
अश्वगन्धा घृतं क्षौद्रं विषदग्धस्य वाजिनः ।
विषनाशं³ करोत्येव सर्व्वगात्रेषु तत्क्षणात् ॥ २ ॥
१ । सुखावहम् । खः ।
२ । रुजापहा । कः ।
३ । विनाशनं । खः ।