अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 494, कुल 522 में से
संदर्भ में पढ़ें[ ४६ ]
अथ द्वादशोऽध्यायः।
नस्यः।
कासश्वाससमे नस्यो वातपित्तकफोद्भवः ।
नस्यः संनाशयेत्तस्मात्तं नस्यं योजयेद्वये ॥ १ ॥
पिप्पली सैन्धवं सारं नागरं१ च गुड़ान्वितम् ।
कृत्तिकासार 'मध्याग्रं वाजिनां' श्लेष्मनाशनम् ॥ २ ॥
चूलिकालवणं नस्ये सदा रोगविनाशनम् ।
सिता"चन्दनतोयानि साक्तुकाख्यानि" वाजिनाम् ॥ ३ ॥
नस्यकर्माणि युक्तानि नाड़ीवातप्रशान्तये ।
मृदुकैरार्द्रकं सान्द्रं वचाक्षारविमिश्रितम् ॥ ४ ॥
नस्ये दत्तं वातशान्त्यै हयरोगविनाशनम् ।
शर्करां माक्षिकं सैरं' पटोलं पलसंयुतम् ॥ ५ ॥
नस्ये° शरदि सतीनां जायते रोगशान्तये ।
वचा चोष्मायणं' कुष्ठं शुण्ठीच कासमर्दिका' ॥ ६ ॥
१ । निवारं गरड़ान्वितम् । कः ।
६ । सारं । कः ।
२ । कतिकाग्रस्य । खः ।
७ । नस्यं । कः ।
३ । सर्व्वदोषप्रशान्तये ।
८ । चोष्ण्यकं । कः ।
४ । शिखा । कः ।
९ । पुष्करमाक्षिकं । कः ।
५ । शिक्तकाख्यानि वाजिनाम् । कः ।