अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 496, कुल 522 में से
संदर्भ में पढ़ें४८ परिशिष्टे [१२ अध्यायः ।
पिप्पलीमिश्रतोयेन¹ ससितासलिलेन च ।
नस्यं यच्छति सप्तानां सर्पिषा² यच्छते बलम् ॥
नस्यं स्निग्धं तथा रूक्षं तिक्तञ्च मधुरं तथा ।
चतुर्धा वाजिशास्त्रज्ञैर्यथावत्परिकीर्त्तितम् ॥ १५ ॥
देयं वाताधिके स्निग्धं रूक्षं³ तिक्तं कफाधिके ।
मधुरं⁴ चैव पित्ताख्ये तुरङ्गे समयोचितम् ॥ १६ ॥
द्विपञ्चाशत्प्रमाणं वा श्रेष्ठं तन्नस्यमुच्यते ।
पादोनं⁵ मध्यमं तच्च षड्विंशत्यां तथाधमम् ॥ १७ ॥
नस्यान्ते वाजिनो रक्तं सदा दुष्टं प्रजायते ।
नस्यदानात् हतं तस्य विनाशमुपगच्छति ॥ १८ ॥
दाड़िमं पुष्करं श्रीकं श्वेतदूर्वाङ्कुरास्तथा ।
शीतोदकेन⁶ संयुक्तं रक्तं दुष्टं न जायते ॥ १६ ॥
धातकी गोक्षुरं रोध्रं कुसुमं सिन्धुवारकम् ।
१ । तैलेन श्लिष्मच । कः ।
२ । स तेषां । कः ।
३ । रौक्षतिक्ते । कः ।
४ । पित्ताधिकेतु मधुरं तुरङ्गे संप्रयोजितम् । कः ।
५ । अष्टोत्तरं मध्यमं प्रोक्तं षड्विंशत्या । कः ।
६ । शीतोदकेन तन्नस्यं दुष्टरक्तं जयेत् ध्रुवम् । कः ।