अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 504, कुल 522 में से
संदर्भ में पढ़ें५६ परिशिष्टे [१४ अध्यायः ।
बलपुष्टिकरं नित्यं सर्व्ववातविनाशनम् ।
सर्व्वरोगप्रशमनं कायाग्नेश्च प्रदीपनम् ॥ ४ ॥
ओजस्करं व्यथानाशं प्लीहशोषप्रणाशनम् ।
धातकी केशरं कुष्ठं कुसुम्भं कुंकुमं नलम् ॥ ५ ॥
दाड़िमं१ सितरोध्रञ्च पलमात्राणि निःक्षिपेत् ।
घतञ्च पाचयेत्२ पानादभिघातान्विते हयः ॥ ६ ॥
जायते सर्व्वशुद्धाङ्गो३ महाप्राणैर्न संशयः ।
आरनालं वचा कुष्ठं पिङ्गला सिक्यकं४ घृतम् ॥ ७ ॥
एतैः पक्वं घृतं सम्यक् पित्तव्याधिविनाशनम् ।
हरिद्राद्वयसंयुक्तं गन्धकं तु मनःशिला ॥ ८ ॥
क्वाथयेन्नवनीतेन द्विगुणेन घृतेन च ।
अभ्यङ्गेनाथ पानेन सप्तरात्रेण५ वाजिनः ॥ ९ ॥
कण्डूतिर्निःक्षयं६ याति तथोदरभवा रुजः७ ।
माक्षिकं निम्बपत्राणि नखं८ गुग्गुल एव च ॥ १० ॥
१ । दाड़िमी । कः ।
२ । पाचयत्याममभिघातान्विते हये । कः ।
३ । सिद्धाङ्गो महाप्राणः । कः ।
४ । सत्कृतं हयम् । कः ।
५ । सदा गात्राणि । कः ।
६ । कच्छूर्निःसंज्ञतां । कः ।
७ । च रुक् । कः ।
८ । नवं । कः ।