सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 507, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 507

१५ अध्यायः ।] विषविवरणम् । ५६
सेफालिका रुहानीले वेणुका सिन्धुवारिका ।
एतैः क्वाथः कृतः सम्यक् कृमिनाशनकरः परः ॥ १४ ॥
मातुलुङ्गस्य बीजानि चन्दनं सितसर्षपाः ।
उशीरं पुष्करं ब्राह्मी लक्ष्मणा च पुनर्नवा ॥ १५ ॥
क्वाथोऽयं शुण्ठिचूर्णेन धावितक्लेशनाशनः ।
प्रकरोति तुरङ्गानां सर्व्वदैव सुखं¹ तथा ॥ १६ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते क्वाथाध्यायः
पञ्चदशः ॥
अथ षोडशोऽध्यायः ।
विषम् ।
वारुणी माक्षिकी गौरी श्रोतालीबीजपूरकम्' ।
कृमिकेदविनाशाय क्वाथो नित्यं रुजाहरः² ॥ १ ॥
अश्वगन्धा घृतं क्षौद्रं विषदग्धस्य वाजिनः ।
विषनाशं³ करोत्येव सर्व्वगात्रेषु तत्क्षणात् ॥ २ ॥
१ । सुखावहम् । खः ।
२ । रुजापहा । कः ।
३ । विनाशनं । खः ।