अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
२७० अश्ववैद्यके [४६ अध्यायः।
पटोलं निम्बपत्रञ्च वचां चिचकमेव च।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १० ॥
एतत्पानं¹ प्रदातव्यं सुरया कृमिनाशनम् ।
चूर्णपानप्रयोगोऽयं² श्लेष्मकोष्ठे प्रशस्यते ॥ ११ ॥
मन्दाग्निदीपनेऽत्यन्तं शालिहोत्रेण कीर्त्तितः ॥ १२ ॥
श्लेष्मकोष्ठनिदानचिकित्सिते ।
श्लेष्मकोष्ठौ समुद्दिष्टो मन्दाहारस्तुरङ्गमः ।
कृमिकोष्ठोदितां कुर्य्यात् श्लेष्मकोष्ठेऽपि च क्रियाम् ॥१३॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कृमिकोष्ठ-
श्लेष्मकोष्ठचिकित्सिते षट्चत्वारिंशोऽध्यायः ।
११। “स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम्। पिण्डोऽयं
हन्ति मध्यस्थान् उदरस्थान् कृमिव्रणान्” इति नकुलः। परिभाषा
नियमेन घृतमिदं साधयित्वा पाययेत्।
१ । एष पाने प्रदातव्यः । खः।
२ । प्रयोगश्च । गः।
४७ अध्यायः।] मूत्रग्रहविवरणम्। २७१
अथ सप्तचत्वारिंशोऽध्यायः।
वातादिमूत्रग्रहलक्षणानि।
स्तोकं स्तोकं सफेनञ्च रुच्छ्रान्मूत्रं करोति यः।
तस्य वातसमुत्थन्तु विद्यान्मूत्रग्रहं बुधः॥१॥
दाहोच्छ्वासयुतः पित्तान्मूत्ररोगः प्रजायते।
वाजिनः पीतमूत्रस्य मूत्ररोगः प्रजायते॥२॥
वाजिनः पीतमूत्रस्य अथवा रक्तमूत्रिणः।
कफजे मूत्ररोगे तु सान्द्रमूत्रं सपिच्छिलम्॥३॥
स्तोकं स्तोकञ्च कुरुते वेदनार्त्तस्तुरङ्गमः।
एकधा नोदयस्तेषां जायते सन्निपातजः॥४॥
अत्र साधारणीं कुर्य्यात् चिकित्सां वक्ष्यमाणिकीम्।
मेढ्राभ्यासे तथा वस्तिं घृतेनाभ्यज्य वातिके।
मर्द्दयेत्तदनुस्रोतो लघुहस्तैः शनैः शनैः॥५॥
पाषाणभेदकं शुण्ठी गोक्षूरं बृहतीद्वयम्।
१। दाहोच्छ्वासयुत इति दाहो ज्वाला उच्छ्वासः अन्तर्मुखनिः-
श्वासश्च तेन युतः।
४। तेषां वातादिमूत्रग्रहलक्षणानाम्। एकधा उदयो न
जायते अपितु अनेकधा विविधप्रकारमित्यर्थः। उदय आविर्भावः।
५। अनुस्रोतः स्रोतोऽनुलोमत इत्यर्थः।
६। पाषाणभेदः। (पातर कुचा)। वर्षाभूः (श्वेतपुनर्नवा)।
२७२ अश्ववैद्यके [४७ अध्यायः ।
एरण्डमूलं वर्षाभूरनन्ताच शतावरी ॥ ६ ॥
कषायं वारिणा कृत्वा यवानां तण्डुलैर्भिषक् ।
साधयित्वा ततो मण्डं पाययेदातमूचिणम् ॥ ७ ॥
एतेनैव कषायेण मिश्रितं वा सुखावहम् ।
भवेद्ग्रासञ्च पानं वा वातिके मधुमूर्च्छितम् ॥ ८ ॥
पित्तमूत्रग्रहचिकित्सा ।
एर्वारुकस्य१ बीजानि चपुषस्यतु२ पित्तजे ।
पिष्ट्वा शर्करया सार्द्धं दद्यात्तण्डुलवारिणा ॥ ९ ॥
शृतं कशेरुशालूकै३स्तथा शृङ्गाटकेन च ।
पाने शस्तं स्मृतं क्षीरं शर्करेक्षुरसान्वितम् ॥ १० ॥
नलकाशेक्षुदर्भाणां क्वाथं पाने प्रदापयेत् ।
पित्तमूत्रग्रहे वैद्यः क्षीरवस्तिञ्च बुद्धिमान् ॥ ११ ॥
एषां समभागं पलं जलाढ़के पक्त्वा पादशिष्टः क्वाथो ग्राह्यः । तेन
क्वाथेन मण्डो देयः ।
९ । एर्वारुकस्य कर्कटीविशेषस्य । चपुषस्य शषा दूति प्रसि-
द्धस्य । तण्डुलवारि प्रस्थमितं ।
१० । कशेरुः (केशुर) ।
११ । नलादीनां पलं । जलाढ़के पादशिष्टं देयम् । क्षीरवस्तौ
दुग्धस्याढ़कः ग्राह्यः ।
१ । कर्कटीकस्य । गः ।
२ । त्रिपुसी चापि । गः ।
३ । कशेरुकैश्च । गः ।
४७ अध्यायः।] मूत्त्रग्रहविवरणम्। २७३
चिके धाराजलं देयं कर्द्दमालेपनं तथा ।
शीतं स्थानं हितं प्रोक्तं प्रवातं व्यजनानिलम् १ ॥ १२ ॥
श्लेष्ममूत्रग्रहचिकित्सा ।
श्वदंष्ट्रां शृङ्गवेरञ्च पूतिकं २ पिप्पलीं तथा ।
श्लेष्मजे मूत्ररोगे तु लाजमण्डेन दापयेत् ॥ १३ ॥
कौलत्थं पाययेद् यूषं तिक्तमुद्गैश्च भोजनम् ।
तैलाभ्यङ्गो भवेदस्तौ माषस्वेदः कफात्मके ॥ १४ ॥
श्वदंष्ट्रा शृङ्गवेरञ्च पूतीकं पिप्पली तथा ।
पित्तमूत्रग्रहप्रोक्तां क्रियां सर्व्वां प्रयोजयेत् ॥ १५ ॥
वस्तौ प्रक्षालिते वैद्यस्तुरङ्गानां विचक्षणः ।
हितं वलितवस्तिभ्यो २ लाक्षापचाङ्गचूर्णकम् ॥ १६ ३ ॥
मधुना सह संयुक्तं पाने गोपयसा युतम् ।
मूत्रेण सह यस्य स्याद्वेदनार्तस्य वाजिनः ॥ १७ ॥
१२ । चिके पृष्ठवंशाधोभागे ।
१३ । श्वदंष्ट्रा गोक्षुरं । शृङ्गवेरं शुंठी । पूतिकं पूतिकरञ्जं ।
१६ । वलितवस्तिभ्यः सम्पादितवस्तिकर्म्मभ्य इत्यर्थः । पचाङ्गं
(वकम्काष्ठ) । रक्तचन्दनं वा ।
१ । प्रवातव्यजनानिलैः । खः ।
२ । पूतिकां । गः ।
३ । हितं प्रक्षाल्यते वैद्यः । गः ।
35
२७४ अश्ववैद्यके [४० अध्यायः ।
शर्कराणां प्रपातस्तु स ज्ञेया मूत्रशर्करी ।
कुष्ठशिग्रुविडङ्गानि हिङ्गुतुम्बुरुकं तथा ॥ १८ ॥
सैन्धवञ्चाश्मभेदञ्च कल्कं कृत्वा विचक्षणः ।
तत्कल्कं यवभक्तञ्च सुरया सह मर्द्दयेत् ॥ १६ ॥
मूत्रशर्करिणे दद्याद् भोजने सततं बुधः ।
रजनीक्षारवद्द्भस्म गालयित्वा पलाशजम् ॥ २० ।
गृहीत्वा तज्जलं प्राज्ञः पुनः कृत्वा पयःस्रुतम्१ ।
ब्रह्म्यपामार्गसूक्ष्मैलाकुलत्थाष्टकवर्गकैः ॥ २१ ॥
सुपिष्टं तेन तोयेन पानं शर्करिणो२ हितम् ॥
शुक्लं मेहति यो वाजी शुक्रमेहीति तं विदुः ॥ २२ ॥
१८। तुम्बुरुः (धने) ।
१६। सुराप्रस्थेन सैन्धवादीनां पलम् ।
२०-२१। रजनी हरिद्रा लाक्षा वा । तस्याः क्षारं पलाशजं
क्षारञ्च समभागं वारिणा गोलयित्वा दोलायन्त्रेण परिस्राव्य तेन
तोयेन ब्रह्म्यादिकल्कं संमिश्य पाययेत् । “जीवकर्षभकौ मेदे
काकोल्यावृद्धिवृद्धिकौ । अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” ।
इति ॥
१ । पटस्रुतं । गः ।
२ । पानं शर्कराणां । गः ।
? Wait! Look at अin line 8: Is thatअ? Yes. Look at the next character: It has a loop at the top left, goes down, then a loop at bottom left: Wait! That's द्य? क्ष? ह्र? ह्नि? Wait, look at ह्र? What about ब्र? Look at ब्रह्मorव्रण: Line 8: व्रणसंयुताम्->व्रisवwith a diagonal slash. Line 10:व्रणिनो->ब्रorव्र? In line 10, it's व्रणिनो(writtenब्रणिनेorव्रणिने?). In line 10 it says स्वेदस्तु व्रणिनो हितः(orब्रणिने हितः). It has a dot in ब? No, बwith a slash inside. Now look at line 8: Could it beअ च्छ्रो? Wait, look at क्षोinअक्षो... Look at:अ क्षो त्रा मि कां` - why would Jayadatta write this?
Wait, what does Kustha do to a horse?
"त्वचं कुष्ठम
२७६ अश्ववैद्यके [४८ अध्यायः ।
कृत्वा कषायं मतिमान् कुष्ठरोगेषु दापयेत् ।
पानाय मधुना सार्द्धं सिद्धं भोजनमुत्तमम् ॥ ६ ॥
लोहितं चन्दनं दूर्वामुशीरं कटुरोहिणीम् ।
पिष्ट्वा निम्बपटोलञ्च व्रणे कुष्ठे प्रलेपयेत्¹ ॥ ७ ॥
अर्काश्वमारयोः पत्रं सर्षपं पिप्पलीं वचाम् ।
मरिचं शृङ्गवेरञ्च दन्तीमूलं सचित्रकम् ॥ ८ ॥
गवां मूत्रेण संपिष्य लवणैः सह योजयेत् ।
संलिप्य तेन कुष्ठानि व्रणहीनानि मर्दयेत् ॥ ९ ॥
व्रणेषु चैव सर्व्वेषु तैलं सर्षपजं हितम् ।
कल्केनानेन संयुक्तमभ्यङ्गे मर्दने सदा ॥ १० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कुष्ठ-
चिकित्सितेऽष्टचत्वारिंशोऽध्यायः ।
५-७ । पाटलेत्यादिलोहितान्तः पाठो ग-पुस्तके नास्ति ।
१० । कल्केनानेनेति उपयुक्तेन अर्कादिकल्केनेत्यर्थः ।
१ । प्रयोजयेत् । गः ।
[ २७७ ]
अथैकोनपञ्चाशत्तमोऽध्यायः ।
वातादिशोथलक्षणचिकित्साः ।
शोथे चिकित्सां वक्ष्यामि वातपित्तकफान्विते ।
सन्निपातसमुत्थेच रूपं पञ्चैव कीर्त्तितम्¹ ॥ १ ॥
वेदनास्थौल्यसंयुक्तं मृदुस्पर्शञ्च शीतलम् ।
शोथं वातात्मकं विद्याद्वाजिदेहसमुद्भवम् ॥ २ ॥
रक्तपित्तेन शोथः स्यात् कृष्णपाकेन संयुतः ।
वेदनोष्मसमायुक्तो नात्यन्तोच्छूनकस्तथा ॥ ३ ॥
कठिनत्वमहत्वाभ्यां युक्तं रुग्दाहवर्जितम् ।
श्लेष्मशोथं विजानीयाद्द्द्वन्द्रजं पित्तलक्षणम्² ॥ ४ ॥
सर्व्वलिङ्गं विदुर्वैद्याः सन्निपातसमुद्भवम् ।
द्विचिह्नं द्वन्द्वजं प्राहुर्मुनयः शास्त्रकोविदाः ॥ ५ ॥
शोथानां मारुतादीनां सर्व्वदोषापकर्षणम् ।
एकतश्च क्रियाः सर्व्वा रक्तमोक्षणमेकतः ॥ ६ ॥
अनुलेपसहस्राणि अनुलेपशतानि च ।
रक्तविन्दुविमोक्षस्य कलां नार्हन्ति षोडशीम् ॥ ७ ॥
१ । चैव यथाक्रमम् । खः।
२ । रक्तोद्भवो रक्तपित्तेन शोथः स्यात् पाकसंयुतः । गः।
२७८ अश्ववैद्यके [४६ अध्यायः ।
प्रच्छन्नेन जलौकाभिः शिरावेधेन वा भिषक् ।
सर्वेषामेव शोथानां रक्तमारुष्य बुद्धिमान् ॥ ८ ॥
पूर्व्वशास्त्रसमुद्दिष्टं ततः कुर्य्यात् क्रियामिमाम् ।
भेषजैः सघृतैः सम्यक् शोथरोगोपशान्तये ॥ ९ ॥
शोथे वातसमुद्भूते तैलाभ्यङ्गः प्रशस्यते ।
स्वेदो गोमयपिण्डेन पुटैश्चैरण्डपचकैः ॥ १० ॥
पिप्पलीशुण्ठिवर्षाभूदेवदार्वर्कशिग्रुभिः ।
तुरङ्गाणां स्मृतो लेपः शोथे वातसमुद्भवे ॥ ११ ॥
गोधावतीमहाकाली¹वरुणालम्बूषोद्भवैः ॥
मूलैर्गोमूत्रसंपिष्टैः प्रलेपस्तस्य शस्यते ॥ १२ ॥
पञ्चमूलकषायस्तु तिलतैलेन योजितः ।
प्रातः पाने प्रयोक्तव्यो भोजने च रसौदनः ॥ १३ ॥
८ । प्रच्छन्नेन परिच्छन्नेन ।
१० । शोथादीति श्लोकद्वयं ख-पुस्तके नास्ति ।
१२ । गोधावती (गोयालिया लता) । महाकाली लताविशेषः ।
माकाल् इति प्रसिद्धा । महाजालीति पाठोऽप्यस्ति । महाजाली
पीतघोषा । अलम्बुषा लज्जालुका लता ।
१ । महाकल । खः ।
४६ अध्यायः।] शोथविवरणम्। २७६
पित्तशोथचिकित्सा।
मञ्जिष्ठाधातकीलोध्रसारिवानन्तपद्मकैः ।
प्रलेपाः पित्तशोथेषु क्षीरवस्तिश्च कीर्त्तितः ॥ १४ ॥
कुशकाशनलेक्षूणां मूलक्वाथः सशर्करः ।
शस्तः पाने प्रभाते तु मधुमाचासमन्वितः ॥ १५ ॥
पञ्चतिक्तकसंसिद्धैर्गव्यसर्पिःसमन्वितै ।
भोजनं विहितं मुद्गैः शालिभिर्वा¹ पयोऽन्वितैः ॥ १६ ॥
श्लेष्मशोथचिकित्सा।
रूक्षः स्वेदः प्रदातव्यः इष्टकासिकतापुटैः ।
श्लेष्मशोथे प्रलेपश्च² कर्त्तव्यो यस्तु वातजे ॥ १७ ॥
वचाव्योषविडङ्गैलाकुष्ठजीरकसैन्धवैः ।
गोमूत्रपिष्टैः सुरया³ प्रतिपानञ्च कीर्त्तितम् ॥ १८ ॥
शुण्ठीमरिचसंयुक्ताः पिप्पलीक्षौद्रमिश्रिताः⁴ ।
१७। इष्टकासिकतापुटैः खर्परवालुकापुटैः । वातजोक्तलेपश्च
अत्र प्रयोज्य इत्यर्थः ।
१८। वचादीनां पलं गोमूत्रपिष्टं सुराप्रस्थेन देयम् ।
१। शालिव्रीहिसमन्वितैः। ग०।
२। श्लेष्मशोथप्रलेपः। ग०।
३। सुधिया। ग०।
४। योजिताः। ख०।
२८० अश्ववैद्यके [४६ अध्यायः ।
सुखिन्ना भोजने शस्ताः कुलत्थास्तैल योजिताः¹ ॥ १९॥
क्रिया साधारणी कार्य्या सन्निपातसमुद्भवे ।
दण्डजा द्विविधाः प्रोक्ताः शालिहोत्रादिभिः पुरा ॥ २० ॥
रक्तजे पित्तजोद्दिष्टा चिकित्सा परिकीर्त्तिता ।
अभिघातोद्भवे शोथे हितं यत्तद्विवक्ष्यते² ॥ २१ ॥
पञ्चवल्कलकल्केन सघृतेन मुहुर्मुहुः ।
औदुम्बरेण वा विद्वांस्तद्विलेपं प्रदापयेत् ॥ २२ ॥
पूर्व्वोद्दिष्टेन विधिना मोक्षयेत्तस्य शोणितम् ।
एवमागन्तुना वाहः शोथेनाशु प्रमुच्यते ॥ २३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शोथचि-
कित्सिते एकोनपञ्चाशत्तमोऽध्यायः ॥
───────────────────
१९ । सुखिन्ना अग्नौ वारिणा सिद्धा इत्यर्थः ।
२०-२१ । क्रियादिशोकद्वयं ग-पुस्तके नास्ति ।
───────────────────
१ । तैलमिश्रिताः । खः ।
२ । उद्भिदं तच्च कथ्यते । ग० ।
[ २८ ]
अथ पञ्चाशत्तमोऽध्यायः ।
────────
मुष्करोगे
वाताण्डलक्षचिकित्सितम् ।
प्रकोपान् मारुतादीनां कारणैः पूर्व्वचोदितैः ।
अण्डस्कन्द¹ स्तुरङ्गाणां जायते बहुसंज्ञकः ॥ १ ॥
तस्य रूपं चिकित्साञ्च भेदञ्चैव समासतः ।
प्रवक्ष्यामि यथायोगं वाजिनां हितकाम्यया ॥ २ ॥
वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संयुतः¹।
तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥ ३ ॥
यदण्डं कम्प्यतेऽश्वस्य तेन पादेन³ खंजति ।
स्तब्धपृष्ठस्य⁴ तस्याशु वेदना मुष्कयोर्भवेत् ॥ ४ ॥
────────────────────────
१ । सम्प्रति त्रिविधाण्डस्कन्दरोगस्य निदानचिकित्सिते विवक्षु-
राह प्रकोपादिति । पूर्व्वचोदितैः वातादिप्रकोपकथनाध्याये कथितैः
कारणैरित्यर्थः । मारुतादीनां वातपित्तकफानामित्यर्थः । प्रकोपः
अण्डेषु स्कन्दइव अण्डस्कन्दो जायते । बहुसंज्ञक इति वातपित्तक-
फात्मकः ।
२ । यथायोगमिति योगमनतिक्रम्य यस्मिन्नधिकारे यो योगः
तदनुसारेणेत्यर्थः ।
────────────────────────
१ । व्यण्डसूनं । गः । ३ । तेन गात्रेण । गः ।
२ । पोषितः । गः । ४ । यस्य च पृष्ठवाहस्य । गः ।
36
२८२ अश्ववैद्यके [५० अध्यायः ।
औपाण्डीं१ वेधयेत्तस्य शिरां पूर्व्वं२ विचक्षणः ।
अभ्यङ्गञ्च भिषक् कुर्य्यान्मुष्कयोः सर्पिषा ततः ॥ ५ ॥
सुखोष्णौरोदनं शस्तं३ क्षीरैर्गव्यादिभिस्तथा ।
अनुवासनञ्च कर्त्तव्यं तैलैस्तृतपूर्व्वकैः ॥ ६ ॥
हयगन्धस्य वृक्षस्य मूलमुत्कृत्य पेषयेत् ।
सघृतं दापयेदाहे वातार्त्तस्तेन सिध्यति ॥ ७ ॥
सौवर्चलं रसोनञ्च हिङ्गुसौवर्चलान्वितम् ।
५। वाताण्डचिकित्सामाह । वाताण्डे खञ्जताद्युपद्रवे सति
तदुपशमार्थं पूर्व्वं अण्डशिरां वेधयेत् संवेध्य च शोणितमोक्षणं
कारयेदित्यर्थः। सर्पिषा मुष्काभ्यङ्गश्च वेदनाशान्त्यर्थमित्यर्थः। कुर्य्यात् ।
६ । पथ्यञ्च सुखोष्णपायसौदनं देयम् ।
८। ह
५० अध्यायः ।] मुष्करोगविवरणम् । २८३
सघृतं कुष्ठसंयुक्तं दापयेत्तद्बुधो भिषक् ।
निघन्त्यामयमण्डानां सप्तकं वा द्विसप्तकम् ॥ ८ ॥
कुलत्थयवकोलानां पञ्चमूल्यास्तथैव च ।
क्वाथेन तैलयुक्तेन¹ निरूहं संप्रयोजयेत्² ॥ ९ ॥
मांसानां रसकैः स्निग्धैर्भोजनं तच्च³ शस्यते ।
ग्रासे दूर्व्वार्जुनौ वापि जलं कूपात्समुद्धृतम् ॥ १० ॥
ग्रासप्रतिहतो यस्तु कृच्छ्रमूत्रपुरीषयोः ।
तच्च पृष्ठे समाध्मातो न स शक्यश्चिकित्सितुम् ॥ ११ ॥
पित्ताण्डलक्षणचिकित्सितम् ।
शूनता मुष्कयोश्चैव रक्तता⁴ कृष्णतापि वा ।
भवेत् पित्तेन दुष्टेन पिड़कानाञ्च⁵ सम्भवः ॥ १२ ॥
१० । पथ्यमाह । मांसेत्यादि ।
११ । असाध्यत्वमाह ग्रासेत्यादि । तस्य लक्षणञ्च कृच्छ्रमूत्र-
पुरीषत्वादिकं ज्ञेयम् । ग्रासेत्यादिश्लोको ग-पुस्तके नास्ति । कृच्छ्र-
मूत्रपुरीषयोरित्यत्र कृच्छ्रमूत्रपुरीषक इति पाठो युक्तः । तच्चेत्यत्र
यस्येति पाठः साधुः ।
१२ । पित्ताण्डलक्षणमाह । शूनतेति । पिड़कानां व्रणानाम् ।
१ । तिलतैलेन । गः । ४ । रक्ताकृष्णासितापिच । गः ।
२ । संप्रदापयेत् । गः । ५ । पिड़कानां समुद्भवः । गः ।
३ । तस्य । खः ।
२८४ अश्ववैद्यके [५० अध्यायः।
शिरावेधस्तथाभ्यङ्गे¹ वाताण्डे यः प्रकीर्त्तितः ।
कर्त्तव्यः स तु² पित्ताण्डे यदन्यच्च प्रचक्षते ॥ १३ ॥
कङ्कोलमुस्तकाश्मर्य्यवाजिगन्धेक्षुसाधितः³ ।
क्वाथः पाने हितस्तस्मै शर्करामधुमूर्च्छितः ॥ १४ ॥
पञ्चवल्कस्य कल्कश्च सर्पिषा सह योजितः ।
प्रदातव्यः प्रलेपाय गोक्षुरश्च निरुहणे⁴ ॥ १५ ॥
मुस्तवालकधन्याकं⁵ कथितं शीतलीकृतम्⁶ ।
तोयं पाने प्रदातव्यं ग्रासे दूर्व्वा च शस्यते ॥ १६ ॥
श्लेष्माण्डलक्षणचिकित्सितम् ।
शूनौ तु कठिनौ रूक्षौ वृषणौ मन्दवेदनौ ।
कृच्छ्रमूत्रस्य वाहस्य मूचकोशश्च शूयते° ॥ १७ ॥
१३ । पित्ताण्डस्य चिकित्सामाह। शिरेति।
१४। योगान्तरमाह। कङ्कोलेत्यादि। कङ्कोलादीनां मिलितं
पलं शर्करामधुनोश्च प्रत्येकं कुड़वः।
१५। निरूहणे गोक्षुरं, पञ्चवल्कस्य कल्कः सर्पिषा सह प्रलेपार्थं
देयः।
१७। मूत्रकोषश्च शूयते स्फीतो भवति ।
१ । तथास्यैव । गः।
२ । कर्त्तव्यं स्याच्च । गः।
३ । वाजिगन्धेन साधितः । खः।
४ । प्रलेपार्थे प्रयोक्तव्यो गोक्षीरन्तु निरूहयेत्। गः।
५ । मूस्तवालकधान्याकैः। गः।
६ । शीतलं कृतम्। गः। ७। जायते।
५० अध्यायः । ] मुखरोगविवरणम् । २८५
श्लेष्माएडः स तु¹ विज्ञेय धौपाण्डीं वेधयेच्छिराम् ।
निरूहं² कटुतैलेन चाङ्गे³ स्वेदं च कारयेत् ॥ १८॥
कुष्ठैलातिविषा⁴ लोध्रवचाव्योषहरेणुभिः ।
पानं⁵ कल्कीकृतैः शस्तं सुरामध्वासवान्वितम् ॥ १६ ॥
पञ्चतिक्तकसंसिद्धैः कुर्यान्मुद्गैश्च भोजनम् ।
पिप्पलीक्षौद्रसंयुक्तैस्तैलशृङ्गीसमन्वितैः ।
व्योषक्षौद्रसतैलैश्च) कुलत्थैर्वापि भोजयेत् ॥२०॥
भ्रामणञ्च⁶ तुरङ्गस्य सायं प्रातः शनैर्हितम् ।
शुष्को घासः प्रदातव्यः मृतशीतं⁷ जलं तथा ॥ २१ ॥
किराततिक्तकच्छूनामाईकाणां समायुतम् ।
पिण्डं वा देयमश्वस्य श्वयथुव्याधिशान्तये ॥ २२ ॥
१६। अतिविषा (आतइच्) ।
२०। पिप्पलीत्यादिपाठः ख-पुस्तके नास्ति। व्योषेत्यादि पादद्वयं
ग-पुस्तके नास्ति ।
२२। किरातेत्यादिः श्लोकः ख-पुस्तके नास्ति। कच्छुः कपि-
कच्छुः ।
१ । श्लेष्माखंडतस्य । खः । ५ । पाने । गः ।
२ । निरूहेत् । गः । ६ । भ्रमणं । खः ।
३ । चाङ्गस्वेदविचक्षणाः । खः । ७ । शृतं शीतं । गः ।
४ । पिप्पली । गः ।
२८६ अश्ववैद्यके [५० अध्यायः ।
पोताण्डलक्षणचिकित्सितम् ।
शूनौ पक्कौ तुरङ्गस्य मुष्कौ यस्य सवेदनौ ।
चिक्कस्तम्भेन युक्तस्य तस्य पूताण्ड¹मादिशेत् ॥ २३ ॥
वाताण्ड²विहितस्तत्र शिरावेधः प्रशस्यते ।
घृताभ्यङ्गश्च कर्त्तव्यो मुष्कयोस्तस्य वाजिनः ॥ २४ ॥
पिप्पलीलोध्रयष्ट्याह्वैरेलबालुकसंयुतैः ।
पानं तस्मै हितं दृष्टं सिन्धुमध्वा³ समन्वितम् ॥ २५ ॥
वर्षाभूसरला⁴ श्यामालोध्रचन्दनपद्मकैः ।
तोयपिष्टैः प्रलेपस्तु मुष्कयोः परिकीर्त्तितः ॥ २६ ॥
अनया वाजिनो रोगः रूपया शान्तिमृच्छति ।
विपाट्य मुष्कौ शस्त्रेण तदाण्डमपकर्षयेत् ॥ २७ ॥
हस्तेनाकृष्य मुष्काण्डं नाड़ीं बद्ध्वा दृढं भिषक् ।
सुवर्त्तितेन सूत्रेण तच्छिन्द्याच्च विचक्षणः ॥ २८ ॥
२४ । पूताण्डं पोताण्डं पुच्छाण्डमिति च त्रिविधः पाठो पुस्तक-
द्वये दृश्यते, तेषु पूताण्डं पोताण्डमित्युभयमेव साधु न पुच्छा-
ण्डमिति ।
२६ । वर्षाभूः पुनर्नवा शुण्ठी वा ।
२८ । तदाण्डमपकर्षयेदित्यादि वङ्कितप्रेन शस्त्रेणेत्यन्तः पाठो
ग-पुस्तके न दृश्यते ।
१ । पुच्छाण्डम् । गः । ३ । सीधुमध्वासवान्वितम् खः ।
२ । वाताख्ये । गः । ४ । वर्षाभूरमला । खः ।
५० अध्यायः ।] मुष्करोगविवरणम् । २८७
वह्नितप्तेन शस्त्रेण तद्ब्रणेन सुनिश्चितम् ।
रक्तमेवं तुरङ्गस्य प्रशमं नैव गच्छति¹ ॥ २९ ॥
अग्निवर्णेन येनैव² छिन्द्याच्छस्त्रेण दुर्बुधः³ ।
अबद्धा⁴ सुदृढं नाड़ीं तस्य कर्म्म न सिध्यति ॥ ३० ॥
आकृष्याण्डं भिषङ् मुष्कं पूरितं मधुसर्पिषा ।
क्षीरवृक्षकषायेण व्रणवत् समुपाचरेत् ॥ ३१ ॥
प्रशस्तं गुग्गुलोः पानं त्रिफलाक्वाथयोजितम् ।
तच्चङ्क्रमणशीलस्य घृताभ्यक्तस्य वाजिनः ॥ ३२ ॥
निपात्य भूमौ तुरगं बद्धा चैव दृढं बुधः ।
उत्तानस्य विनिःक्षिप्य पृष्ठं गर्त्तस्तथैव च ॥ ३३ ॥
पातनादि ततः कर्म्म कुर्य्यात्तुच्छाण्डरोगिणः ।
दृढकर्म्मा प्रगल्भश्च शास्त्रविच्च भिषग्वरः ॥ ३४ ॥
२९ । श्लोकोऽयं न संगच्छते । सुवर्त्तितेन सुवृत्तेन ।
३२ । प्रशस्तमित्यादिः विरोधी च विशेषत इत्यन्तः पाठो
ग-पुस्तके न दृश्यते ।
१ । त्वरमेव प्रगच्छति । गः । ३ । दुर्मतिः । गः ।
२ । यो नैव । गः । ४ । सुबद्धा । खः ।
२८८ | अश्ववैद्यके | [५० अध्यायः ।
रक्ताण्डलक्षणचिकित्सितम् ।
स्पर्शतः कठिनौ रूक्षौ रूपतश्चैव यौ मृदू ।
वृषणौ यस्य वाहस्य स रक्ताण्डः प्रकीर्त्तितः ॥ ३५ ॥
तस्मिन् सर्व्वाः प्रयोक्तव्याः क्रियाः पोताण्डबोधिताः।
क्षिप्रं सिद्धिर्भवत्येव वैद्यानां शास्त्रशालिनाम् ॥ ३६ ॥
उच्चाण्डवान् प्रयुञ्जीत दुष्टानां मुष्ककालनम्।
भ्रमणञ्च विशेषेण तेषां कुर्य्याद्दिसप्तकम् ॥ ३७ ॥
भ्रमतामेव दातव्यं जलं ग्रासास्तथैव च ।
घृताभ्यङ्गं च सततं व्रणे गात्रे च वाजिनाम् ॥ ३८ ॥
दातव्यो गुग्गुलुस्तावत् त्रिफलाक्वाथयोजितः ।
रूढं यावद् व्रणं तेषां जायते निरुपद्रवम् ॥ ३९ ॥
स्वादकः खादकश्चैव विरोधी च विशेषतः ।
मुष्कयोर्लगनं वाजो प्रतिहन्ता च सिध्यति ॥ ४० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे मुष्करोग-
चिकित्सिते पञ्चाशत्तमोऽध्यायः ।
———
३७। उच्चाण्डवानिति पादद्वयं न लगति ।
४०। अस्य श्लोकस्य शेषपादद्वय न सम्यक् लगति ।
Narada Puncharatna, Fasc. IV .. .. .. Rs. 0 6
Parisíshtaparvan (Sans.) Fasc. I—III @ /6/ each .. 1 2
Pingala Chhandah Sútra, (Sans.) Fasc. I—III @ /6/ each .. .. 1 2
Prithiráj Rásau, (Sans.) Fasc. I—VI @ /6/ each .. 2 4
Ditto (English) Fasc. I .. .. 0 12
Páli Grammar, (English) Fasc. I and II @ /6/ each .. 0 12
Prákrita Lakshanam, (Sans.) Fasc. I .. .. 1 8
Parásara Smriti (Sans.) Fasc. I—V @ /6/ each .. 1 14
Srauta Sútra of Apastamba, (Sans.) Fasc. I—XII @ /6/ each .. 4 8
Ditto Áśvaláyana, (Sans.) Fasc. I—XI @ /6/ each .. 4 2
Ditto Látyáyana (Sans.) Fasc. I—IX @ /6/ each .. 3 6
Ditto Sánkháyana (Sans.) Fasc. I—III @ /6/ each .. 1 2
Sáma Veda Samhitá, (Sans.) Vols. I, Fasc. 1—10; II, 1—6; III, 1—7;
IV, 1—6; V, 1—8, @ /6/ each Fasc. .. .. 13 14
Sáhitya Darpana, (English) Fasc. I—IV @ /6/ each .. 1 8
Sánkhya Aphorisms of Kapila, (English) Fasc. I and II @ /6/ each .. 0 12
Sarva Darsana Sangraha, (Sans.) Fasc. II .. .. 0 6
Sankara Vijaya, (Sans.) Fasc. II and III @ /6/ each .. 0 12
Sánkhya Pravachana Bháshya, (English) Fasc. III .. .. 0 6
Sánkhya Sára, (Sans.) Fasc. I .. .. .. 0 6
Suśruta Samhitá, (Eng.) Fasc. I and II @ /12/ each .. 1 8
Taittiríya Áranya Fasc. I—XI @ /6/ each .. 4 2
Ditto Bráhmana (Sans.) Fasc I—XXIV @ /6/ each .. 9 0
Ditto Samhitá, (Sans.) Fasc I—XXXIII @ /6/ each .. 12 6
Ditto Prátisákhya, (Sans.) Fasc. I—III @ /6/ each .. 1 2
. Ditto and Aitareya Upanishads, (Sans.) Fasc. II and III @ /6/ each 0 12
Tándyá Bráhmana, (Sans.) Fasc. I—XIX @ /6/ each .. 7 2
Tattva Chintámaņi, Fasc. I—IV (Sans.) @ /6/ each .. 1 8
Uttara Naishadha, (Sans.) Fasc. III—XII @ /6/ each .. 3 12
Uvásagadasáo, Fasc. I and II @ /12/ .. .. 1 8
Váyu Purána, (Sans.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, @ /6/
each Fasc. .. .. .. .. 4 8
Vishnu Smriti, (Sans.) Fasc. I—II @ /6/ each .. 0 12
Vivádáratnákar, Fasc. I and II @ /6/ .. .. 0 12
Vrihannáradíya Purána, Fasc. I and II @ /6/ .. .. 0 12
Yoga Sútra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. 4 6
The same, bound in cloth .. .. .. 5 2
Arabic and Persian Series.
'Alamgírnámah, with Index, (Text) Fasc. I—XIII @ /6/ each .. 4 14
Aín-i-Akbarí, (Text) Fasc. I—XXII @ 1/ each .. 22 0
Ditto (English) Vol. I (Fasc. I—VII) .. .. 13 4
Akbarnámah, with Index, (Text) Fasc. I—XXXVI @ 1/ each .. 36 0
Bádsháhnámah with Index, (Text) Fasc. I—XIX @ /6/ each .. 7 2
Beale's Oriental Biographical Dictionary, pp. 291, 4to., thick paper,
@ 4/12; thin paper .. .. .. .. 4 8
Dictionary of Arabic Technical Terms and Appendix, Fasc. I—XXI @
1/ each .. .. .. .. .. 21 0
Farhang-i-Rashídí (Text), Fasc. I—XIV @ 1/ each .. 14 0
Fihrist-i-Túsí, or, Túsy's list of Shy'ah Books, (Text) Fasc. I—IV @
/12/ each .. .. .. .. .. 3 0
Futúh-ul-Shám Waqídí, (Text) Fasc. I—IX @ /6/ each .. 3 6
Ditto Azádí, (Text) Fasc. I—IV @ /6/ each .. 1 8
Haft Asmán, History of the Persian Mansawi, (Text) Fasc. I .. 1 8
History of the Caliphs, (English) Fasc. I—VI @ /12/ each .. 4 8
Iqbálnámah-i-Jahángírí, (Text) Fasc. I—III @ /6/ each .. 1 2
Işabáh, with Supplement, (Text) 40 Fasc. @ /12/ each .. 30 0
Maghází of Wáqidí, (Text) Fasc. I—V @ /6/ each .. 1 14
Muntakhab-ul-Tawáríkh, (Text) Fasc. I—XV @ /6/ each .. 5 10
Muntakhab-ul-Tawáríkh (English) Vol. II, Fasc. I—IV @ /12/ each .. 3 0
Muntakhab-ul-Lubáb, (Text) Fasc. I—XXIX @ /6/ each .. 7 2
(Turn over.)