सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 309, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 309

५० अध्यायः ।] मुष्करोगविवरणम् । २८७
वह्नितप्तेन शस्त्रेण तद्ब्रणेन सुनिश्चितम् ।
रक्तमेवं तुरङ्गस्य प्रशमं नैव गच्छति¹ ॥ २९ ॥
अग्निवर्णेन येनैव² छिन्द्याच्छस्त्रेण दुर्बुधः³ ।
अबद्धा⁴ सुदृढं नाड़ीं तस्य कर्म्म न सिध्यति ॥ ३० ॥
आकृष्याण्डं भिषङ् मुष्कं पूरितं मधुसर्पिषा ।
क्षीरवृक्षकषायेण व्रणवत् समुपाचरेत् ॥ ३१ ॥
प्रशस्तं गुग्गुलोः पानं त्रिफलाक्वाथयोजितम् ।
तच्चङ्क्रमणशीलस्य घृताभ्यक्तस्य वाजिनः ॥ ३२ ॥
निपात्य भूमौ तुरगं बद्धा चैव दृढं बुधः ।
उत्तानस्य विनिःक्षिप्य पृष्ठं गर्त्तस्तथैव च ॥ ३३ ॥
पातनादि ततः कर्म्म कुर्य्यात्तुच्छाण्डरोगिणः ।
दृढकर्म्मा प्रगल्भश्च शास्त्रविच्च भिषग्वरः ॥ ३४ ॥
२९ । श्लोकोऽयं न संगच्छते । सुवर्त्तितेन सुवृत्तेन ।
३२ । प्रशस्तमित्यादिः विरोधी च विशेषत इत्यन्तः पाठो
ग-पुस्तके न दृश्यते ।
१ । त्वरमेव प्रगच्छति । गः । ३ । दुर्मतिः । गः ।
२ । यो नैव । गः । ४ । सुबद्धा । खः ।