सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 303, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 303

[ २८ ]
अथ पञ्चाशत्तमोऽध्यायः ।
────────
मुष्करोगे
वाताण्डलक्षचिकित्सितम् ।
प्रकोपान् मारुतादीनां कारणैः पूर्व्वचोदितैः ।
अण्डस्कन्द¹ स्तुरङ्गाणां जायते बहुसंज्ञकः ॥ १ ॥
तस्य रूपं चिकित्साञ्च भेदञ्चैव समासतः ।
प्रवक्ष्यामि यथायोगं वाजिनां हितकाम्यया ॥ २ ॥
वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संयुतः¹।
तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥ ३ ॥
यदण्डं कम्प्यतेऽश्वस्य तेन पादेन³ खंजति ।
स्तब्धपृष्ठस्य⁴ तस्याशु वेदना मुष्कयोर्भवेत् ॥ ४ ॥
────────────────────────
१ । सम्प्रति त्रिविधाण्डस्कन्दरोगस्य निदानचिकित्सिते विवक्षु-
राह प्रकोपादिति । पूर्व्वचोदितैः वातादिप्रकोपकथनाध्याये कथितैः
कारणैरित्यर्थः । मारुतादीनां वातपित्तकफानामित्यर्थः । प्रकोपः
अण्डेषु स्कन्दइव अण्डस्कन्दो जायते । बहुसंज्ञक इति वातपित्तक-
फात्मकः ।
२ । यथायोगमिति योगमनतिक्रम्य यस्मिन्नधिकारे यो योगः
तदनुसारेणेत्यर्थः ।
────────────────────────
१ । व्यण्डसूनं । गः ।       ३ । तेन गात्रेण । गः ।
२ । पोषितः । गः ।        ४ । यस्य च पृष्ठवाहस्य । गः ।
36