अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 294, कुल 522 में से
संदर्भ में पढ़ें२७२ अश्ववैद्यके [४७ अध्यायः ।
एरण्डमूलं वर्षाभूरनन्ताच शतावरी ॥ ६ ॥
कषायं वारिणा कृत्वा यवानां तण्डुलैर्भिषक् ।
साधयित्वा ततो मण्डं पाययेदातमूचिणम् ॥ ७ ॥
एतेनैव कषायेण मिश्रितं वा सुखावहम् ।
भवेद्ग्रासञ्च पानं वा वातिके मधुमूर्च्छितम् ॥ ८ ॥
पित्तमूत्रग्रहचिकित्सा ।
एर्वारुकस्य१ बीजानि चपुषस्यतु२ पित्तजे ।
पिष्ट्वा शर्करया सार्द्धं दद्यात्तण्डुलवारिणा ॥ ९ ॥
शृतं कशेरुशालूकै३स्तथा शृङ्गाटकेन च ।
पाने शस्तं स्मृतं क्षीरं शर्करेक्षुरसान्वितम् ॥ १० ॥
नलकाशेक्षुदर्भाणां क्वाथं पाने प्रदापयेत् ।
पित्तमूत्रग्रहे वैद्यः क्षीरवस्तिञ्च बुद्धिमान् ॥ ११ ॥
एषां समभागं पलं जलाढ़के पक्त्वा पादशिष्टः क्वाथो ग्राह्यः । तेन
क्वाथेन मण्डो देयः ।
९ । एर्वारुकस्य कर्कटीविशेषस्य । चपुषस्य शषा दूति प्रसि-
द्धस्य । तण्डुलवारि प्रस्थमितं ।
१० । कशेरुः (केशुर) ।
११ । नलादीनां पलं । जलाढ़के पादशिष्टं देयम् । क्षीरवस्तौ
दुग्धस्याढ़कः ग्राह्यः ।
१ । कर्कटीकस्य । गः ।
२ । त्रिपुसी चापि । गः ।
३ । कशेरुकैश्च । गः ।