सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 310, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 310

२८८ | अश्ववैद्यके | [५० अध्यायः ।
रक्ताण्डलक्षणचिकित्सितम् ।
स्पर्शतः कठिनौ रूक्षौ रूपतश्चैव यौ मृदू ।
वृषणौ यस्य वाहस्य स रक्ताण्डः प्रकीर्त्तितः ॥ ३५ ॥
तस्मिन् सर्व्वाः प्रयोक्तव्याः क्रियाः पोताण्डबोधिताः।
क्षिप्रं सिद्धिर्भवत्येव वैद्यानां शास्त्रशालिनाम् ॥ ३६ ॥
उच्चाण्डवान् प्रयुञ्जीत दुष्टानां मुष्ककालनम्।
भ्रमणञ्च विशेषेण तेषां कुर्य्याद्दिसप्तकम् ॥ ३७ ॥
भ्रमतामेव दातव्यं जलं ग्रासास्तथैव च ।
घृताभ्यङ्गं च सततं व्रणे गात्रे च वाजिनाम् ॥ ३८ ॥
दातव्यो गुग्गुलुस्तावत् त्रिफलाक्वाथयोजितः ।
रूढं यावद् व्रणं तेषां जायते निरुपद्रवम् ॥ ३९ ॥
स्वादकः खादकश्चैव विरोधी च विशेषतः ।
मुष्कयोर्लगनं वाजो प्रतिहन्ता च सिध्यति ॥ ४० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे मुष्करोग-
चिकित्सिते पञ्चाशत्तमोऽध्यायः ।
———
३७। उच्चाण्डवानिति पादद्वयं न लगति ।
४०। अस्य श्लोकस्य शेषपादद्वय न सम्यक् लगति ।