सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 306, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 306

२८४ अश्ववैद्यके [५० अध्यायः।
शिरावेधस्तथाभ्यङ्गे¹ वाताण्डे यः प्रकीर्त्तितः ।
कर्त्तव्यः स तु² पित्ताण्डे यदन्यच्च प्रचक्षते ॥ १३ ॥
कङ्कोलमुस्तकाश्मर्य्यवाजिगन्धेक्षुसाधितः³ ।
क्वाथः पाने हितस्तस्मै शर्करामधुमूर्च्छितः ॥ १४ ॥
पञ्चवल्कस्य कल्कश्च सर्पिषा सह योजितः ।
प्रदातव्यः प्रलेपाय गोक्षुरश्च निरुहणे⁴ ॥ १५ ॥
मुस्तवालकधन्याकं⁵ कथितं शीतलीकृतम्⁶ ।
तोयं पाने प्रदातव्यं ग्रासे दूर्व्वा च शस्यते ॥ १६ ॥
श्लेष्माण्डलक्षणचिकित्सितम् ।
शूनौ तु कठिनौ रूक्षौ वृषणौ मन्दवेदनौ ।
कृच्छ्रमूत्रस्य वाहस्य मूचकोशश्च शूयते° ॥ १७ ॥
१३ । पित्ताण्डस्य चिकित्सामाह। शिरेति।
१४। योगान्तरमाह। कङ्कोलेत्यादि। कङ्कोलादीनां मिलितं
पलं शर्करामधुनोश्च प्रत्येकं कुड़वः।
१५। निरूहणे गोक्षुरं, पञ्चवल्कस्य कल्कः सर्पिषा सह प्रलेपार्थं
देयः।
१७। मूत्रकोषश्च शूयते स्फीतो भवति ।
१ । तथास्यैव । गः।
२ । कर्त्तव्यं स्याच्च । गः।
३ । वाजिगन्धेन साधितः । खः।
४ । प्रलेपार्थे प्रयोक्तव्यो गोक्षीरन्तु निरूहयेत्। गः।
५ । मूस्तवालकधान्याकैः। गः।
६ । शीतलं कृतम्। गः। ७। जायते।