अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 296, कुल 522 में से
संदर्भ में पढ़ें२७४ अश्ववैद्यके [४० अध्यायः ।
शर्कराणां प्रपातस्तु स ज्ञेया मूत्रशर्करी ।
कुष्ठशिग्रुविडङ्गानि हिङ्गुतुम्बुरुकं तथा ॥ १८ ॥
सैन्धवञ्चाश्मभेदञ्च कल्कं कृत्वा विचक्षणः ।
तत्कल्कं यवभक्तञ्च सुरया सह मर्द्दयेत् ॥ १६ ॥
मूत्रशर्करिणे दद्याद् भोजने सततं बुधः ।
रजनीक्षारवद्द्भस्म गालयित्वा पलाशजम् ॥ २० ।
गृहीत्वा तज्जलं प्राज्ञः पुनः कृत्वा पयःस्रुतम्१ ।
ब्रह्म्यपामार्गसूक्ष्मैलाकुलत्थाष्टकवर्गकैः ॥ २१ ॥
सुपिष्टं तेन तोयेन पानं शर्करिणो२ हितम् ॥
शुक्लं मेहति यो वाजी शुक्रमेहीति तं विदुः ॥ २२ ॥
१८। तुम्बुरुः (धने) ।
१६। सुराप्रस्थेन सैन्धवादीनां पलम् ।
२०-२१। रजनी हरिद्रा लाक्षा वा । तस्याः क्षारं पलाशजं
क्षारञ्च समभागं वारिणा गोलयित्वा दोलायन्त्रेण परिस्राव्य तेन
तोयेन ब्रह्म्यादिकल्कं संमिश्य पाययेत् । “जीवकर्षभकौ मेदे
काकोल्यावृद्धिवृद्धिकौ । अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” ।
इति ॥
१ । पटस्रुतं । गः ।
२ । पानं शर्कराणां । गः ।