अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
२६२ अश्ववैद्यके [४३ अध्यायः ।
गुरुभिः खादितै१र्नित्यं तथा स्नेहाति२योगतः ।
सौभिक्षो जायतेऽश्वस्य आमविद्वेगलक्षितः ॥ २ ॥
यवसं खादनश्चैव३ यो वाजी खादितं पुनः ।
मुखेन प्रोज्झित्याशु तं विद्यादूर्ध्ववर्त्तिनम् ॥ ३ ॥
अतीसारेण संयुक्तं शूलं यस्योपजायते ।
भिन्नवर्त्तीति तं विद्यात्तुरङ्गं दीनचेष्टितम् ॥ ४ ॥
नोत्सृजेद्यः पुरीषं तु सानाहः शूलपीडितः ।
विबन्धवर्त्तिः सास्याहुस्तं विद्यात्कष्टजीवितम् ॥ ५ ॥
भिन्नं स्निग्धं पुरीषञ्च जायते यस्य वाजिनः ।
स्नेहातियोगात्तस्याशु स्नेहवर्त्तिं समादिशेत् ॥ ६ ॥
२ । स्नेहातियोगतः घृताद्यधिकभोजनादित्यर्थः । आमविड्बे-
गलक्षित इति आमविट् अपक्कमलं तस्य वेगेन लक्षितः अनुमितः ।
प्रधानतोऽपक्कमलवेगेन सौभिक्षशूलमनुमीयते इत्यर्थः । लक्षण-
मिति पाठे स एवार्थः ।
३। ऊर्द्धवर्त्तिशूललक्षणमाह यवसमिति । यवसं घासः ।
४। दीनचेष्टितं मन्दचेष्टम् ।
५। सानाह आनाहेन विण्मूत्रसङ्गेन सह वर्त्तमानः । श्लोकोऽयं
ग-पुस्तके लिपिकरप्रमादात् पतित इव लक्ष्यते ।
१ । खादनैः । गः । २ । स्नेहादियोगतः । गः ।
३ । खादने चैव । गः ।
४३ अध्यायः।] शूलरोगविवरणम् । २६३
सौभिन्नेविबन्धचिकित्सा।
सौभिन्ने च विबन्धे च कृत्वा स्वेदं विचक्षणः।
वक्ष्यमाणां ततः प्राज्ञः कुर्याद्वर्त्तिक्रियामिमाम् ॥ ७ ॥
आगारधूमं सुरसं पिप्पलीं सर्षपं वचाम् ।
सिन्धुवारीञ्च गुण्ठीञ्च तथा लवणपञ्चकम् ॥ ८ ॥
सुचूर्ण्य१ च ततो वर्त्तिं कुर्यात्तप्तगुडेन तु ।
दैर्घ्यमष्टाङ्गुलं तस्याः स्थौल्यञ्चाङ्गुष्ठसम्मितम्२ ॥ ९ ॥
प्रक्षिपेत्तां गुदेऽश्वस्य व्योषचूर्णावचूर्णिताम् ।
सैन्धवक्षौद्रलिप्तान्तु मलप्रच्युतिकारिणीम्३ ॥ १० ॥
वर्त्त्यापहृतदोषस्य४ वर्त्युक्तै५र्भेषजैस्ततः ।
सुराकाञ्जिकगोमूत्रैः प्रयुञ्जीतानुवासनम्६ ॥ ११ ॥
८-१०। सुरसं गन्धतृणं । सिन्धुवारीं मोचरसं। लवणपञ्चक-
मुक्तं । दूथमागारधूमादिवर्त्तिः कथ्यते ।
११। शूले पिण्डमाह नकुलः-“सैन्धवं नागरं श्यामा गुडूची
सितसर्षपाः। अम्लवेतससंयुक्तः पिण्डोऽयं शूलनाशनः” इति॥ वस्त्य-
धिकारकथितौषधिमिश्रैः सुरादिभिरनुवासनवस्तिं प्रदद्यादित्यर्थः॥
१। संचूर्णितैस्तु । गः।
२। स्थौल्येनाङ्गुलिसम्मितं । गः ।
३। सैन्धवं क्षौद्रलिप्ताङ्गं मलप्रच्युतिकारकम् । गः।
४। वर्त्तिप्रहृतदोषस्य । गः ।
५। वस्त्युक्तैः । खः ।
६। अनुवासनं प्रयुञ्जीत सुरागोमूत्रकाञ्जिकैः । गः ।
२६४ अश्ववैद्यके [४१ अध्यायः ।
आमं विना यदा शूलो वाताद्भवति दारुणः ।
अनुवासने¹ ततस्तैलं दातव्यं पूर्व्वनोदितम् ॥ १२ ॥
दुर्गन्धं पिच्छिलं² भिन्नं पुरीषं श्लेष्मणावृतम् ।
आमं भवति वाहस्य पक्वञ्चैव विवर्जयेत् ॥ १३ ॥
आमं³ नैव प्रशंसन्ति वाजिशास्त्रविशारदाः ।
दौर्मनस्यारुचिम्लानिविट्प्रमूत्रग्रहकारकम् ॥ १४ ॥
दत्तानुवासने वाहे शुद्धकोष्ठे विचक्षणः ।
अपरेऽहनि भुञ्जीत प्रतिपानमिदं ततः ॥ १५ ॥
हरेणुकाञ्च कुष्ठञ्च भार्गीं दन्तीञ्च चित्रकम् ।
लवणं व्योषचूर्णञ्च सुरया पाययेद्भिषक् ॥ १६ ॥
घासार्थं दापयेच्चूर्णं पानं कोष्णं जलं तथा ।
एवं यदि सुखी न स्याद्वाहः कुक्षौ तदा भवेत् ॥ १७ ॥
१२ । पूर्व्वनोदितमित्यत्र पूर्व्वनोदिते इति पाठोयुक्तः
खकूलं प्रेक्षते वाजी उत्थानपतनैर्मुहुः ।
कुञ्चितेन च गात्रस्य शूलं स्पष्टं करोत्यलम् ॥ १८ ॥
श्यामजिह्वः समाध्मातो ध्यायेन्निश्चलवालधिः ।
रक्तमूचाततः शूली नच शक्यश्चिकित्सितुम् ॥ १६ ॥
इति श्रीमहासामन्तजयदत्तविरचितेऽश्वशास्त्रे शूल-
चिकित्सिते त्रिचत्वारिंशोऽध्यायः ।
अथ चतुश्चत्वारिंशोऽध्यायः ।
उदावर्त्तलक्षणचिकित्सितम् ।
पुरीषं वर्त्तितं यस्य कृच्छ्रं निर्याति वा पुनः ।
वेदनार्त्तस्य वाहस्य तस्योदावर्त्तमादिशेत् ॥ १ ॥
१८। खकूलमिति पाठो न सङ्गच्छते । खकूलस्थाने सङ्कुल
मित्येव पाठोऽनुमीयते ।
१६। श्यामजिह्वासमाध्मात इत्यत्र श्यामजिह्वः समाध्मात इति
पाठः साधुर्लक्ष्यते । समाध्मात उदराध्मानविशिष्ट इत्यर्थः ।
१। वर्त्तितं प्रवर्त्तितमपीत्यर्थः । पुरीषमित्यादिः श्लोकः ख-पुस्तके
नास्ति ।
34
२६६ अश्ववैद्यके [४५ अध्यायः।
आरग्वधकषायेण मूच्छितं¹ घृतयोजितम् ।
यावकं भोजने तस्मै स्नेहवस्तिञ्च दापयेत् ॥ २ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उदावर्त्त-
चिकित्सिते चतुश्चत्वारिंशोऽध्यायः ॥
अथ पञ्चचत्वारिंशोऽध्यायः ।
प्रस्कन्नरोगलक्षणचिकित्सितम् ।
गुरुर्यस्य भवेद्वक्षः स्तब्धगात्रपरिक्रमः ।
कुञ्जीभूतेन पृष्ठेन यो वाजी याति बद्धवत् ॥ १ ॥
प्रस्कन्नरोगसन्तप्तं² विद्याद्बुद्ध्या च तं भिषक् ।
चिकित्सां तस्य वक्ष्यामि भाषितां मुनिसत्तमैः ॥ २ ॥
आज्यं त्रिकुटकोपेतं पाययेत्तं विचक्षणः ।
ततः स्निग्धस्य कर्त्तव्यः शिरावेधो यथोदितः ॥ ३ ॥
१ । यावकं कुलत्थं घृतभर्जितं दापयेदित्यर्थः । गुरुर्यस्येति यः
पाठः पुस्तकद्वयेऽपि दृश्यते स न साधुः । गुरु यस्येत्येव साधुः पाठो
वक्षसः क्लीवत्वात् ।
३ । घृतस्य प्रस्थः । त्रिकटुकस्य च पादोनं पलम् ।
१ । मूच्छितां घृतयोजिताम् । याविकां । खः ।
२ । प्रस्कन्दरोगसन्तप्तं । खः ।
४५ अध्यायः। ] प्रस्कन्नरोगविवरणम्। २६७
श्रौरसीं पादिकीं तस्य तलजां कूर्च्चजामपि ।
पूर्व्वकाये शिराशस्त्रे भेषजं तद्विचक्षणः ॥ ४ ॥
श्रौपाण्डीं पश्चिमे काये स्थौरिकीं कूर्च्चजां तथा ।
विध्यात् शिराशस्त्रमुखे देयं कर्द्दमलेपनम् ॥ ५ ॥
विद्धं न चारयेदाहमेकरात्रं विचक्षणः ।
वक्ष्यमाणं ततः पानमपरेऽह्नि प्रदापयेत् ॥ ६ ॥
त्रिफलाक्काथसंयुक्तस्तथा क्षौद्रसमन्वितः ।
गुग्गुलुः प्रतिपानाय देयः प्रस्कन्ननाशनः ॥ ७ ॥
ग्रासार्थे दापयेद्दूर्व्वाः पाने चैव मधूदकम् ।
अथवा पिप्पलीतोयं प्रशस्तं तस्य वाजिनः ॥ ८ ॥
पञ्चमूलकषायस्तु तिलतैलेन योजितः ।
४-५। शिरावेधः कुत्र कर्त्तव्य इत्याह । पूर्व्वकाये श्रौरस्यादि-
कूर्च्चजान्ताः शिरा विध्येत् । शिराशस्त्रे तच्छिराक्षतमुख इत्यर्थः।
कर्द्दमलेपनं देयम् । तथा पश्चिमे काये श्रौपाण्ड्यादिकूर्च्चजान्ताः
शिरा विध्येत् तथा शिराक्षतमुखे कर्द्दमलेपनं देयमित्यर्थः । तत
इत्यादि एकरात्रं विचक्षण इत्यन्तः पाठो ग-पुस्तके नास्ति ।
७। अत्र त्रिफलापलसिद्धः कषायप्रस्थः। मधुनः पलं गुग्गुलोश्च
पलं ग्राह्यम् ।
८। समधुपलं वारिणः पलषष्टिकं देयम् ।
२६८ अश्ववैद्यके [४६ अध्यायः।
हेमन्ते क्षारसंयुक्तो देयः प्रस्कन्नपीडिते ॥ ९ ॥
यदि सिद्धिर्भवेन्नैव भेषजानामुपक्रमैः ।
ततो वह्निः प्रदातव्यो वाह्वोर्वक्षसि कूर्चके ॥ १० ॥
दग्धाग्नेर्गुग्गुलुः शस्तो वाहस्य त्रिफलायुतः ।
भ्रामणञ्चैव वाहानां प्रस्कन्नव्याधिशान्तये ॥ ११ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे प्रस्कन्न-
चिकित्सिते पञ्चचत्वारिंशोऽध्यायः ।
───
अथ षट्चत्वारिंशोऽध्यायः ।
───
कृमिकोष्ठनिदानचिकित्सितम् ।
कृशस्य यस्य वाहस्य जन्तुभिः परिवेष्टितम् ।
पुरीषं जायते भिन्नं तं विन्द्यात् कृमिकोष्ठकम् ॥ १ ॥
श्लेष्मकोष्ठी समुद्दिष्टो मन्दाहारस्तुरङ्गमः ।
दुर्ब्बलो भिन्नरोमा च गुरुगात्रस्तथैव च ॥ २ ॥
पुरीषं श्लेष्मणा मिश्रं पिच्छिलं तस्य सर्व्वदा ।
निद्रा च जायतेऽत्यर्थं तन्द्रा चैव समन्विता ॥ ३ ॥
────────────────────────────
९ । तिलतैलस्य कुडवः । क्षारस्य पादोनं पलं देयम् ।
तृतीय भाग: अश्व-शल्य क्रिया, व्रण-शोधन एवं शस्त्र-कर्म
तुल्यांशं कषायं कारयेद्बुधः ॥ ६ ॥ कम्पिल्लकस्य कल्केन कषायेणामुनैव४ तु । विडङ्गचूर्णसंयुक्तं सिद्धं सर्पिः प्रदापयेत् ॥ ७ ॥ घृतं विडङ्गसंयुक्तं सिद्धसर्पिः प्रदापयेत् । दन्तीकषायकल्केन साधितञ्च प्रदापयेत् ॥ ८ ॥ घृतं विडङ्गसंयुक्तं दृष्टकर्म्मा विचक्षणः । द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् ॥ ९ ॥`
--- (separator)
६ । विडङ्गादिघृतमाह विडङ्गमित्यादि । पाक्यो यवक्षारः ।
कम्पिल्लकं (कमलागुँड़ि) ।
८ । श्लोकोऽयं ग-पुस्तके नास्ति ।
--- (separator)
१ । षष्टिकान्नतिलं । गः ।
२ । व्यक्रमः । खः ।
`३ । श्यामा द्रवन्ती
२७० अश्ववैद्यके [४६ अध्यायः।
पटोलं निम्बपत्रञ्च वचां चिचकमेव च।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १० ॥
एतत्पानं¹ प्रदातव्यं सुरया कृमिनाशनम् ।
चूर्णपानप्रयोगोऽयं² श्लेष्मकोष्ठे प्रशस्यते ॥ ११ ॥
मन्दाग्निदीपनेऽत्यन्तं शालिहोत्रेण कीर्त्तितः ॥ १२ ॥
श्लेष्मकोष्ठनिदानचिकित्सिते ।
श्लेष्मकोष्ठौ समुद्दिष्टो मन्दाहारस्तुरङ्गमः ।
कृमिकोष्ठोदितां कुर्य्यात् श्लेष्मकोष्ठेऽपि च क्रियाम् ॥१३॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कृमिकोष्ठ-
श्लेष्मकोष्ठचिकित्सिते षट्चत्वारिंशोऽध्यायः ।
११। “स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम्। पिण्डोऽयं
हन्ति मध्यस्थान् उदरस्थान् कृमिव्रणान्” इति नकुलः। परिभाषा
नियमेन घृतमिदं साधयित्वा पाययेत्।
१ । एष पाने प्रदातव्यः । खः।
२ । प्रयोगश्च । गः।
४७ अध्यायः।] मूत्रग्रहविवरणम्। २७१
अथ सप्तचत्वारिंशोऽध्यायः।
वातादिमूत्रग्रहलक्षणानि।
स्तोकं स्तोकं सफेनञ्च रुच्छ्रान्मूत्रं करोति यः।
तस्य वातसमुत्थन्तु विद्यान्मूत्रग्रहं बुधः॥१॥
दाहोच्छ्वासयुतः पित्तान्मूत्ररोगः प्रजायते।
वाजिनः पीतमूत्रस्य मूत्ररोगः प्रजायते॥२॥
वाजिनः पीतमूत्रस्य अथवा रक्तमूत्रिणः।
कफजे मूत्ररोगे तु सान्द्रमूत्रं सपिच्छिलम्॥३॥
स्तोकं स्तोकञ्च कुरुते वेदनार्त्तस्तुरङ्गमः।
एकधा नोदयस्तेषां जायते सन्निपातजः॥४॥
अत्र साधारणीं कुर्य्यात् चिकित्सां वक्ष्यमाणिकीम्।
मेढ्राभ्यासे तथा वस्तिं घृतेनाभ्यज्य वातिके।
मर्द्दयेत्तदनुस्रोतो लघुहस्तैः शनैः शनैः॥५॥
पाषाणभेदकं शुण्ठी गोक्षूरं बृहतीद्वयम्।
१। दाहोच्छ्वासयुत इति दाहो ज्वाला उच्छ्वासः अन्तर्मुखनिः-
श्वासश्च तेन युतः।
४। तेषां वातादिमूत्रग्रहलक्षणानाम्। एकधा उदयो न
जायते अपितु अनेकधा विविधप्रकारमित्यर्थः। उदय आविर्भावः।
५। अनुस्रोतः स्रोतोऽनुलोमत इत्यर्थः।
६। पाषाणभेदः। (पातर कुचा)। वर्षाभूः (श्वेतपुनर्नवा)।
२७२ अश्ववैद्यके [४७ अध्यायः ।
एरण्डमूलं वर्षाभूरनन्ताच शतावरी ॥ ६ ॥
कषायं वारिणा कृत्वा यवानां तण्डुलैर्भिषक् ।
साधयित्वा ततो मण्डं पाययेदातमूचिणम् ॥ ७ ॥
एतेनैव कषायेण मिश्रितं वा सुखावहम् ।
भवेद्ग्रासञ्च पानं वा वातिके मधुमूर्च्छितम् ॥ ८ ॥
पित्तमूत्रग्रहचिकित्सा ।
एर्वारुकस्य१ बीजानि चपुषस्यतु२ पित्तजे ।
पिष्ट्वा शर्करया सार्द्धं दद्यात्तण्डुलवारिणा ॥ ९ ॥
शृतं कशेरुशालूकै३स्तथा शृङ्गाटकेन च ।
पाने शस्तं स्मृतं क्षीरं शर्करेक्षुरसान्वितम् ॥ १० ॥
नलकाशेक्षुदर्भाणां क्वाथं पाने प्रदापयेत् ।
पित्तमूत्रग्रहे वैद्यः क्षीरवस्तिञ्च बुद्धिमान् ॥ ११ ॥
एषां समभागं पलं जलाढ़के पक्त्वा पादशिष्टः क्वाथो ग्राह्यः । तेन
क्वाथेन मण्डो देयः ।
९ । एर्वारुकस्य कर्कटीविशेषस्य । चपुषस्य शषा दूति प्रसि-
द्धस्य । तण्डुलवारि प्रस्थमितं ।
१० । कशेरुः (केशुर) ।
११ । नलादीनां पलं । जलाढ़के पादशिष्टं देयम् । क्षीरवस्तौ
दुग्धस्याढ़कः ग्राह्यः ।
१ । कर्कटीकस्य । गः ।
२ । त्रिपुसी चापि । गः ।
३ । कशेरुकैश्च । गः ।
४७ अध्यायः।] मूत्त्रग्रहविवरणम्। २७३
चिके धाराजलं देयं कर्द्दमालेपनं तथा ।
शीतं स्थानं हितं प्रोक्तं प्रवातं व्यजनानिलम् १ ॥ १२ ॥
श्लेष्ममूत्रग्रहचिकित्सा ।
श्वदंष्ट्रां शृङ्गवेरञ्च पूतिकं २ पिप्पलीं तथा ।
श्लेष्मजे मूत्ररोगे तु लाजमण्डेन दापयेत् ॥ १३ ॥
कौलत्थं पाययेद् यूषं तिक्तमुद्गैश्च भोजनम् ।
तैलाभ्यङ्गो भवेदस्तौ माषस्वेदः कफात्मके ॥ १४ ॥
श्वदंष्ट्रा शृङ्गवेरञ्च पूतीकं पिप्पली तथा ।
पित्तमूत्रग्रहप्रोक्तां क्रियां सर्व्वां प्रयोजयेत् ॥ १५ ॥
वस्तौ प्रक्षालिते वैद्यस्तुरङ्गानां विचक्षणः ।
हितं वलितवस्तिभ्यो २ लाक्षापचाङ्गचूर्णकम् ॥ १६ ३ ॥
मधुना सह संयुक्तं पाने गोपयसा युतम् ।
मूत्रेण सह यस्य स्याद्वेदनार्तस्य वाजिनः ॥ १७ ॥
१२ । चिके पृष्ठवंशाधोभागे ।
१३ । श्वदंष्ट्रा गोक्षुरं । शृङ्गवेरं शुंठी । पूतिकं पूतिकरञ्जं ।
१६ । वलितवस्तिभ्यः सम्पादितवस्तिकर्म्मभ्य इत्यर्थः । पचाङ्गं
(वकम्काष्ठ) । रक्तचन्दनं वा ।
१ । प्रवातव्यजनानिलैः । खः ।
२ । पूतिकां । गः ।
३ । हितं प्रक्षाल्यते वैद्यः । गः ।
35
२७४ अश्ववैद्यके [४० अध्यायः ।
शर्कराणां प्रपातस्तु स ज्ञेया मूत्रशर्करी ।
कुष्ठशिग्रुविडङ्गानि हिङ्गुतुम्बुरुकं तथा ॥ १८ ॥
सैन्धवञ्चाश्मभेदञ्च कल्कं कृत्वा विचक्षणः ।
तत्कल्कं यवभक्तञ्च सुरया सह मर्द्दयेत् ॥ १६ ॥
मूत्रशर्करिणे दद्याद् भोजने सततं बुधः ।
रजनीक्षारवद्द्भस्म गालयित्वा पलाशजम् ॥ २० ।
गृहीत्वा तज्जलं प्राज्ञः पुनः कृत्वा पयःस्रुतम्१ ।
ब्रह्म्यपामार्गसूक्ष्मैलाकुलत्थाष्टकवर्गकैः ॥ २१ ॥
सुपिष्टं तेन तोयेन पानं शर्करिणो२ हितम् ॥
शुक्लं मेहति यो वाजी शुक्रमेहीति तं विदुः ॥ २२ ॥
१८। तुम्बुरुः (धने) ।
१६। सुराप्रस्थेन सैन्धवादीनां पलम् ।
२०-२१। रजनी हरिद्रा लाक्षा वा । तस्याः क्षारं पलाशजं
क्षारञ्च समभागं वारिणा गोलयित्वा दोलायन्त्रेण परिस्राव्य तेन
तोयेन ब्रह्म्यादिकल्कं संमिश्य पाययेत् । “जीवकर्षभकौ मेदे
काकोल्यावृद्धिवृद्धिकौ । अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” ।
इति ॥
१ । पटस्रुतं । गः ।
२ । पानं शर्कराणां । गः ।
? Wait! Look at अin line 8: Is thatअ? Yes. Look at the next character: It has a loop at the top left, goes down, then a loop at bottom left: Wait! That's द्य? क्ष? ह्र? ह्नि? Wait, look at ह्र? What about ब्र? Look at ब्रह्मorव्रण: Line 8: व्रणसंयुताम्->व्रisवwith a diagonal slash. Line 10:व्रणिनो->ब्रorव्र? In line 10, it's व्रणिनो(writtenब्रणिनेorव्रणिने?). In line 10 it says स्वेदस्तु व्रणिनो हितः(orब्रणिने हितः). It has a dot in ब? No, बwith a slash inside. Now look at line 8: Could it beअ च्छ्रो? Wait, look at क्षोinअक्षो... Look at:अ क्षो त्रा मि कां` - why would Jayadatta write this?
Wait, what does Kustha do to a horse?
"त्वचं कुष्ठम
२७६ अश्ववैद्यके [४८ अध्यायः ।
कृत्वा कषायं मतिमान् कुष्ठरोगेषु दापयेत् ।
पानाय मधुना सार्द्धं सिद्धं भोजनमुत्तमम् ॥ ६ ॥
लोहितं चन्दनं दूर्वामुशीरं कटुरोहिणीम् ।
पिष्ट्वा निम्बपटोलञ्च व्रणे कुष्ठे प्रलेपयेत्¹ ॥ ७ ॥
अर्काश्वमारयोः पत्रं सर्षपं पिप्पलीं वचाम् ।
मरिचं शृङ्गवेरञ्च दन्तीमूलं सचित्रकम् ॥ ८ ॥
गवां मूत्रेण संपिष्य लवणैः सह योजयेत् ।
संलिप्य तेन कुष्ठानि व्रणहीनानि मर्दयेत् ॥ ९ ॥
व्रणेषु चैव सर्व्वेषु तैलं सर्षपजं हितम् ।
कल्केनानेन संयुक्तमभ्यङ्गे मर्दने सदा ॥ १० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कुष्ठ-
चिकित्सितेऽष्टचत्वारिंशोऽध्यायः ।
५-७ । पाटलेत्यादिलोहितान्तः पाठो ग-पुस्तके नास्ति ।
१० । कल्केनानेनेति उपयुक्तेन अर्कादिकल्केनेत्यर्थः ।
१ । प्रयोजयेत् । गः ।
[ २७७ ]
अथैकोनपञ्चाशत्तमोऽध्यायः ।
वातादिशोथलक्षणचिकित्साः ।
शोथे चिकित्सां वक्ष्यामि वातपित्तकफान्विते ।
सन्निपातसमुत्थेच रूपं पञ्चैव कीर्त्तितम्¹ ॥ १ ॥
वेदनास्थौल्यसंयुक्तं मृदुस्पर्शञ्च शीतलम् ।
शोथं वातात्मकं विद्याद्वाजिदेहसमुद्भवम् ॥ २ ॥
रक्तपित्तेन शोथः स्यात् कृष्णपाकेन संयुतः ।
वेदनोष्मसमायुक्तो नात्यन्तोच्छूनकस्तथा ॥ ३ ॥
कठिनत्वमहत्वाभ्यां युक्तं रुग्दाहवर्जितम् ।
श्लेष्मशोथं विजानीयाद्द्द्वन्द्रजं पित्तलक्षणम्² ॥ ४ ॥
सर्व्वलिङ्गं विदुर्वैद्याः सन्निपातसमुद्भवम् ।
द्विचिह्नं द्वन्द्वजं प्राहुर्मुनयः शास्त्रकोविदाः ॥ ५ ॥
शोथानां मारुतादीनां सर्व्वदोषापकर्षणम् ।
एकतश्च क्रियाः सर्व्वा रक्तमोक्षणमेकतः ॥ ६ ॥
अनुलेपसहस्राणि अनुलेपशतानि च ।
रक्तविन्दुविमोक्षस्य कलां नार्हन्ति षोडशीम् ॥ ७ ॥
१ । चैव यथाक्रमम् । खः।
२ । रक्तोद्भवो रक्तपित्तेन शोथः स्यात् पाकसंयुतः । गः।
२७८ अश्ववैद्यके [४६ अध्यायः ।
प्रच्छन्नेन जलौकाभिः शिरावेधेन वा भिषक् ।
सर्वेषामेव शोथानां रक्तमारुष्य बुद्धिमान् ॥ ८ ॥
पूर्व्वशास्त्रसमुद्दिष्टं ततः कुर्य्यात् क्रियामिमाम् ।
भेषजैः सघृतैः सम्यक् शोथरोगोपशान्तये ॥ ९ ॥
शोथे वातसमुद्भूते तैलाभ्यङ्गः प्रशस्यते ।
स्वेदो गोमयपिण्डेन पुटैश्चैरण्डपचकैः ॥ १० ॥
पिप्पलीशुण्ठिवर्षाभूदेवदार्वर्कशिग्रुभिः ।
तुरङ्गाणां स्मृतो लेपः शोथे वातसमुद्भवे ॥ ११ ॥
गोधावतीमहाकाली¹वरुणालम्बूषोद्भवैः ॥
मूलैर्गोमूत्रसंपिष्टैः प्रलेपस्तस्य शस्यते ॥ १२ ॥
पञ्चमूलकषायस्तु तिलतैलेन योजितः ।
प्रातः पाने प्रयोक्तव्यो भोजने च रसौदनः ॥ १३ ॥
८ । प्रच्छन्नेन परिच्छन्नेन ।
१० । शोथादीति श्लोकद्वयं ख-पुस्तके नास्ति ।
१२ । गोधावती (गोयालिया लता) । महाकाली लताविशेषः ।
माकाल् इति प्रसिद्धा । महाजालीति पाठोऽप्यस्ति । महाजाली
पीतघोषा । अलम्बुषा लज्जालुका लता ।
१ । महाकल । खः ।
४६ अध्यायः।] शोथविवरणम्। २७६
पित्तशोथचिकित्सा।
मञ्जिष्ठाधातकीलोध्रसारिवानन्तपद्मकैः ।
प्रलेपाः पित्तशोथेषु क्षीरवस्तिश्च कीर्त्तितः ॥ १४ ॥
कुशकाशनलेक्षूणां मूलक्वाथः सशर्करः ।
शस्तः पाने प्रभाते तु मधुमाचासमन्वितः ॥ १५ ॥
पञ्चतिक्तकसंसिद्धैर्गव्यसर्पिःसमन्वितै ।
भोजनं विहितं मुद्गैः शालिभिर्वा¹ पयोऽन्वितैः ॥ १६ ॥
श्लेष्मशोथचिकित्सा।
रूक्षः स्वेदः प्रदातव्यः इष्टकासिकतापुटैः ।
श्लेष्मशोथे प्रलेपश्च² कर्त्तव्यो यस्तु वातजे ॥ १७ ॥
वचाव्योषविडङ्गैलाकुष्ठजीरकसैन्धवैः ।
गोमूत्रपिष्टैः सुरया³ प्रतिपानञ्च कीर्त्तितम् ॥ १८ ॥
शुण्ठीमरिचसंयुक्ताः पिप्पलीक्षौद्रमिश्रिताः⁴ ।
१७। इष्टकासिकतापुटैः खर्परवालुकापुटैः । वातजोक्तलेपश्च
अत्र प्रयोज्य इत्यर्थः ।
१८। वचादीनां पलं गोमूत्रपिष्टं सुराप्रस्थेन देयम् ।
१। शालिव्रीहिसमन्वितैः। ग०।
२। श्लेष्मशोथप्रलेपः। ग०।
३। सुधिया। ग०।
४। योजिताः। ख०।
२८० अश्ववैद्यके [४६ अध्यायः ।
सुखिन्ना भोजने शस्ताः कुलत्थास्तैल योजिताः¹ ॥ १९॥
क्रिया साधारणी कार्य्या सन्निपातसमुद्भवे ।
दण्डजा द्विविधाः प्रोक्ताः शालिहोत्रादिभिः पुरा ॥ २० ॥
रक्तजे पित्तजोद्दिष्टा चिकित्सा परिकीर्त्तिता ।
अभिघातोद्भवे शोथे हितं यत्तद्विवक्ष्यते² ॥ २१ ॥
पञ्चवल्कलकल्केन सघृतेन मुहुर्मुहुः ।
औदुम्बरेण वा विद्वांस्तद्विलेपं प्रदापयेत् ॥ २२ ॥
पूर्व्वोद्दिष्टेन विधिना मोक्षयेत्तस्य शोणितम् ।
एवमागन्तुना वाहः शोथेनाशु प्रमुच्यते ॥ २३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शोथचि-
कित्सिते एकोनपञ्चाशत्तमोऽध्यायः ॥
───────────────────
१९ । सुखिन्ना अग्नौ वारिणा सिद्धा इत्यर्थः ।
२०-२१ । क्रियादिशोकद्वयं ग-पुस्तके नास्ति ।
───────────────────
१ । तैलमिश्रिताः । खः ।
२ । उद्भिदं तच्च कथ्यते । ग० ।
[ २८ ]
अथ पञ्चाशत्तमोऽध्यायः ।
────────
मुष्करोगे
वाताण्डलक्षचिकित्सितम् ।
प्रकोपान् मारुतादीनां कारणैः पूर्व्वचोदितैः ।
अण्डस्कन्द¹ स्तुरङ्गाणां जायते बहुसंज्ञकः ॥ १ ॥
तस्य रूपं चिकित्साञ्च भेदञ्चैव समासतः ।
प्रवक्ष्यामि यथायोगं वाजिनां हितकाम्यया ॥ २ ॥
वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संयुतः¹।
तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥ ३ ॥
यदण्डं कम्प्यतेऽश्वस्य तेन पादेन³ खंजति ।
स्तब्धपृष्ठस्य⁴ तस्याशु वेदना मुष्कयोर्भवेत् ॥ ४ ॥
────────────────────────
१ । सम्प्रति त्रिविधाण्डस्कन्दरोगस्य निदानचिकित्सिते विवक्षु-
राह प्रकोपादिति । पूर्व्वचोदितैः वातादिप्रकोपकथनाध्याये कथितैः
कारणैरित्यर्थः । मारुतादीनां वातपित्तकफानामित्यर्थः । प्रकोपः
अण्डेषु स्कन्दइव अण्डस्कन्दो जायते । बहुसंज्ञक इति वातपित्तक-
फात्मकः ।
२ । यथायोगमिति योगमनतिक्रम्य यस्मिन्नधिकारे यो योगः
तदनुसारेणेत्यर्थः ।
────────────────────────
१ । व्यण्डसूनं । गः । ३ । तेन गात्रेण । गः ।
२ । पोषितः । गः । ४ । यस्य च पृष्ठवाहस्य । गः ।
36