सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

७५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अथ कथं चतुर्गुणम् ? इत्याह—
दौःशील्यतद्धेत्वहतं तद्विपक्षसमाश्रितम्¹।
दौःशील्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन। हेतुनाप्यनुपहतं
भवति। लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति। स्मृत्युप-
स्थानसन्निहितत्वात् समाश्रितं च भवति। नोपपत्तिविशेषाश्रितम्; निर्वाण-
परिणामित्वात्।
पञ्चभिः कारणैः इत्यपरे। १. मौलैः कर्मपथैर्विशुद्धं भवति, २.
सामन्तकैर्विशुद्धम्, ३. वितर्कैरनुपहतम्, ४. स्मृत्यानुपरिगृहीतम्, ५. निर्वाण-
परिणामितं चेति।
चतुर्विधं शीलमित्यपरे। १. भयशीलम्—यदाजीविकाश्लोकदण्डदुर्गति-
भयात् पाल्यते। २. आशास्तिशीलम्—यद्भवभोगसत्कारतृष्णाकृतम्। ३.
बोध्यङ्गानुलोमं शीलम्—यन्मोक्षार्थं सम्यग्दृष्टिकानाम्। ४. परिशुद्धं शीलम्—
अनास्रवशीलम्; निर्मलत्वादिति॥
गतं शीलम्॥
समाहितं तु कुशलं भावना,
“विशुद्धं तु चतुर्गुणम्” इति। चत्वारो गुणा अस्येति चतुर्गुणम् ॥ १२२ ॥
दौःशील्येन यथोक्तेनेति। “दौःशील्यमशुभं रूपम्” इत्यनेन। लोभादिभि-
रिति। न तैर्दौःशील्यहेतुभिः समुदाचरद्भिरुपहतं भवति। दौःशील्यविपक्षाश्रित-
मित्यर्थः।
मौलैः कर्मपथैर्विशुद्धमिति। प्राणातिपातादिभिर्मौलेरखण्डितमित्यर्थः।
सामन्तकैर्विशुद्धमिति। प्राणातिपादिप्रयोगैरदूषितमित्यर्थः। वितर्कैरिति।
कामवितर्कादिभिः। स्मृत्यानुपरिगृहीतमिति। कायादिस्मृत्युपस्थानेर्दृढीकतम्।
शीलस्मृत्या वानुपरिगृहीतम्।
आशास्तिशीलमिति। आशास्तिः=प्रार्थना। यद्भवभोगसत्कारतृष्णाकृतमिति।
भवे भोगे च सत्कारे च या तृष्णा, तया यत् समात्तमित्यर्थः। सम्यग्दृष्टि-
कानामिति। बुद्धशासनप्रतिपन्नानाम्। अन्यतीर्थिकानां हि न बोध्यङ्गानुकूलम्;
असद्दृष्टित्वात्।
“समाहितं तु कुशलम्” इति। समाहित-ग्रहणमसमाहितनिवृत्त्यर्थम्।
१. ॰क्षमाश्रितम्—का०।

निर्देशः ] चतुर्थं कोशस्थानम् ७५१
किमिदं समाहितं नाम ? समाधिस्वभावं सहभू यत् । किमर्थमेतत्
भावनेत्युच्यते ?
चित्तवासनात् ॥ १२३ ॥
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति; गुणैस्तन्मयीकरणात् सन्ततेः ।
पुष्पैस्तिलवासनावत् । दानं तावन्महाभोगतायैः संवर्तत इत्युक्तम् ॥ .१२३ ॥
अथ शीलं भावना च ?
स्वर्गाय शीलं प्राधान्याद् विसंयोगाय भावना ।
दानमपि स्वर्गाय शीलं प्राधान्यात् । शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।
सूत्र उक्तम्—"चत्वारः पुद्गला ब्राह्मं पुण्यं प्रसवन्ति" ( )
कुशल-ग्रहणं समाहितास्वादनासम्प्रयुक्तक्लिष्टध्याननिवृत्त्यर्थम् । तत् समाहितं
कुशलसदृशमुत्पद्यते ।
समाधिस्वभाव-सहभू यदि ति । समाधिस्वभावं तेन च सह भवति यदित्यर्थः ।
तद्धि समाहितमिति विस्तरः । तत् समाहितं कुशलमत्यर्थं चित्तं संवासयति ।
भावयति । असमाहितमपि वासयति । न त्वेवमत्यर्थमिति दर्शयति । कथम् ?
इत्याह—गुणैस्तन्मयीकरणात् सन्ततेः । यस्मात् समाधिगुणैस्तन्मयीक्रियते
चित्तसन्ततिः । अत्र दृष्टान्तमाह—पुष्पैस्तिलवासनावदिति । यथा पुष्पैस्तिला
भाव्यन्ते पुष्पगन्धमयीकरणात्, तद्वत् । तदिदमुक्तं भवति—भावना=वासना,
तत्स्वभावं पुण्यं भावनामियमिति ॥ १२३ ॥
अथ शीलं भावना च । 'कस्मै संवर्तते' इति वाक्यशेषतोऽर्थं पृच्छति ।
स्वर्गाय शीलं प्राधान्यादिति । शीलं प्राधान्येन स्वर्गाय भवति । अन्यत्तु न प्राधा-
न्येन स्वर्गाय भवति । किमन्यत् ? दानम् । दानमपि हि स्वर्गाय सम्भवति ।
शीलमपि विसंयोगाय सम्भवति; शमथविपश्यनयोः शीलप्रतिष्ठानत्वात् ।
भावना प्राधान्येन विसंयोगाय । साक्षाद् विसंयोगप्रापकत्वात्, प्रहाणमार्ग-
संगृहीतत्वाद् वा ।
पुण्यक्रियावस्तुप्रसङ्गेनेदमुपन्यस्यते—
सूत्र उक्तम्—चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवन्ति । अप्रतिष्ठिते पृथिवी-
प्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति—अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं
प्रसवति । चातुर्दिशे भिक्षुसंघे आरामं निर्यातयति, तत्रैव चारामे विहारं
प्रतिष्ठापयति—अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति । भिन्नं तथागत-

७५२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
इति। कतमत् तद् ब्राह्मपुण्यम् ? यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्त-
मिति वैभाषिकाः।
पूर्वाचार्यास्तु व्याचक्षते—
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ १२४ ॥
यावता पुण्येन कल्पं स्वर्गेषु मोदते, इदं ब्राह्मं पुण्यम्; ब्रह्मपुरोहितानां
कल्पायुक्तत्वात्। निकायान्तरे गाथां पठन्ति—
“ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदते” ( ) इति ॥१२४॥
आमिषदानमुक्तम् ॥
धर्मदानं वक्तव्यम्। तदिदमुच्यते—
धर्मदानं यथाभूतं सूत्राद्यक्लिष्टदेशना।
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम्। अतो महतीं त आत्मनः
थावकसंघं प्रतिसन्दधाति—अयं तृतीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति। मैत्रीसह-
गतेन चित्तेनावैरेणासपतेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभाविते-
नैकां दिशमधिमुच्य स्फुरित्वोपसम्पद्य विहरति, तथा द्वितीयाम्, तथा
तृतीयाम्, तथा चतुर्थीम्, इत्यूर्ध्वमधस्तिर्यक् सर्वतः सर्वमिमं लोकं स्फुरि-
त्वोपसम्पद्य विहरति—अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवति” ( )
इति। यल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति। यदुक्तम्—सन्निकृष्टं
बोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येवमादि;
इदं ब्राह्मं पुण्यमिति। ब्रह्मणामिदं ब्राह्मम्। ब्रह्मपुरोहिताश्चात्र ब्रह्मशब्दे-
नोच्यन्ते। कस्मात् ? ब्रह्मपुरोहितानां कल्पायुक्तत्वात्। ब्रह्मपुरोहितानां हि
कल्पमायुरुक्तम्। अनेन च कर्मणा कल्पं स्वर्गेषु मोदते। ब्राह्मं पुण्यं प्रसवति कल्पं
स्वर्गेषु मोदत इति निकायान्तरपाठवचनात्। तत्साधर्म्यादेतद् ब्राह्मं पुण्य-
मुच्यते। ननु च कामधातौ नास्ति कुशलस्य कर्मणः कल्पं विपाक इति ?
सत्यमेकस्य नास्ति; एकाविष्ठानास्तु बह्वघश्चातना भवन्ति। यासां क्रमेण
कल्पप्रमाणं स्वागिकं फलमभिनिर्वर्तते; च्युतस्य पुनस्तत्रैव जन्मसन्धानात्।
बृहद् पुण्यं ब्राह्ममित्यपरे ॥ १२४ ॥
सूत्रादीनामिति। आदिशब्देन द्वादशानामङ्गानां ग्रहणम्। सूत्र-गेय-
व्याकरण-गाथा-उदान-निदानावदान-इतिवृत्तक-जातक-वैपुल्याद्भुतधर्मोपदेशा

[निर्देशः ] | चतुर्थं कोशस्थानम् | ७५३

पुण्यज्यानिं कुर्वन्ति, ये विपरीतधर्मं देशयन्ति । क्लिष्टचित्ता वा लाभसत्कारयशांसि
वाञ्छन्तः ।
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलम् ॥
पुनः—
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ १२५ ॥
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयम्, यस्मिन्नुत्पन्ने नियतं परिनिर्वाण-
धर्मा भवति । यस्य संसारादीनवन्नैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रु-
पातौ भवतः, तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयम् । प्रावृषीवाङ्कुरप्ररोहात्
खलेविलेषु बीजास्तित्वम् ।
निर्वेधभागीयमूष्मादि चतुर्विधं पश्चाद् व्याख्यास्यामः ॥ १२५ ॥
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति, क एषां स्वभावः ?
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ १२६ ॥
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् । त्रिधा कर्मेति कायवाङ्मनस्कर्म ।
तत्र-लिपिमुद्रे तावद् योगप्रवर्तितं कायकर्म ससमुत्थानम्¹ । गणना काव्यं च
इति द्वादशानामङ्गानाम् । अक्लिष्टदेशनेति । अक्लिष्टचित्तसमुत्थापितेत्यर्थः ।
पुण्यभागीयमिति । पुण्यस्य भागः प्राप्तिरिति पुण्यभागः । इष्टफलप्राप्ति-
रित्यर्थः । तस्मै हितं पुण्यभागीयम् । अतएवोक्तम्-यदिष्टविपाकमिति । तत्प्राप्त्य-
नुकूलमिति । अथवा त्रयो भागाः—पुण्यो भागः, अपुण्यो भागः, अनिञ्ज्यो
भागः; तस्मै हितं पुण्यभागीयम् । अथवा—पुण्यं भजत इति पुण्यभाक्,
पुण्यभागैव पुण्यभागीयम् । स्वार्थे क-प्रत्ययः । एवं मोक्षभागीयम् । अथ वा
संसारभागः, मोक्षभागश्चेति द्वौ भागौ । तत्र यन्मोक्षभागाय हितं तन्मोक्ष-
भागीयम् । मोक्षप्राप्तिर्वा मोक्षभागः, तस्मै हितम् तत्प्राप्त्यनुकूलमिति
मोक्षभागीयम् । तस्य लक्षणं पश्चाद् वक्ष्यते । एवं निर्वेधभागीयमपि योज्यम् ।
पश्चाद् व्याख्यास्याम इति । "तत ऊष्मगतोत्पत्तिः" ( अभि० को० ६.१७ )
इत्यत्र । कर्माधिकारेणैषां कर्मस्वभावानां लक्षणमुच्यते ॥ १२५ ॥
यदिदं लोक इत्यादि । ससमुत्थानमिति । सचित्तचैतसिककलापम् । येन
तत् कायकर्मोत्थाप्यते । तत् कायकर्मससमुत्थानं योगप्रवर्तितम् । लिपिर्मुद्रा
१. समुत्थापनम्—का० ।

७५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-

वाक्कर्म । इत्येतानि पञ्चस्कन्धस्वभावानि । संख्या मनस्कर्म, यन्मनसा
सङ्कलनं धर्माणां ॥ १२६ ॥
धर्माणांमिदानीं केचित् पर्याया उच्यन्ते—
सावद्या निवृता हीनाः क्लिष्टा धर्माः,
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।
शुभामलाः ।
प्रणीताः,
कुशलानास्रवाणां प्रणीता इति पर्यायः ।
हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति ।
संस्कृतशुभाः सेव्याः,


च । कारणे कार्योपचारात् । येन हि कायकर्मणा लिपिर्लिख्यते, मुद्रा वा
खन्यते, सा लिपिर्मुद्रा च शास्त्रेऽभिप्रेते; न यथा लोके ह्यक्षरचिह्नं पुस्तकादौ
लिपिरिष्यते । अक्षरानक्षरचिह्नं च मुद्रेति । गणना काव्यञ्च वाक्कर्म । योग-
प्रवर्तितं ससमुत्थानमिति वर्तते । पञ्चस्कन्धस्वभावानीति । लिपिमुद्रयोः काय-
कर्म रूपस्कन्धः । गणनाकाव्ययोर्वाक्कर्म रूपस्कन्धः । वेदनादयस्तृभयत्रापि-
समुत्थानभूताश्चत्वारः स्कन्धा इति । पञ्चस्कन्धस्वभावान्येतानि भवन्ति ।
यन्मनसा संकलनं धर्माणामिति । एकं द्वे त्रीणीत्येवमादि सा संख्या । यत्तु वाचा
न मनसा सा गणनेत्याभिधार्मिकाः । इयं च संख्या सपरिवारग्रहणाच्चतुःस्कन्ध-
स्वभावा ॥ १२६ ॥
लिप्यादिलक्षणनिर्देशानुषङ्गेण सावद्यादीनामपि धर्माणां लक्षणनिर्देशो-
पन्यासः । धर्मस्कन्धकविभाषायामेते पर्याया निर्दिष्टाः । तत्प्रत्यासन्नेयमिति ।
इमे पर्याया उपन्यस्यन्त इत्यपरः सम्बन्धः । सहावद्येन क्लेशलक्षणेन वर्तन्त
इति सावद्याः । क्लेशाच्छादितत्वान्निवृताः । क्लेशा अपि हि सम्प्रयोगिणा
क्लेशान्तरेण निवृताः । निष्कृष्टत्वादार्यैस्त्यक्तत्वाद् वा हीनाः । क्लिष्टास्तु क्लेश-
योगतोऽवगन्तव्याः ।
शुभामलाः । कुशलानास्रवाः । ते प्रणीताः । शुद्धिप्रकर्षगतत्वात् । हीन-
प्रणीतेभ्योऽन्ये मध्या इति सिद्धमिति । क्लिष्टा एव हीनाः । शुभामला एव च
प्रणीता इत्यवधारणादतोऽन्ये न हीनाः । न प्रणीता इति मध्याः सिद्धाः ।
संस्कृतशुभाः सेव्या इति । अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः ।

चतुर्थं कोशस्थानम्
कुशलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं
भवति ।
कस्मादसंस्कृतं न सेव्यम् ? अनभ्यसनीयत्वाद्, अफलत्वाच्च । फलार्थं हि
सेवा भवति ॥
सोत्तरा अन्ये सर्वधर्माः ।
मोक्षस्त्वनुत्तरः ॥ १२७ ॥
नहि निर्वाणाद् विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टम्; कुशल-
नित्यत्वात् ॥ १२७ ॥
अभिधर्मकोशभाष्ये कर्मनिर्देशो नाम
चतुर्थं कोशस्थानमिति ॥
पर्युपासितव्याः । सन्तानाध्यारोपणतः । शेषा असेवितव्या इति । के शेषाः ?
असंस्कृताश्च, ये च न कुशलाः । क्लिष्टा निवृताव्याकृता इत्यर्थः ।
अनभ्यसनीयत्वादिति । पौनःपुन्येन कर्तुमशक्यत्वादित्यर्थः । अनुत्पाद्यत्वा-
दित्यपरे । अफलत्वाच्चेति । संस्कृतस्य हि हेतुफले । नासंस्कृतस्य ते इति ।
सोत्तरा इति सातिशयाः । अकुशला निवृताव्याकृतानामनिष्टविपाकाभावात् ।
निवृताव्याकृता अनिवृताव्याकृतैः संस्कृताः सोत्तरा; तेषामक्लिष्टत्वात् । तेऽपि
कुशलसास्रवैः सोत्तराः; कुशलसास्रवाणामिष्टफलत्वात् । तेऽप्यनास्रवैः सोत्तराः;
निष्क्लेशत्वात् । अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तरा; असंस्कृतानां
नित्यत्वात् । संस्कृतावप्याकाशाप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ;
प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात् ।
मोक्षस्त्वनुत्तरः । न हि निर्वाणाद् विशिष्टतममस्ति । तथा ह्युक्तम्—“ये
केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस्तेषामग्र आख्यायते”
( ) इति । प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः ।
कुशलत्वाच्चासंस्कृताभ्यामाकाशाप्रतिसंख्यानिरोधाभ्यामुत्कृष्टतर इति ॥ १२७ ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायामभिधर्मकोशव्याख्यायां
चतुर्थकोशस्थानं समाप्तम् ॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥

अभिधर्मकोशम्
भाष्यस्फुटार्थसहितम्

The provided image is completely blank and contains no readable text or manuscript content to transcribe.

❀ ॐ नमो बुद्धाय ❀
पञ्चमं कोशस्थानम्
(अनुशयनिर्देशः)
“कर्मजं लोकवैचित्र्यम्” (अभि. ४.१) इत्युक्तम्। तानि¹ च² कर्माण्यनु-
शयवशादुपचयं गच्छन्ति, अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि
भवन्ति। अतो वेदितव्याः—
स्फुटार्थाव्याख्यायां
पञ्चमं कोशस्थानम्
'कर्मजं लोकवैचित्र्यम्' इत्युक्तमिति। चतुर्थस्यादावुक्तम्। अतोऽनेन
सम्बन्धेनानुशयोपन्यास इति सम्बन्धं दर्शयति। तानि च कर्माणि यथोक्त-
लक्षणप्रभेदानि अनुशयवशादुपचयं गच्छन्ति। विपाकनैयत्येनात्र उत्तिष्ठन्ते।
विपाकदानाय नियतीभवन्तीत्यर्थः। अन्तरेण चानुशयान् विनानुशयैर्भवस्य
जन्मनोऽभिनिर्वर्त्तने उत्पादने न समर्थानि भवन्ति कुशलान्यकुशलानि वा
कर्माणि। न ह्यर्हतः पौनर्भविकानि कर्माण्यनित्यानि न सन्ति, अनुशयाभावात्तु
पुनर्भवाभिनिर्वर्त्तने न समर्थानि भवन्ति। अत एवैषामनित्यत्वं सिद्धयति।
ह्यर्थे चायं चः पठितव्यः; यस्मादन्तरेणानुशयान् भवाभिनिर्वर्त्तने न
समर्थानि भवन्ति, तस्मादनुशयवशादुपचयं गच्छन्तीत्यभिप्रायः।
अपरे पुनरेतद् व्याख्याद्वयमेवं व्याचक्षते—तानि च कर्माण्यनुशयवशादु-
पचयं गच्छन्ति। यान्यकृतानि कर्माणि, तान्यनुशयवशात् पुनर्भवाभिनिर्वर्तने
उपचीयन्त इत्यर्थः। न ह्यर्हतां कर्माणि पुनर्भवाभिनिर्वर्तने उपचीयन्ते, अन्तरेण
चानुशयान् भवाभिनिर्वर्तने न समर्थानि भवन्तीति। यानि च कृतानि,
तान्यप्यन्तरेणानुशयान् भवाभिनिर्वर्तने न शक्तानि भवन्ति। न ह्यर्हतां पृथग्ज-
नावस्थायां कृतानि कुशलाकुशलानि पौनर्भविकान्यनित्यानि कर्माणि न सन्ति,
अनुशयावैकल्यात्तु तानि भवाभिनिर्वर्तने न समर्थानि—इत्येवं पृथगर्थाभिधानात्
समुच्चयेऽयं चकार इति !
१-१. तानि-का०

मूलं भवस्यानुशयाः,
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति—मूलं¹ दृढीकरोति, सन्ततिमव-
स्थापयति, क्षेत्रमापादयति, निःष्यन्दं निर्वर्तयति, कर्मभवमभिनिर्हरति, स्वसम्भारं
परिगृह्णाति, आलम्बने संमोहयति, विज्ञानस्रोतो नमयति, कुशलपक्षाद्व्युत्क्रामयति²,
बन्धनार्थं च स्फरति धात्वनतिक्रमणयोगेनेति³ ।
कति चेमेऽनुशयाः ? समासेन षट् ।
कतमे ?
मूलं भवस्यानुशया इति । पुनर्भवस्य कर्मभवस्य वा मूलम् अनुशया
इत्यभिप्रायः । मूलं दृढीकरोतीति । प्राप्तहिं मूलम् । तामनुच्छेदधार्थेन
दृढीकरोतीत्यर्थः । सन्ततिमवस्थापयतीति । परम्परया क्लेशप्रबन्धं स्थापय-
तीत्यर्थः । क्षेत्रमापादयतीति । आश्रयमात्मोत्पत्त्यनुकूलं करोतीत्यर्थः । निःष्यन्दं
निर्वर्तयतीति । स्वनिष्यन्दमुपक्लेशं जनयति । तद्यथा—राग आहीक्योद्धत्य-
मत्सरांन् जनयति, द्वेषः क्रोघेर्ष्या इत्यादि । कर्मभवमभिनिर्हरतीति । कर्म एव
भवः = कर्मभवः, तं पुनर्भवाभिनिर्वृत्तये जनयतीत्यर्थः । इदमस्य 'मूलं
भवस्यानुशयाः' इत्यर्थसन्दर्शनार्थम् । स्वसम्भारं परिगृह्णातीति । स्वसम्भारः =
क्लेशस्यायोनिशो मनस्कारः, तं परिगृह्णाति । तस्यानागतस्य हेतुभावेनावतिष्ठत
इत्यर्थः । आलम्बने संमोहयतीति । यथाभूतग्रहणात्, बुद्धद्युपघाताद् वा
संमोहयतीति । विज्ञानस्रोतो नमयतीति । विज्ञानसन्ततिमालम्बने पुनर्भवे
वा नमयति ।
यदि 'मूलं भवस्य' इति पुनर्भवग्रहणम्, इदमस्योदाहरणम् । कुशलपक्षाद्
व्युत्क्रामयतीति । कुशलपक्षात् परिहापयति । बन्धनार्थं च स्फरति ; बन्धनकार्ये
व्याप्नोति, तनोतीत्यर्थः । कथम् ? इत्याह—धात्वनतिक्रमणयोगेन । धात्वनति-
क्रमणप्रकारेणेत्यर्थः । तादिदमुक्तं भवति—यः क्लेशो यद्धातुक स तं धातुं
नातिक्रामयतीति ।
षोडशोत्यन्येः । एषु षट् प्रक्षिप्य । आश्रयदौष्ठुल्यं जनयति, अकर्मण्यता-
पादनात् । गुणान् द्वेष्टि, तद्विरोधित्वात् । अपवादानास्पदीकरोति, विद्वद्विगर्हित-
कायकर्मोत्थापनात् । सत्पथादुद्वर्तयति, विपरीतदैशिकसंसेवाभिमुखीकरणात् ।
विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात् । आधिपत्यफलेन
च लोकस्यानिष्टमुपसंहरति, तद्द्वेगेन बाह्यभावविकारापत्तेः ।
१. मूलं च-का० । २. व्युत्क्रामति-का० । ३. ०नतिक्रमयो०-का० ।

पञ्चमं कोशस्थानम् ७६१
षड्रागः प्रतिघस्तथा ।
मनोऽविद्या च दृष्टिश्च विचिकित्सा च,
तथाग्रहणं रागवशेनान्येषामप्यालम्वनानुशयितज्ञापनार्थम्¹ । एतच्च पश्चात्
प्रवेदयिष्यामः ।
ते पुनः ॥ १ ॥
षड्रागभेदा सप्तोक्ताः,
त एते षडनुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः—
कामरागानुशयः, प्रतिघानुशयः, भवरागानुशयः, मानानुशयः, दृष्ट्यनुशयः,
विचिकित्सानुशय इति ।
कथमिदं ज्ञातव्यम्--कामराग एवानुशयः कामरागानुशयः, अहोस्वित्
कामरागस्यानुशयः कामरागानुशयः ? किं चातः ? कामराग एवानुशयश्चेत्
सूत्रविरोधः--"इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।
उत्पन्नस्य कामरागपर्यवस्थानेस्योत्तरनिःसरणं² यथाभूतं प्रजानाति । तस्य
तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसुसमवहतं³ सानुशयं प्रहीयते" इति ।
रागवशेनान्येषामपीति । यत्र रागः तत्रालम्बनेऽन्ये प्रतिघादयोऽप्यनु-
शेरते । "प्रेमाद् द्वेषो जायते, मानादयोऽपि" ( ) इति सूत्रम् । अत
एव च रागानुशयनाभावाद् अनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति ।
एतच्च पश्चात् प्रवेदयिष्याम इति । "यद्धि वस्तु आत्मदृष्टितृष्णाभ्यां स्वीकृतम्,
तत्रान्येऽप्यनुशया अनुशयितुमुत्सहन्ते, आर्द्र इव पटे रजांसि संस्थातुम्"
( ) इत्येतत् ज्ञापयिष्यामः ॥ १ ॥
आहोस्वित् कामराग एवानुशय इति । वैभाषिकनयेन पर्यवस्थानमेवानुशयः ।
वात्सीपुत्रनयेन प्राप्तिरनुशयः । सौत्रान्तिकनयेन बीजम् । उत्तरनिःसरणमिति ।
पश्चान्निःसरणमित्यर्थः । स्थामशः सुसमवहतम् । बलशः सुष्ठु सम्यग्
अवहतमित्यर्थः । सानुशयं प्रहीयत इति । इदमत्रोदाहरणम् । इदमत्र
विरुद्धयते । सहयोगसमासे हि अन्यत्वं दृष्टम्, तद्यथा--सपुत्रो देवदत्त इति ।
१. ०षामलम्बना०-का० । २. ०स्योत्तरि-का० ।
३. ०वस्वसम०-का० ।

कामरागस्यानुशयश्चेद् विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः - "कामराग-
नुशयस्त्रिभिरिन्द्रियैः सम्प्रयुक्तः" इति ?
कामराग एवानुशय इति वैभाषिकाः । एवं यावद्विचिकित्सैवानुशय इति ।
ननु चोक्तम् — एवं सूत्रविरोध इति ? नास्ति विरोधः । सानुशय सानु-
बन्धमित्यर्थात्¹ । औपचारिको वा सूत्रेऽशयनुशब्दः प्राप्तौ । तद्यथा --
दुःखोऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः । तस्मात् सम्प्रयुक्ता
एवानुशयाः ।
कथमिदं गम्यते ? अनुशयानां
“चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्” ।
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते, उत्पन्नाच्च परि-
हीयते, तस्मान्न विप्रयुक्ताः । अथ विप्रयुक्तैरेवैवं स्यात्, कुशलं न कदा-
चिदप्युपलभ्येत², तेषां नित्यं सन्निहितत्वात् । उपलभ्यते च, अतः
“कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः³” ॥ ( ) इति ।
तथा च सति सूत्रविरोधः । अभिधर्मविरोध इति । कामरागानुशयस्त्रिभिरिन्द्रियैः
सम्प्रयुक्तः, कतमैस्त्रिभिः ? सुख-सौमनस्य उपेक्षेन्द्रियैः सम्प्रयुक्त इति ।
न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिरिन्द्रियैः सम्प्रयोगो युज्यत इति शास्त्र-
विरोधः ।
सानुशयं सानुबन्धमित्यर्थादिति । कामरागस्यानुबन्धोऽनुशयशब्देनोक्त
अनुबन्धः पुनः क्लेशान्तरोत्पादानुकूल्येनावस्थानम् । अनिवृर्त्तानुशयः
सानुशयं प्रहीयते, न पुनरनुवर्तते संक्लेश इत्यर्थः । औपचारिको वा सूत्रेऽनु-
शयशब्दः । उपचारे भव औपचारिकः । कुत्रौपचारिकः ? इत्याह — प्राप्तौ ।
मुख्यवृत्त्या पर्यवस्थानेऽनुशयशब्दो वर्तते, उपचारेण तु प्राप्तौ; तस्यानुशय-
हेतुभावात् । तद्यथा दुःखवेदनाहेतुत्वाद् अग्निर्दूःख इत्युच्यते, तद्वत् ।
लाक्षणिकस्त्वभिधर्मेऽनुशयशब्दः । लक्षणे भवः, लक्षणेन वा दीप्यंत
लाक्षणिक इत्याह — क्लेश एवेति । आलम्बनसम्प्रयोगात्त्वनुशेरत इत्यनुशया
इति । तस्मात् सम्प्रयुक्ता एवानुशयाः । अत्र चार्थे श्लोकमुदाहरन्ति —
चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात् ।
कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः ॥ इति ॥
१. ०मित्यर्थः-का० । २. कदाचिदुपल०-का० ।
३. अथ इहा०-का० ।

तदिदमज्ञापकम् ; यस्माद्यो हि¹ विप्रयुक्तमनुशयमिच्छति स एतत् सर्वमनु-
शयकृतं नेच्छति, क्लेशकृतमेवेच्छति। एवं तु साधु यथा सौत्रान्तिकानाम्।
कथं च सौत्रान्तिकानाम् ? कामरागस्यानुशयः कामरागानुशय इति। न
चानुशयः सम्प्रयुक्तो न विप्रयुक्तः, तस्याद्रव्यान्तरत्वात् । प्रसुप्तो हि क्लेशोऽनु-
शय उच्यते, प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असम्मुखीभूतस्य
बीजभावानुबन्धः । कः प्रबोधः ? सम्मुखीभावः ।
कोऽयं बीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।
चित्तक्लेशकरत्वादिति । अस्य विवरणम्—यस्मादनुशयैः क्लिष्टं चित्तं भवति,
न विप्रयुक्तैः क्लिष्टं चित्तं भवति । आवरकत्वादिति । अस्य पदस्य विवरणम्—
अपूर्वं कुशलं नोत्पद्यत इति । सानुशये चित्ते कुशलमपूर्वं नोत्पद्यत इति ।
अनुशयाः शुभैविरुद्धः। यस्मादुत्पन्नात् कुशलात् परिहीयते, तस्मात्तु कुशलै-
र्विरुद्धा अनुशयाः । तस्मान्न विप्रयुक्ता इति । यस्माच्चेतस्यविद्यमानैस्तैर्यथोक्त-
क्लिष्टादि न सम्भवति, सम्प्रयुक्तैः पुनः सर्वमेतद् युज्यत इति ।
अथ विप्रयुक्तैरेवैवं स्यादिति । विप्रयुक्तैः क्लिष्टं चित्तं भवति । अपूर्वं
कुशलं नोत्पद्यते, उत्पन्नाच्च परिहीयत इति । यद्येवम्, कुशलं कदाचिदप्युप-
लभ्येत, तेषां विप्रयुक्तानां नित्यसन्निहितत्वात् । यस्मात् क्लिष्टावस्थायां
कुशलावस्थायामन्यस्यां वा ते विप्रयुक्ता वर्तन्त इति उपलभ्येत च कुशलम्,
अथ 'कुशलस्य चोपलम्भादविप्रयुक्ता इहानुशयाः' इति स्थितमेतद् ।
आचार्य आह—तदिदमज्ञापकम् । यदिदं वैभाषिकैरुक्तम्—'चित्तक्लेश-
करत्वाद्' इत्यादि । यो हि विप्रयुक्तमनुशयमिच्छतीति वात्सीपुत्रीयः । सर्वमेत-
दिति । चित्तक्लेशादि । क्लेशकृतमेवेच्छतीति । पर्यवस्थानकृतमेवेत्यर्थः ।
पर्यवस्थानं च न नित्यसन्निहितं भवतीति कुशलोपलम्भसिद्धिः । कामराग-
स्यानुशया इति पक्षपरिग्रहे सानुशयं परिहीयत इति नास्ति सूत्रविरोधः; किन्तु
विप्रयुक्तोऽनुशय इति प्राप्नोति । अत आह न चानुशयः सम्प्रयुक्तो न विप्रयुक्त
इति । कथम् ? इत्याह-- तस्याद्रव्यान्तरत्वादिति । शक्तिरूपस्य बीजस्य
रागादिभ्योऽनर्थान्तरत्वात् ।
आत्मभावस्य आश्रयस्य । क्लेशजा पूर्वोत्पन्नक्लेशजनिता । क्लेशोत्पादन-
शक्तिः ।
१. का० पुस्तके नास्ति ।

७६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिः, यथा चाङ्कुरादीनां शालिफलजा शालिफलो-
त्पादनशक्तिरिति । यस्तु क्लेशानां बीजार्थमर्थान्तरं विप्रयुक्तमनुशयं कल्पयति
तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते ।
यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के—"सोऽस्य पुद्गलस्य¹
भवति सुखायां वेदनायां रागानुशयः" इति । भवतीति वचनान्नासौ तदैवा-
नुशयः । कदा तर्हि भवति ? यदा प्रसुप्तो भवति । हेतौ वा तदुपचार एष
द्रष्टव्यः ॥
तिष्ठतु प्रसङ्गः । शास्त्रं प्रवर्त्तताम् ।
य एष सूत्रे रागस्य भेदः कृतः—'कामरागो भवरागः' इति, कोऽयं
भवरागः ?
भवरागो द्विधातुजः ।
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्न द्रव्यान्तरभूता, तद्वत् । स्मृत्युत्पादन-
हेतुर्द्रव्यान्तरभूतः कश्चिद् विप्रयुक्त इत्याशङ्क्य दृष्टान्तान्तरमुपन्यस्यति—
यथा चाङ्कुरादीनामिति । विस्तरः—यथा चाङ्कुरादीनां पूर्वोत्पन्ना शालिफलजा
शालिफलान्तरोत्पादनाय शक्तिर्न द्रव्यान्तरभूता, तद्वत् ।
यस्त्विति । वात्सीपुत्रीयः । यदि 'क्लेशास्यानुशयः' इतीष्यते । यत्तर्हि सूत्र
एव क्लेशोऽनुशय उक्त षट्षट्के² सूत्रे—"अस्य पुद्गलस्य भवति सुखायां
वेदनायां रागानुशयाः" ( ) इति ? राग एव अनुशयः । सुखवेदना-
वस्थायां हि रागः समुदाचरन्नेवमुक्तः, न तु तस्य बीजमित्यभिप्रायः ।
भवतीति वचनान्नासौ तदैवानुशय इति । अनुशय एव रागस्यायमुक्तः, न रागः;
भवतीति वचनात् । तस्यामवस्थायामुत्पद्यमानस्य रागस्यानुशयो भवतीति ।
बीजमुत्पद्यते, न तूत्पन्नमिति । बीजप्रकृतावस्थात्र कथ्यते इत्यभिप्रायः ।
कदा तर्हि भवतीति । कदानुशयोऽस्तीत्यर्थः । यदा प्रसुप्तो भवति । यदोपरतो
भवतीत्यर्थः । हेतौ वा तदुपचार इति । हेतौ = रागे अनुशयोपचारः । रागो
हि रागानुशयस्य हेतुः । तथा हि रागजा रागोत्पादनशक्ती रागानुशय
इत्युक्तमिति । तदिदमुक्तं भवति—क्वचिदनुशयशब्देन बीजमुच्यते, क्वचित्
पर्यवस्थानमिति ।
१. का० पुस्तके नास्ति । २. सट्पट्के—जा० ।

निर्देशः ] पञ्चमं कोशस्थानम् ७६५
रूपारूप्यधातुजो रागो भवरागः कृतः । किं कारणमेवं कृतः ?
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ २ ॥
समापत्तिरागो हि तेषां प्रायेण । स चान्तर्मुखप्रवृत्तः, तस्माद् भवरागः
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाविच्छेदनार्थमेकेषामिति¹ । आत्मभाव एव तु
भवः । ते च सत्त्वाः समापत्तिं साश्रयामास्वादयन्त आत्मभावमेवास्वादयन्ति;
कामवीतरागत्वात् । अतः स रागो भवराग इत्युक्तः ॥ २ ॥
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते । कथं कृत्वा ?
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलव्रतपरामर्शाविति पुनर्द्दश ॥ ३ ॥
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति । पञ्च दृष्टिस्वभावाः—
सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलव्रतपरामर्शश्च ।
यथा दृष्टिस्वभावाः—रागः, प्रतिघः, मानः, अविद्या, विचिकित्सा ॥ ३ ॥
एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते—कामावचराः
षट्त्रिंशद्, रूपावचरा एकत्रिंशत्, आरूप्यावचरा एकत्रिंशत् । कथं कृत्वा ?
समासतो ह्येतेऽनुशयास्त्रैघातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च । तत्र तावत्
कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् । कतमे ते ? इत्याह—
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ४ ॥

समापत्तिरागो हि तेषा प्रायेणेति । आस्वादनासम्प्रयुक्ते ध्याने प्रायेण तेषां
रागः । विमानादिष्वपि तेषां रागोऽस्तीत्यतः प्रायेणेतिग्रहणम् । स चान्तर्मुख-
प्रवृत्तः, समाहितरूपत्वाद् । तथा च सति मोक्षसंज्ञोपतिष्ठते । तद्विच्छेदनार्थं
भगवान् देशयामास—'कामरागो भवरागः' इत्येवमादि । भवे रागः, नैव
मोक्षे । मोक्षे कुशलो धर्मच्छन्द इति । आत्मभाव एव तु भव इत्याचार्यमतम् ।
समापत्ति साश्रयामिति । समापत्तिम् = सात्मभावम् । आस्वादयन्त आत्मभाव-
मेवास्वादयन्ति; न कामगुणान् । कामवीतरागतात् । अतः स रागो भवराग
इत्युक्तो न कामराग इति दर्शयति ॥ २ ॥
अभिधर्म इति । न सूत्र इत्यभिप्रायः ॥ ३ ॥

१. ॰संज्ञाव्यावर्त्तनार्थं०-का० ।

य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति ।
एभ्य एव सप्त समुदयदर्शनहेयाः १। सप्त निरोधदर्शनहेयाः, सत्कायदृष्टिमन्त-
ग्राहदृष्टि शीलव्रतपरामर्शं च वर्जयित्वा । अष्टौ मार्गदर्शनहेयाः २, सत्कायदृष्टि-
मन्तग्राहदृष्टिं च वर्जयित्वा । इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः,
सत्यानां दर्शनमात्रेण प्रहाणात् ॥ ४ ॥
चत्वारो भावनाहेयाः
तद्यथा—रागः, प्रतिघः, मानः, अविद्या च । दृष्टसत्यस्य पश्चात्
मार्गाभ्यासेन प्रहाणात् । तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया ।
एवमन्तग्राहदृष्टिः । मिथ्यादृष्टिश्चतुष्प्रकारा भवति चतुःसत्यदर्शनहेया ।
एवं दृष्टिपरामर्शो विचिकित्सा च । शोलव्रतपरामर्शो द्विप्रकारः दुःखमार्गदर्शनहेयः ।
रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेयाः, भावनाहेयाश्च ।
सप्त समुदयदर्शनहेया इति । सत्कायदृष्टिः फलभूतान् पञ्चोपादानस्कन्धान्
आलम्बत इति दुःखदर्शनहेयैव । एवमन्तग्राहदृष्टिः तेषामेव स्कन्धानां शाश्वतो-
च्छेदान्तग्रहणात् । शीलव्रतपरामर्शोऽपि तानेव स्कन्धान् शुद्धितो मुक्तितो
नैर्याणिकतश्चालम्बत इति न समुदयदर्शनहेयः ।
एवं निरोधदर्शनहेया अपि योज्याः ।
अष्टौ मार्गदर्शनहेया इति । शीलव्रतपरामर्शमधिकं प्रक्षिप्य । मार्गेण
शुद्धयति, तमपास्यान्येन शीलव्रतेन शुद्धि प्रत्येतीति विप्रतिपन्नत्वात् मार्ग-
दर्शनप्रहातव्यो भवति । यो हि क्लेशो यस्य सत्यस्यापवादाय प्रवृत्तः, स
तस्मिन् दृष्टे प्रहीयते; सर्पभ्रान्तिरिव रज्जुदर्शनान् । सत्यानां दर्शनमात्रेण
प्रहाणादिति । नाभ्यासेन प्रहाणादित्यभिप्रायः । दृष्टसत्यस्य पश्चान्मार्गाभ्यासेन
प्रहाणात् । किमेते भावनाहेया इत्यधिकारः । तदेवमभ्यासो भावना, पुनः
पुनरुत्पादनमित्यर्थः । सत्कायदृष्टिरेकप्रकारेति । आत्मात्मीयाकारेण दुःखे
विप्रतिपन्नत्वाद् दुःखदर्शनहेयैव । एवमन्तग्राहदृष्टिरिति । असावप्यात्माभि-
मतस्य वस्तुनः शाश्वतोच्छेदान्तारोपाद् दुःख एव विप्रतिपन्नेति दुःखदर्शन-
हेयैव । मिथ्यादृष्टिश्चतुष्प्रकारेति । दुःखादिसत्यलक्षणापवादप्रवृत्तत्वात् सत्य-
चतुष्टयेऽपि विप्रतिपन्नेति । चतुःसत्यदर्शनहेया । एवं दृष्टिपरामर्शोऽपि
१. ०दर्शनप्रहेयाः—का० । २. दुःखसमुदयनिरोधदर्शनहेया—का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ७६७
कीदृशा एते दुःखदर्शनहेयाः ? कीदृशा यावद् भावनाहेयाः ? ये यद्दर्शन-
हेयालम्बनास्ते तद्दर्शनहेयाः । अवशिष्टा भावनाहेयाः ।
चतुष्प्रकार एव । स हि हीनेऽग्रदर्शनम् । तत्र समुदाय-निरोध-मार्गप्रहेया-
लम्बनाः समुदाय-निरोध-मार्गदर्शनहेयाः । शेषो दुःखदर्शनहेयः । एवं विचिकित्सा
सर्वत्र संशयाकारेति सर्वत्र विप्रतिपन्नत्वाच्चतुःसत्यदर्शनहेया । शीलव्रत-
परामर्शो द्विप्रकार इति । ईश्वरादिष्वहेतुषु हेतुग्रहो नित्यात्मविपर्यासात्
प्रवर्तत इति दुःखदर्शनहेयाः । अमार्गे मार्गदर्शनं मार्गदर्शनहेयः ।
कीदृशा एता इति । रागादयश्चत्वारः क्लेशाः । पर्यनुयुज्यन्ते हि राग-
प्रतिघ-मानाविद्या इत्यनन्तराधिकृताः । ते चेमे दर्शनहेयाः । इमे भावनाहेया
इति दुष्परिच्छेदाः । न तु सत्कायदृष्ट्यादयश्चिन्त्यन्ते । ये हि दुःखसत्यवि-
प्रतिपन्नाः, ते दुःखदर्शनहेया इति । एवं यावद् ये मार्गसत्यविप्रतिपन्ना ते
मार्गदर्शनहेया इति सुपरिच्छेदमेतत् । तत्र य इति रागादयः । यस्य सत्यस्य
दर्शनम् = यद्दर्शनम् । यद्दर्शनेन हेयाः त आलम्बनमेषाम् त इमे
यद्दर्शनहेयालम्बनाः । ते तद्दर्शनहेयाः । ते रागादयः । तस्य सत्यस्य दर्शनं
तद्दर्शनम्, तद्दर्शनेन हेयास्तद्दर्शनहेयाः । एतदुक्तं भवति—ये रागादयो
दुःखदर्शनहेयम्, यावन्मार्गदर्शनहेयं क्लेशमालम्बन्ते, ते तद्दर्शनहेया इति ।
यदालम्बना यद्दर्शनहेयालम्बनाश्चेति वक्तव्यम् ; चतुरार्यसत्यालम्बनोऽ-
प्यविद्यानुशयो भवतीति ? न वक्तव्यम्; एकशेषविधानसिद्धेः । यच्च सत्यम्,
यद्दर्शनहेयाश्च क्लेशा आलम्बनमेषाम्, त इमे दर्शनहेयालम्बनाः, ते तद्दर्शन-
हेया इति ।
ननु च समुदायदर्शनप्रहातव्यः सर्वत्रगोऽविद्यानुशयो दुःखनिरोधादि-

  • त्यदर्शनहेयाद्यालम्बनोऽपि भवति, पञ्चनिकायालम्बनत्वात्, ततश्चास्य
    दुःखनिरोधादिसत्यदर्शनहेयत्वप्रसङ्गः स्यादिति ? न दोषः; यद्यपि हि स
    पञ्चनिकायालम्बनः, समुदायरूपाकारतस्तु तान् निकायानालम्बते; तेन तथा-
    लम्बनतः समुदायदर्शनप्रहातव्य एव स इति । एवं दुःखदर्शनप्रहातव्योऽपि
    संयोज्यः । एवं च सति येऽपि व्याचक्षते—'ये यद्दर्शनहेयालम्बना इति सर्वे
    एव दर्शनहेया अधिक्रियन्ते, न केवला रागादय इति; तेषामपि व्याख्याने
    इमावेव चोद्यपरिहारौ वक्तव्यौ ।
    रूपारूप्यधात्वोर्दुःखाभावात् प्रतिघाभावः । दुःखायां हि वेदनायां प्रतिघो-
    ऽनुशेते । सा चोपरि नास्तीति । द्वेषश्च रूक्षो वातव्याधिवत् । ते च सत्त्वाः
    शमथस्निग्धसन्ततय इति । विपाकाभावाच्च । अनिष्टो ह्यस्य विपाकः । तौ धातु
    विगतानिष्टविपाकौ । आघातवस्त्वभावाच्च । न हि तत्र बाह्याः कुश-क्षार-

ता एव द्वादश दृष्टयो भवन्ति, चतस्रो विचिकित्साः, पञ्च रागाः, पञ्च
प्रतिघाः, पञ्च मानाः, पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।
त एवाप्रतिघाः पुनः ।
रूपधातौ,
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।
यथा रूपधातौ
तथारूप्ये
एकत्रिंशदनुशया भवन्ति ।
इत्यष्टानवतिर्मताः ।। ५ ।।
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मता आभि-
धर्मिकाणाम् ।। ५ ।।
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ?
नेत्याह । किं तर्हि ?
भवाग्रजाः क्षान्तिवध्या दृग्धेया एव,
कण्टकादयोऽनाध्यात्मिकाः तापापस्मारादयः सन्ति । मैत्र्यादिकुशलमूलसम्भूत-
त्वात्, परिग्रहाभावाच्च ।
आकार-प्रकारधातुभेदैरिति । आकारभेदो दशानामनुशयानाम्—'आत्मा-
त्मीयध्रुवोच्छेदनास्तिहीनामग्रदृष्टयः" (अभि० को० ५.७) इत्येवमादिकः ।
प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्य इति ।
तत्र रागानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविध इति । तस्य परस्पर-
माकारभेदो नास्ति । सर्वो हि रागः सक्त्याकारः, तस्मान्नाकारभेदेन व्यवस्था-
प्यते । प्रतिघानुशयः प्रकारभेदात् पञ्चविधः । न परस्परमाकारभेदोऽस्ति;
सर्वस्य प्रतिघाकारत्वात् । धातुभेदोऽपि नास्ति; रूपारूप्यधात्वोस्तदभावात् ।
मानानुशयः प्रकार-धातुभेदाभ्यां पञ्चदशविधः । नाकारभेदोऽस्ति; सर्वस्योन्न-
त्याकारत्वात् । तथा अविद्या पञ्चदशविधा, ताभ्यामेव । नाकारभेदोऽस्ति;
सर्वस्या असम्प्रख्यानाकारत्वात् । विचिकित्सा द्वादशविधा, ताभ्यामेव ।
नाकारभेदः; सर्वस्याः संशयाकारत्वात् । दृष्ट्यनुशय आकार-प्रकार-धातुभेदैः
षट्त्रिंशद्विधः । एवमेते षडनुशया इति विस्तरः ॥ ५ ॥

निर्देशः । पञ्चमं कोशस्थानम् ५२९
ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव, न
भावनाहेयाः ।
शेषजाः ।
दृग्भावनाभ्याम्,
‘क्षान्तिवध्याः’ इति वर्त्तते । शेषासु भूमिषु यथायोगं धर्मान्वयज्ञान-
क्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां भावनाहेयाः ।
अक्षान्तिवध्या भावनयैव तु ॥ ६ ॥
सर्वासु भूमिषु येऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः । नैव
हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे । तथाहि—महाकर्मविभागसूत्रे
“भवाग्रजा क्षान्तिवध्याः” इति । क्षान्तिवध्याग्रहणं भावनाहेयनिवृत्त्यर्थम् ।
भवाग्रजाग्रहणं तदन्यभूमिकविशेषणार्थम् । न हि लौकिकोऽस्ति भवाग्रप्रतिपक्ष-
भूतो भावनामार्ग इति ।
शेषासु भूमिष्विति । काम