सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

६१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् ॥ २२ ॥
येन प्रसादवेगेनासंवरस्थस्य कुशलाविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां
कुर्वतः, येन च क्लेशवेगेन संवरस्थस्याकुशलाविज्ञप्तिरुत्पद्यते वधबन्धनताडना-
दिक्रियां कुर्वतः; तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती। स आद्ये क्षणे वर्तमान-
यैवाविज्ञप्त्या समन्वगतो भवति। अन्येष्वतीताऽपि ॥ २२ ॥
अविज्ञप्त्यधिकारः समाप्तः ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
सर्वे संवरासंवरमध्यस्था यावद् विज्ञप्तिं कुर्वन्ति तावत् तया वर्तमानया
समन्वागताः।
अतीतया क्षणादूर्ध्वमात्यागात्,
प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति।
नास्त्यजातया ॥ २३ ॥
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः ॥ २३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्
समन्वागतः। दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति।
किंकृतं तस्या दौर्बल्यम् ? चित्तकृतम्।

तौ यावदनुवर्तेते इति। प्रसादक्लेशवेगौ। अन्येष्वतीतायापीति। द्वितीय-
क्षणादिषु अतीतया ॥ २२ ॥
"क्षणादूर्ध्वमात्यागाद्" इति। यो यस्यास्त्यागस्तस्मादात्यागात् तयातीतया
विज्ञप्त्या समन्वागतः। कथम् ? संवरलक्षणायास्तावद् विज्ञप्तेस्त्यागः शिक्षानि-
क्षेपादिभिः। तस्मादात्यागादनया अतीतया विज्ञप्त्या समन्वागतः। असंवर-
लक्षणायाः संवरसमादानादिभिस्त्यागः, तस्मादात्यागादनया समन्वागतः।
नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः, तस्मादात्या-
गादनया समन्वागत इति। यो हि संवराद्यविज्ञप्तिमन्वागतः सोऽवश्यं मौल-
कर्मपथस्वभावया क्षणादूर्ध्वमतीतयाविज्ञप्त्या समन्वागतः।
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागत इति। चित्ताननुपरिवर्त-
नीयत्वात् ॥ २३ ॥

प्त्यैव समन्वागतो भवति; अविज्ञप्तेरनुत्पादात् । प्रागेवाव्याकृतं

Line 27:
कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतः, नाविज्ञप्त्या; अविज्ञप्त्युत्पादाशङ्काया

Line 28:
अभावात् । अन्यत्रेति विस्तरः । अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः ।

Line 29:
कर्मपथेभ्यश्च प्राणातिपातादिभ्यः । तत्र ह्याव्याकृतमपि कुर्वंश्च विज्ञप्त्या

Line 30:
१. प्रागेवाव्याकृते—का० । २. ०चेतना—मुद्रितः पाठः ।

Everything matches the printed page with extreme accuracy.निर्देशः ] चतुर्थं कोशस्थानम् ६१७
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ? नैतदेवम् ; जडा हि विज्ञप्तिः,
परतन्त्रा च । न चैवं चित्तम् । सा हि निवृत्तेर्दुर्बलेनेत्यादिना दुर्बलतरा भवति ।
असंवरस्थ इत्युक्तम् । कोऽयमसंवरो नाम ?
संवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ २४ ॥
असंवरस्य

६१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ २५ ॥
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या; येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ
न तावद् विज्ञप्तं भवति, विज्ञप्तं वा पुनर्विहीनम् ॥ २५ ॥
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ॥
अथैते संवराः कथं लभ्यन्ते ?
ध्यानजो ध्यानभूम्यैव लभ्यते,
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवम्, तदा
ध्यानसंवरोऽपि; सहभूतत्वात् ।
अनास्रवस्तया ।
आर्यया,
समन्वागतो भवति; "सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावदुप-
जायत एव पुण्यम्" इति सूत्रे वचनात् । प्राणातिपातादींश्च कर्मपथान् मृदु-
चेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति ।
येनार्यपुद्गलेनेति विस्तरः । परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं
भवति । कललावस्थायामन्तर्गर्भगतेन वा । विज्ञप्तं वा पुनर्विहीनमव्याकृत-
चित्तोत्थापितविज्ञप्तिविहीनाच्च । न हि तस्याः प्राप्तिरनुबन्धिनी भवति ।
कृतस्तूपादिकस्य वां, तद्वस्तुच्छेदात् । स हि तदानीमविज्ञप्तिमपि परित्यजति
प्रागेव विज्ञप्तिमिति । आस्रवस्थस्तु जन्मान्तरपरिवृत्तावार्यपुद्गलोऽनास्रवयैवा-
विज्ञप्त्या जन्मान्तरलब्धया समन्वागतः, न विज्ञप्त्या ।
ननु च पृथग्जनस्याप्ययं विधिः सम्भवति ? सम्भवति । अनावश्यकत्वात्तु
पृथग्जनो नोक्तः । यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधातावकृत-
विज्ञप्तिः, कृतविज्ञप्तिविहीनो वा, स एव तथा सम्भवति, नान्य इति; कामा-
वचरसत्त्वाभिसन्धिवचनाद्वा । अथवा उदाहरणरूप आर्यपुद्गल उक्तः, तेन पृथ-
ग्जनोऽपि तथा गृहीतव्यः । अत एव "विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः"
इत्यत्रोक्तः—'अन्यत्रौपधिकपुण्यक्रियादानकर्मपथेभ्यः' इति । सावशेषमेतद्वचन-
मिति कृत्वा । एवं द्वे कोटी सूत्रिते प्रथमद्वितीये । तृतीयचतुर्थ्यौ तु योज्ये—
तृतीया संवरासंवरमध्यस्थास्तीव्रया चेतनया कुशलमकुशलं वा कुर्वन्तः;
चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति, विज्ञप्तं वा
विहीनमिति ॥ २५ ॥
सहभूतत्वादिति । यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः ।

निर्देशः ] चतुर्थं कोशस्थानम् ६१९
तयैव ध्यानभूम्याऽनास्रवया लभ्यमानोऽनास्रवः संवरो लभ्यते । तत्र
षड् ध्यानभूमयोऽनास्रवा भवन्ति—चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति
पश्चात् प्रवेदयिष्यामः ।
प्रातिमोक्षाख्यः परविज्ञापनादिभिः ॥ २६ ॥
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते, यद्येनं परो विज्ञापयति¹ असौ
च परम् । स पुनः सङ्घाद्वा, पुद्गलाद्वा । सङ्घाद् भिक्षुभिक्षुणीशिक्षमाणासंवरः,
पुद्गलादन्ये ।
दशविधा उपसम्पदिति विनयविभाषिकाः । तस्य उपसंग्रहणार्थमादि-
शब्दः ।
१. स्वयम्भूत्वेन बुद्धानां प्रत्येकबुद्धानां च, २. नियमावक्रान्त्या पञ्चकानाम्,
३. एहिभिक्षुकया यशःप्रभृतीनाम्, ४. शास्तुरभ्युपगमात् महाकाश्यपस्य,
५. प्रश्नाराधनेन सोदायिनः, ६. गुरुधर्माभ्युपगमेन महाप्रजापत्याः, ७. दूतेन
परो विज्ञापयतीति । प्रत्यापयति । पुद्गलादन्य इति । श्रामणेरश्रामणेर्यु-
पासकोपासिकोपवाससंवराः ।
नियमावक्रान्त्या । आर्यमार्गावतारणेन । पञ्चकानामाज्ञातकौण्डिन्यादीनाम् ।
एहिभिक्षुकयेति । 'एहि भिक्षो चर ब्रह्मचर्यम्' इति भगवतो वचने । 'एहीति
चोक्तः सुगतेन तायिना मुण्डश्च काषायधरो बभूव' इति । शास्तुरभ्युपगमान्महा-
काश्यपस्येति । महाकाश्यपः किल यां यां देवताप्रतिमां वन्दते सा सा स्फुटति;
तस्य महानुभावात् । स भगवन्तमुपसंक्रम्य न वन्दते—माऽस्य रूपविनाशो
भूदिति । तमभिप्रायं विदित्वा भगवांश्चोदयति स्म—वन्दस्व काश्यप तथागत-
मिति । तेन भगवान् वन्दितः । ततः स भगवतो रूपमविकोपितं दृष्ट्वा—अयं मे
शास्तेति स भगवन्तमभ्युपगतः । तदभ्युपगमान् अस्योपसम्पदिति । प्रश्नाराध-
नेन सोदायिन इति । सोदायिना प्रश्नविसर्जनेन भगवानाराधितः, तेनाराधनेन
तस्योपसम्पत् । गुरुधर्माभ्युपगमेनेति । अष्टौ गुरुधर्माः—१. भिक्षोरन्तिकाद् भिक्षु-
णीनामुपसम्पत् भिक्षुणीभावः, २. अन्वर्धमासमववादो ग्राह्यो भिक्षोरन्तिकात्,
३. अभिक्षुके आवासे वर्षा नोपगन्तव्याः, ४. प्रवारणायामुभयसङ्घस्त्रिभिः
स्थानैः प्रवारयितव्यः, ५. न चोदयितव्यो भिक्षुरापत्तिमापन्नः नाक्रोष्टव्यः,
६. गुरुधर्मापत्तौ मानाप्यमर्धमासं चरितव्यम्, ७. वर्षशतोपसम्पन्नयापि भिक्षुण्या
१. विज्ञपयति—का० ।
अभि० कौ० २ : १६

६२० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-

धर्मदिन्नायाः, ८. विनयधरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु, ९. दशवर्गेण मध्येषु
जनपदेषु, १०. शरणगमनत्रैवाचिकेन षष्टिभद्रवर्गपूगोपसम्पादितानामिति ।
तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ॥ २६ ॥
स पुनरेष प्रातिमोक्षसंवरः समादीयमानः कियन्तं कालं समादातव्यः ?
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम्, उपवास-
संवरस्य अहोरात्रमित्येष नियमः ।
किं कारणम् ? द्वौ हि कालपर्यन्तौ—अहोरात्रपर्यन्तः, जीवितपर्यन्तश्च ।
अहोरात्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ? संस्कारपरिदीपनावचनमेतत् । आलोकावस्था
हि द्वीपेषु 'दिवसः' इत्युच्यते, तमोऽवस्था 'रात्रिः' । युक्तं तावज्जीवितादूर्ध्वं
सत्यपि समादाने संवरस्यानुत्पत्तिः, विसभागत्यादाश्रयस्य तेन च तत्राप्रयोगाद्,
तत्क्षणोपसम्पन्नो भिक्षुर्वन्द्यः, ८. न च भिक्षुण्या कचिद् भिक्षुश्चोदयितव्यः—
इत्येवमादयः । एषामभ्युपगमेन तस्या उपसम्पत् । दूतेन धर्मदिन्नाया इति ।
तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति । विनयधरपञ्च-
मेनेति । चत्वारो भिक्षवः=सङ्घः, तत्र च ज्ञप्तिवाचकेन पञ्चमेनोपसम्पाद्यते
प्रत्यन्तिकेषु जनपदेषु । मध्येषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसम्पाद्यते ।
षष्टिभद्रवर्ग-पूगोपसम्पादितानामिति । भद्रो वर्ग एषामिति । भद्रवर्गाणां
षष्टिः कुलपुत्राः । तेषां पूगेन समूहेनोपसम्पादितानाम् । शरणगमनत्रैवाचिकेन ।
‘बुद्धं शरणं गच्छामः’ इति त्रिवंचनेनोपसंपत् । तेषां नावश्यं विज्ञप्त्यधीन इति ।
तेषां विनयधराणामिदं मतम्—नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर इति ।
बुद्धप्रभृतीनामविज्ञप्त्यधीनत्वात् । अथ वा तेषामिति येषां विज्ञप्तिर्नास्त्युप-
सम्पत्क्रियायाम् ॥ २६ ॥
“संवृतेः” इति । संवरस्य । “कालो नित्यः पदार्थोऽस्ति” इत्येके । तदाशंकया
पृच्छति—कालो नाम क एष धर्म इति । काल इत्यस्याभिधानस्य किमभिधेय-
मित्यर्थः । संस्कारपरिदीपनावचनमेतदिति । संस्काराणामतीतानागतप्रत्यु-
त्पन्नानामभिद्योतकं नामेति । तद् यथा—अतीतः कालो यावत् प्रत्युत्पन्न
इति त्रैयध्विकाः संस्कारा एव गम्यन्ते । तेन च तत्राप्रयोगादिति । तेन

[निर्देशः ] चतुर्थं कोशस्थानम् ६२१

अस्मरणाच्च ।
अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो
बहूनामल्पसंवराणामनुत्पत्तौ ? इत्थमस्ति प्रतिबन्धो यद्भगवानाहोरात्रिकमेवोपवासं
सूत्रे शास्ति स्म । इदमिदानीं सम्प्रधार्यम्—किं तावदहोरात्रादूर्ध्वं संवरस्या-
नुत्पत्तिं पश्यता तथागतेनाहोरात्रिक उपवासो देशितः, उताहो दुर्बलेन्द्रियाणा-
माहोरात्रिकेऽपि संवरसमादानेन सन्नियोजनार्थमिति ।
कुतस्त्वेतदेवं तर्क्यते ? अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् ।
तदेतत् कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः ॥
असंवरस्येदानीं कः कालनियमः ?
नासंवरोऽस्त्यहोरात्रम्,
यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रम्, यथोपवासः ।
किं कारणम् ?
न किलैवं प्रगृह्यते ॥ २७ ॥
न किल कश्चिदेवमसंवरं समादत्ते यथोपवासम्—कच्चिदहमहोरात्रमसंवृतः
स्यामिति; कुत्सितत्वात् कर्मणः । एवं चैव न कश्चिदादत्ते—कच्चिदहं याव-
जीवमसंवृतः स्यामिति । यावज्जीवमप्यस्य लाभो न स्यात् । यद्यपि नैवमादत्ते,
तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते, न कालान्तर-
विपन्नेन । उपवाससंवरस्तु समादानबलाधानादनात्यन्तिकेऽप्याशये लभ्यत एव;
संवरार्थित्वात् ।
यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत, सोऽवश्यं
लभेत । न त्वेतद् दृष्टमिति नैवं व्यवस्थाप्यते ॥


विसभागेनाश्रयेण तत्र समादाने अप्रयोगात् । अस्मरणाच्च तेनाश्रयेण तत्-
समादानं न स्मरति ।
वैभाषिक आह—कुतस्त्वेतदेवं तर्क्यते । यथानन्तरमुक्तम् ।
आचार्य आह—परेणापि संवरोत्पत्तौ युक्त्यविरोधादिति नात्र युक्तिर्विरुध्यते ।
यथा जीवितादूर्ध्वं सत्यपि समादाने संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रय-
त्वात् इत्येवमादि । न कालान्तरविपन्नेनेति अहोरात्रादि यावत् क्रियाशयेन ॥

६२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः । स एव तु
पापक्रियाभिसन्धिरसंवरः । सानुबन्धो यतः कुशलचित्तोऽपि तद्वानित्युच्यते¹;
तस्यानिरकृतत्वात् ॥ २७ ॥
अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः ?
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिना ।
उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात् ॥ २८ ॥
काल्यं तावत् सूर्योदयकाले; अहोरात्रिकत्वात् संवरस्य । यस्तु पूर्वकृत-
समादानः, 'नित्यमष्टम्यामुपवेक्ष्यामि' इति, स भुक्त्वापि गृह्णीयात् ।
अन्यतश्च ग्रहीतव्यः, न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् ।
नीचैः स्थितेनोत्कुटुकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वाऽन्यत्र
स्थास्यात् । अगौरवस्य हि संवरो नोत्पद्यते ।
दातुश्च वचनमनुब्रूवीत । न पूर्वं न युगपत् । एवं ह्यसौ परस्माद् गृहीतो
भवति । अन्यथा हि दानग्रहणं न सिध्येत् ।
समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यः, न विकलाङ्गः ।
निर्भूषेण च । आजस्रिकमभ्यलङ्कारं मुक्त्वा । आजस्रिको ह्यलङ्कारो
नात्यर्थं मदमादधाति ।
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति । यथा 'नास्त्यविज्ञप्तिर्द्रव्यतः'
इति प्रतिपादितम्, तथा असंवरोऽपि न द्रव्यतोऽस्ति । चेतनाव्यतिरिक्त इत्य-
भिप्रायः । पापक्रियाभिसन्धिरिति । पापक्रियाभिप्राय इत्यर्थः । सानुबन्ध इति
सवासन इत्यर्थः । सवासनश्चेतनाविशेषोऽसंवर इत्यर्थः । यतोऽनुबन्धात् तद्द्वा-
संवरवानित्युच्यते । असंवरिक इत्यर्थः । तस्यानिरकृतत्वात् । तस्याभिसन्धेः
सानुबन्धस्यानिरकृतत्वात् । तद्विरुद्धया चेतनयानुपहतत्वादित्यर्थः ॥ २७ ॥
स भुक्त्वापि गृह्णीयादिति । सूर्योदय एव संवर उत्तिष्ठते, समादाननियम-
चित्तस्योत्थापकत्वात् । भुक्त्वा ग्रहणं त्वभिव्यक्त्यर्थम् ।
कपोतकमिति । अङ्गुष्ठरहितस्याङ्गुलिचतुष्कस्येतरहस्ताङ्गुष्ठप्रदेशिन्योरन्त-
रालविन्यासनात् कपोतकः ॥ २८ ॥
१. तद्वानुच्यते—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६२३
आगतत्रिपरिक्षयाच्च ग्रहीतव्यः, यावत् पुनः सूर्योदयात् ।
अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यात्, न तूपवाससंवरः । एवं च
कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।
अर्हतां समीपे वसन्त्यनेनेति उपवासः; तेषामनुशिक्षणात् ।
यावज्जीविकसंवरसमीपे वसन्त्यनेनेत्यपरे ।
अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा ।
“पोषं दधाति एनसः कुशलस्य यस्मा-
दुक्तस्ततो भगवता किल पोषधोऽयम्” । ( ) इति ॥ २८ ॥
किमर्थं पुनरष्टाङ्गान्युपादीयन्ते ? यस्मात्
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
चत्वार्येकं तथा त्रीणि,
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः; प्रकृतिसावद्यविरतित्वात् ।
एकमप्रमादाङ्गं मद्यपानाद् विरतिः । समाप्तशीलोऽपि मद्यपः प्रमाद्येत ।
त्रीणि व्रताङ्गानि यावदकालभोजनाद् विरतिः; संवेगानुगुणत्वात् ॥
किं पुनरेभिरप्रमादाङ्गव्रताङ्गैरनुपात्तैः स्यात् ?
स्मृतिनाशो मदश्च तैः ॥ २९ ॥
मद्यं हि पिबतः कार्याकार्यस्मृतिरेव नश्येत् । उच्चशयनमहाशयननृत्य-
गीतादिकं प्रतिसेवमानस्य मदः सम्भवेत् । मत्तस्य च दौःशील्यमदूरं भवेत् ।
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।
तदभावादुभयं न स्यादिति ।
केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते । तस्य
शेषाण्यष्टाङ्गानीति । नृत्यगीतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।
एवं तु सति सूत्रपाठो न युज्येत । अकालभोजनाद् विरतिमुक्त्वा
“अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे, अनुविधीये” इति ।
शीलं पाराजिकाभावः सङ्घावशेषाद्यभावः । व्रतमिति नियमः । तदभावा-
दिति । अकालभोजनात् । उभयं न स्यादिति । स्मृतिः, संवेगश्च ।

६२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कस्तर्हि सोऽन्य उपवासो यस्येमान्यङ्गानि ? समुदायस्यावयवा अङ्गानि ।
यथा रथस्याङ्गानि--चतुरङ्गः, बलकायः, पञ्चाङ्गम्, तूर्यम्; तथाऽष्टाङ्ग उपवासो
द्रष्टव्यः—अकालभोजनात् प्रतिविरतिरूपवासः, उपवासाङ्गं च । यथा सम्यग्दृष्टि-
र्मार्गः, मार्गाङ्गं च धर्मप्रविचयसम्बोध्यङ्गं बोधिर्बोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं
चेति वैभाषिकाः । न तु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त
इति । पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गानि यदि स्युः, प्रथमक्षणोत्पन्न आर्य-
मार्गो नाष्टाङ्गः स्यात् ॥ २९ ॥
किं खल्वयमुपवासकस्यैवोपवासः, आहोस्विदन्यस्यापि ?
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।
अनुपवासकोऽपि यस्तमहोरात्रं बुद्धधर्मसङ्घान् शरणं गत्वोपवासं गृह्णाति,
तस्योत्पद्यते उपवाससंवरः, नान्यथा; अन्यत्राज्ञानात् ।
सूत्र उक्तम्—"यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण
समन्वागतो बुद्धं शरणं गच्छति, धर्मम्, सङ्घं शरणं गच्छति, वाचं च भाषते—
'उपवासकं च मां धारय', इयता उपवासको भवति" ( ) इति ।
तत् किं शरणगमनादेवोपवासको भवति ? भवतीति बहिर्देशकाः ।
न तु तेषामिति । विस्तरेणाचार्यो वैभाषिकमतं युक्त्या विरोधयति । न तु
तेषामेव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टि-धर्मप्रविचयसम्बोध्यङ्ग-समाधीनाम् । त एव
सम्यग्दृष्ट्यादयोऽङ्गत्वाय कल्पन्ते । युज्यन्त इत्यर्थः । कस्माद् ? युक्तिविरोधात् ।
पूर्वकाः सम्यग्दृष्ट्यादयः उत्तरेषां सम्यग्दृष्ट्यादीनामङ्गानि यदि स्युरिति व्यव-
स्थाप्यते । एवमस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् । न
हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिरङ्गमस्तीति सप्ताङ्गः स्यात् । बोध्यङ्गेष्वपि पश्चिमः
क्षणो न बोध्यङ्गं स्यात् । न ह्यन्या परेण बोधिरस्ति, यस्यास्तदङ्गं स्यात् ।
अथ मतम्—अनागताया बोधेस्तदङ्गमिति ? अनागतबोधि न स्यात् । एवं
समाधिर्योज्यः ॥ २६ ॥
अन्यत्राज्ञानादिति । दातुर्गृहीतुर्वा विस्मरणाद्, अव्युत्पत्तेश्च । सन्दिग्धस्य
विपन्नाशयस्य वाऽनादरपूर्वकं शरणमवगच्छतः संवरो नोत्पद्यते इति ।
गृहीति उद्देशपदम् । अवदातवसन इति निर्देशपदम् । पुरुष इत्युद्देशपदम् ।
पुरुषेन्द्रियेण समन्वागत इति तन्निर्देशपदम् । यदि न विना संवरेणोपासको
भवति ।

पातं प्रहाय प्राणातिपातात् प्रतिविरमामि’ इति विस्तरेण ॥ ३० ॥Footnotes:१. विरोधः—का० । २. ते—का० ।`

Wait, let's check L21 again:
ख्याते—इतश्चामुत्तश्च vs च्यते—इतश्चामुत्तश्च
Wait, let's look at the letter before ते:
Could it be ख्या?
In Devanagari, ख often has a loop at the top left, going down and up, connected to a vertical line: ख.
When combined with य, ख्य has the ख part connected directly to य.
In च्य, च has a loop, connected to य.
Wait, look at the letter:
Could it be ख्याते? Yes, many OCRs and readers see ख्याते or च्यते.
Wait! Look at प्रत्याख्याते: does प्रत्याख्याते make sense?
Wait, if it's a misprint for प्रत्याख्यायते or प्रत्याचष्टे, what did the typesetter actually set?
Typesetters set metal types.
The glyph is: च्यते or ख्याते.
Wait, look at the top left of the glyph: is there an ascender or loop

३२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यदि सर्व एवोपासका उपासकसंवरस्थाः, कथं भगवता एकदेशकारी,
प्रदेशकारी, यद्भूयःकारी, परिपूर्णकारी चोपासक उक्तः ?
तत्पालनात् किल प्रोक्ताः,
यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः । सर्वे तु समं संवरस्थाः ।
इदमुत्सूत्रं वर्तते ?
किमत्रोत्सूत्रम् ? उपासकत्वाभ्युपगमादेव संवरलाभः, यस्मात् प्राणातिपात-
मित्याहेति ?
न ह्येवं सूत्रपाठः उक्तः, यथा महानामसूत्रपाठः¹। तत्रैव चोपासक-
लक्षणापदेशः, नान्यत्र । यत्र त्वेष.पाठः—"यावज्जीवं प्राणापेतं शरणगतमभि-
प्रसन्नम्" इति । ततस्ते² दृष्टसत्याः पुद्गलाः³ "अवेत्यप्रसादान्वयं प्राणैरपि
सद्धर्मोपगमनं दर्शयन्ति स्म । जीवितहेतोरप्यभव्या वयमेनं धर्मं परित्यक्तुम्" इति ।
न त्वेष लक्षणापदेशः⁴ संवरस्य ।
प्राणापेतं तु न क्वचित् पठ्यते । कश्चैतदपरिस्फुटार्थं पठेत् !
एकदेशकारी । य एकं शिक्षापदं रक्षति । प्रदेशकारी । यो द्वे रक्षति । यद्-
भूयस्कारी । यस्त्रीणि चत्वारि वा रक्षति । परिपूर्णकारी । यः पञ्चापि रक्षति ।
स तत्कारीत्युक्त इति । एकदेशकारी, यावत् परिपूर्णकारीत्यर्थः । न ह्येवं सूत्र-
पाठ इति । नह्येवं महानामसूत्रपाठ। यावज्जीवप्राणापेतमिति उक्तः । यथा
महानामसूत्रपाठ इति । "कियता भदन्त उपासको भवति ? यतश्च महानाम
गृही विस्तरेण यावदुपासकं मां धारयेति इयतोपासको भवति" इति । यत्र त्वेष
पाठ इति । यत्र सूत्रान्तरे एष पाठः । यावज्जीवं प्राणापेतं शरणगतमभिप्रस-
न्नामति । ततस्ते दृष्टसत्याः पुद्गला अवेत्य प्रसादान्वयमवेत्य प्रसादहेतुकं प्राणैरपि
जीवितहेतोरपि सद्धर्मोपगमनं दर्शयन्ति स्म । अभव्या वयमेनं धर्मं परित्यक्तुमिति ।
न त्वेष लक्षणापदेशः संवरस्य । न त्वनेन सूत्रेण लक्षणमपदिश्यते इत्यर्थः ।
प्राणापेतं तु न क्वचित् पठ्यत इति । नापि महानामसूत्रे, नापि दृष्टसत्यसूत्रे ।
कश्चैतदपरिस्फुटार्थं पठेदिति । मध्यमपदलोपविकल्पान्न ज्ञायते—किम् प्राणेभ्यो
ऽपेतम्, प्राणैर्वापितं प्राणपेतम्, उताहो प्राणा,पातादिभ्योऽपेतं प्राणापेत-
१. महानामसूत्रे पाठः—का० २. तत्र ते—का० ।
३. का० पुस्तके नास्ति । ४. ०णोपदेश.—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६२७
एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते, कुतो
विसर्जनमावेणिकधर्माणाम् ! को ह्युपासकसंवरं जानन् एतन्न ज्ञास्यते—यो
हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति ।
उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येव प्रश्नो
युज्यते—"कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारी
भवति ?"
यदि तर्हि विना संवरेणोपासकः स्याद्, विकलेन वा, भिक्षुश्रामणेरावपि
स्याताम्, कथं तावेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति ? शास्तृप्रज्ञप्ति-
वशात् । उपासकत्वादिप्रतिनियमोऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् । विनापि हि
संवरेणोपासकः प्रज्ञपितः, न तु भिक्षुश्रामणेराविति । ते त्वेतन्नेच्छन्ति काश्मीराः ।
सर्वेषां तु संवराणाम्—
मृद्वादित्वं यथा मनः ॥ ३१ ॥
मृदुमध्याधिमात्रत्वं ससन्तानचित्तवशात् । एवं च कृत्वार्हतोऽपि मृदुः
प्रातिमोक्षसंवरः स्यात्, पृथग्जनस्याधिमात्रः ।
किं पुनः संवरग्रहणादेवोपासकः स्याद् विना शरणगमनैः ? न स्यादन्यत्रा-
ज्ञानात् ॥ ३१ ॥
मिति । प्रश्न एव न युज्यत इति । योऽयं प्रश्नः—'कियता भदन्तोपासक
एकदेशकारी भवति यावत् परिपूर्णकारी' इति, एष प्रश्नो न युज्यते । कुतो
विसर्जनमिति । "इह महानामन्नुपासकः प्राणातिपातं प्रहाय प्राणातिपातात्
प्रतिविरतो भवति । इयता महानामन्नुपासकः शिक्षायामेकदेशकारी भवति ।
विस्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति । त्रिभ्यः प्रति-
विरतश्चतुर्भ्यो वा यद्भूयस्कारी भवति"—इत्येतद् विसर्जनं सुष्ठु न युज्यते ।
तन्मात्रशिक्षाक्षमान् प्रत्येव प्रश्नो युज्यते इति । एकस्य शिक्षापदस्य द्वयोस्ततः
परेण वा क्षमानिति ।
विनापि संवरेणोपासकः प्रज्ञपित इति। महानामसूत्रे । "यतः खलु महानामन्
गृही अवदातवसनः" इत्येवमादिना ।
अर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यादिति । यदि समुत्थापकमस्य चित्तं
मृदु स्यात् । पृथग्जनस्याधिमात्र इति । यद्यस्याधिमात्रं चित्तमिति । अन्यत्रा-

६२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यो बुद्धधर्मसङ्घाञ्छरणं गच्छति, किमसो शरणं गच्छति ?
बुद्धसङ्घकरान् धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ३२ ॥
यो बुद्धं शरणं गच्छति, अशैक्षानसौ बुद्धकरकान् धर्मान्छरणं गच्छति; येषां
प्राधान्येन स आत्मभावो बुद्ध इत्युच्यते, येषां वा लाभेन सर्वविबोधसामर्थ्याद्
बुद्धो भवति । के पुनस्ते ? क्षयज्ञानादयः सपरिवाराः, रूपकायस्य पूर्वं
पश्चाच्चाविशेषात् । किं सर्वबुद्धान्, अथैकम् ? लक्षणतः सर्वबुद्धान्; मार्गस्या-
विलक्षणत्वात् ।
यः सङ्घं शरणं गच्छति, शैक्षाशैक्षानसौ सङ्घकरकान् धर्मान् गच्छति; येषां
लाभेनाष्टौ पुद्गलाः सङ्घीभवन्ति, अभेद्यत्वात् १। किं सर्वसङ्घान्, अथैकम् ?
लक्षणतः सर्वसङ्घान् मार्गस्याविलक्षत्वात् । यत्तु सूत्र उक्तम्- "योऽसौ २ भविष्य-
ज्ञानादिति । दातुर्गृहीतुश्च । तदानादरतस्तु शरणगमनैर्विना न स्यादुपासक
इति ॥ ३१ ॥
बुद्धकरकानिति । बुद्धप्रज्ञप्तिहेतून् । अत एवाह— येषां प्राधान्येन स आत्म-
भावो बुद्ध इत्युच्यते । अन्येऽपि हि गुणाः अप्राधान्येनाश्रिता भवन्ति । येषां वा
लाभेनेति । क्षयज्ञानादयः सपरिवारा इति । आदिशब्देनानुत्पादज्ञानमशैक्षी च
सम्यग्दृष्टिर्गृह्यते । सपरिवारग्रहणेनानास्रवाः पञ्चस्कन्धा गृह्यन्ते । रूपकायस्य
पूर्वं पश्चाच्चाविशेषादिति । किम् ? न रूपकायं शरणं गच्छतीति सम्बन्धः ।
यादृशो बोधिसत्त्वावस्थायां रूपकायस्तादृशः पश्चादपीति ।
लक्षणतः सर्वबुद्धानिति । न कण्ठोक्ति इत्यभिप्रायः । मार्गस्याविलक्षणत्वा-
दिति । लौकिकस्य मार्गस्य पुण्यज्ञानसम्भारलक्षणस्य लोकोत्तरस्य च क्षयज्ञाना-
दिलक्षणस्याविलक्षणत्वात् तुल्यत्वात्, नायुर्जात्यादिलक्षणानाम् । अतस्तुल्य-
लक्षणाः सर्वे बुद्धा इति ।
सङ्घीभवन्त्यभेद्यत्वादिति । सदेवकेनापि लोकेन मार्गं प्रत्यभेद्यत्वात् सङ्घी-
भवन्ति । समग्ररूपा भवन्तीति । लक्षणत इति । पूर्ववद्धारूध्यातव्यम् । योऽसौ
भविष्यतीति विस्तरः । यत्र भगवांस्त्रपुषभल्लिकौ वणिजावामन्त्रयते स्म— "एतं
युवां बुद्धं शरणं गच्छतं धर्मं च । योऽसौ भविष्यत्यनागतेऽध्वनि सङ्घो नाम,
तमपि शरणं गच्छतम्" इति । यदा सङ्घो नास्ति तदैवमुक्तमनागतमेव सङ्घम-
१. अभेदत्वात्—का० । २. योऽप्यसौ—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६२९
त्यनागतेऽध्वनि सङ्घो नाम, तमपि शरणं गच्छतम्" इति । तत् प्रत्यक्षभाविनः
संवरत्वस्योद्भावनार्थम् ।
यो धर्मं शरणं गच्छति, असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् ;
स्वपरसन्तानक्लेशानां दुःखस्य च शान्त्येकलक्षणत्वात् ।
यद्यशैक्षा धर्मा एव बुद्धः, कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादना-
दानन्तर्यं भवति ? आश्रयविपादनान् तेऽपि विपादिता भवन्तीति वैभाषिकाः ।
शास्त्रं तु नैवं वाचकम्—अशैक्षा धर्मा एव बुद्ध इति । किं तर्हि ? बुद्धकरका
इति । अत आश्रयस्य बुद्धत्वाप्रतिषेधाच्चोद्यमेवैतत् । अन्यथा हि लौकिक-
चित्तस्थो न बुद्धः स्यान्न सङ्घः, शीलमेव स¹ भिक्षुकरकं भिक्षुः स्यात् ?
धिकृत्य । तत् कथं सर्वसङ्घानसौ शरणं गच्छतीत्यनेन विरुध्यते । तत् प्रत्यक्ष-
भाव

६३० भाष्यस्फुटार्थोसहितेऽभिधर्मकोशे [ ४.३२-
यथा तु यो भिक्षून् पूजयति, भिक्षुकरकमसौ शीलं पूजयति । एवं यो
बुद्धं शरणं गच्छति अशैक्षानसौ बुद्धकरकान् धर्मान् शरणं गच्छति । यो बुद्धं
शरणं गच्छति, सोऽष्टादशावेणिकान् । बुद्धधर्मानित्यपरे ।
किंस्वभावानि शरणगमनानि ? वाग्विज्ञप्तिस्वभावानि । कः पुनः शरणार्थः ?
त्राणार्थः शरणार्थः; तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् ।
उक्तं हि भगवता—
“बहवः शरणं यान्ति पर्वतांश्च वनानि च ।
आरामान् चैत्यवृक्षांश्च¹ मनुष्या भयतर्जिताः² ॥
न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते ॥
यस्तु बुद्धं च धर्मं च सङ्घं च शरणं गतः ।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ।
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते ॥” ( ) इति ।
अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि ॥ ३२ ॥
एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिमाह—यथा तु यो भिक्षून्
पूजयतीति विस्तरः । यथा तु यो भिक्षुं पूजयति शीलमुखेन । भिक्षुकरकमसौ
शीलं पूजयति । न च पुनः शीलमेव भिक्षुः । एवं यो बुद्धं शरणं गच्छतीति ।
अशैक्षमुखेन । अशैक्षानसौ बुद्धकरकान् धर्मान् शरणं गच्छति । न पुनः स्वसान्ता-
निका अशैक्षा एव धर्मा बुद्धः । तस्माददोष एषः । यो बुद्धं शरणं गच्छति
अशैक्षानसौ बुद्धकरकान् धर्मान् शरणं गच्छतीति । सोऽष्टादशावेणिकानिति ।
तेषामसाधारणत्वादिति अभिप्रायः ।
वाग्विज्ञप्तिस्वभावानीति । ग्रहणकालमधिकृत्य । चैत्यवृक्षांश्चेति । चैत्य-
कल्पिता वृक्षाः चैत्यवृक्षाः । तानीति ।
अत एवेति । यस्मादेतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते, अतः सर्वसंवर-
समादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानित्यर्थः ॥ ३२ ॥
१ वृक्षांश्चैत्यांश्च—का० । २. ०वर्जिताः—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६३१
किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद् विरतिः शिक्षापदं व्यवस्थापितम् ,
उपासकस्य तु काममिथ्याचारात् ?
मिथ्याचारातिगर्ह्यत्वात् सौकर्यादक्रियाश्रितः ।
काममिथ्याचारो हि लोकेऽत्यन्तं गर्हितः; परेषां दारोपघाताद्, आपायिक-
त्वाच्च । न तथाऽब्रह्मचर्यम् । सुकरा च काममिथ्याचाराद् विरतिर्गृहानध्यावस-
ताम्, दुष्करा त्वब्रह्मचर्यादिति दुष्करं कर्तुं नोत्सहेरन् । आर्याश्चाकरणसंवरं
काममिथ्याचारात् प्रतिलभन्ते; जन्मान्तरेष्वप्यनध्याचरणात्, न त्वब्रह्मचर्यादित्यु-
पासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः
शैक्ष उपासकसंवराङ्गेऽसंवृत इति । अक्रियानियमो ह्यकरणसंवरः ।
य उपासकाः सन्तो भार्याः परिणयन्ति, किं तैस्ताभ्योऽपि संवरः
प्रतिलब्धः ? अथ न ? प्रतिलब्धः, मा भूत् प्रादेशिकसंवरलाभ इति ।
कथं संवरक्षोभो न भवति ? यस्मात्
यथाभ्युपगमं लाभः संवरस्य न सन्ततेः ॥ ३३ ॥
यथा ह्येषामभ्युपगमस्तथा संवरलाभः ।
कथं चैषामभ्युपगमः ? काममिथ्याचाराद्विरमामीति, न त्वत्र सन्ताने मया
ब्रह्मचर्यं न कर्तव्यमिति । अत एवैषां तदधिष्ठानात् काममिथ्याचाराङ्गादेव संवर-
लाभः, नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः ॥ ३३ ॥


आपायिकत्वाच्च । यस्माच्च काममिथ्याचार एकान्तेनापायिकः अपाय-
संवर्तनीयो न तथा ब्रह्मचर्यम् । अक्रियानियमो ह्यकरणसंवर इति अक्रियाया-
मकरणे नियम एकान्तता अक्रियानियमः । सोऽकरणसंवरः । अकरणलक्षणः
संवरः अकरणसंवरः । न समादानिकसंवर इत्यर्थः । स च सौत्रान्तिकनयेना-
वस्थाविशेष एव । वैभाषिकनयेन तु शीलागमविज्ञप्तिरिति ।
य उपासकाः सन्त इति विस्तरः । ये गृहीतपञ्चशिक्षापदाः सन्तो भार्याः
परिणयन्ति विवाहयन्ति । किं तैरूपासकैस्ताभ्योऽपि स्त्रीभ्यः संवरः प्रतिलब्धः ।
प्रतिलब्धपूर्वक इत्यर्थः । अथ न । प्रतिलब्ध इत्यधिकृतम् । वैभाषिक आह -
प्रतिलब्ध इति । मा भूत् प्रादेशिक इति सर्वांगम्यात् प्रतिविरतेः । काममिथ्या-
चारात् प्रतिविरमामीति अगम्य आचारात् प्रतिविरमामि, न त्वस्मात्
सन्तानागम्याचारात् प्रतिविरमामीत्यभिप्रायः । अत एवाह—न त्वत्र सन्ताने

६३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदम्, न पैशून्यादि-
विरतिः ? एभिरेव च त्रिभिः कारणैः—
मृषावादातिगह्र्यत्वात् सौकर्यादक्रियासितः ।
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति—नाहमेव-
महार्षमिति मृषावादस्य प्रसङ्गो भवति, अतो मृषावादाद् विरतिर्विधीयते । कथम् ?
कृतातिक्रमोऽप्यात्मनि माविष्कुर्यादिति ।
किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् ?
प्रतिक्षेपणसावद्यान्मद्यादेव,
किं कारणं मद्यादेव, नान्यस्मात् ?
अन्यगुप्तये ॥ ३४ ॥
मद्यं पिबतोऽन्यान्यप्यज्ञान्यगुप्तानि स्युः ।
कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते ? प्रकृतिसावद्यलक्षणाभावात् ।
प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते । शक्यं तु मद्यं प्रतीकारबुद्ध्यैव
पातुम्, यावन्न मदयेत् । क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति ।
न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति ।
प्रकृतिसावद्यं मद्यमिति विनयधराः । “कथं भदन्त ग्लान उपस्थातव्यः ?
प्रकृतिसावद्यमुपाले१ स्थापयित्वा” इत्युक्तं भगवता ।
शाक्येषु२ ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् ।
इति विस्तरः ॥ ३३ ॥
प्रतिक्षेपणसावद्यमिति। प्रतिषेधसावद्यं भवति। भगवत्प्रतिषिद्धं कर्माचरतः
पापं भवति; भगवच्छासनानादरात्। न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा
पिबतीत्याभिधार्मिकेणोक्ते प्रकृतिसावद्यं मद्यमिति विनयधराः साधयन्ति। प्रकृति-
सावद्यमुपाले स्थापयित्वेति। प्रकृतिसावद्येन कर्मणा न चिकित्स्यः, प्रज्ञप्तिसावद्येन
तु चिकित्सनीय इत्यभिप्रायः। शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्। अतो
१. ॰मुपालिन्—का० । २. शाक्येषु च—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६३३
इदं चोक्तम्—"मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न
पातव्यम्" ( ) इति । अतः प्रकृतिसावद्यमिति ज्ञायते ।
आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् । प्राणिवधादिवत् । कायदुश्चरित-
वचनाद्, दुर्गतिगमनाच्चेति ।
नेत्याभिधार्मिकाः । उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य
पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मदनीयमात्रानियमात् ।
अत एव च कुशाग्रपानप्रतिषेधः । आर्यैरनध्याचरणं हीमत्त्वात्,
गम्यते—प्रकृतिसावद्यं तदिति । यदि हि तत् प्रज्ञप्तिसावद्यं स्यात्, ग्लानशाक्यो-
पस्थानाय तदनुज्ञायेत् । न चानुज्ञायते, तेन तत् प्रकृतिसावद्यमिति ।
इदं चोक्तं मां शास्तारमुद्दिशद्भिः 'शाक्यमुनिर्नः शास्ता' इत्युपदिशद्भिः
कुशाग्रेणापि मद्यं न पातव्यमिति । प्रकृतिसावद्यं तदिति भगवता तत् प्रतिषि-
द्धम् । न तु मदनीयमित्येवेत्य; कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात् ।
आर्यैश्चेति विस्तरः। प्रकृतिसावद्यं मद्यं जन्मान्तरगतैरप्यार्यैरनध्याचारात् ।
प्राणिवधादिवदिति साधनम् । कायदुश्चरितवचनाच्चेत्यपरं साधनम् । 'प्रकृति-
सावद्यं मद्यं कायदुश्चरितवचनात् प्राणिवधादिवत्' । चतुर्विधं हि नन्दिक-
सूत्रादिषु कायदुश्चरितमुक्तम्—प्राणातिपातः, अदत्तादानम्, काममिथ्याचारः,
सुरामैरेयमद्यप्रमादस्थानमिति ।
उत्सर्गविहितस्यापीति विस्तरः । अनेन भगवद्वचनस्य पूर्वापरविरोधं परि-
हरन्ति । कथं भदन्तेति विस्तरेण मद्यपानस्य सामान्यवचनमुत्सर्गः, 'शाक्येषु
ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्' इत्यपवाद इति मद्यपानं ग्लानावस्थायामपि
नानुज्ञातमिति गम्यते । अपवादः पुनः प्रसङ्गपरिहारार्थम्, सकृत् पीतं हि मद्यं
व्यसनीभवेत् । उक्तं हि भगवता—त्रीणि स्थानानि प्रतिषेवमाणस्य नास्ति
तृप्तिर्वा, अलन्ता वा, पर्याप्तिर्वा—मद्यम्, अब्रह्मचर्यम्, स्त्यानमिद्धं चेति । प्रसङ्ग-
परिहारः कस्माद् ? इत्याह—मदनीयमात्रानियमात् । सैव हि मात्रा द्रव्यकाल-
प्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति ।
अत एव च कुशाग्रपानप्रतिषेध इत्यतिशयवचनम् । तदेवं न प्रकृतिसावद्य-
मिति मनसिकृत्वा भगवता तत्परिहरणीयमुक्तम् । किं तर्हि ? प्रसङ्गदोषादिति
दर्शितम् । आर्यैरनध्याचरणं हीमत्त्वादिति । पञ्च शैक्षाणि बलानि सूत्रे पठ्यन्ते ।
कतमानि पञ्च ? श्रद्धाबलम्, वीर्यबलम्, ह्रीबलम्, अपत्राप्यबलम्, प्रज्ञाबलं
चेति । अतो ह्रीमत्त्वान्न पिबन्ति, न तु प्रकृतिसावद्यत्वात् । यदि ह्रीमत्त्वात्तद-

६३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
तेन च स्मृतिनाशात् । अल्पकस्याप्यपानमनियमाद् विषवत् । दुश्चरितवचनं
प्रमादस्थानत्वात् ।
अत एवात्रैव प्रमादस्थानग्रहणम्; नान्येषु; तेषां प्रकृतिसावद्यत्वात् ।
अत्यासेवितेन दुर्गतिगमनाभिधानम् । तत्प्रसङ्गेनाभीक्ष्णनकुशलसन्ततिप्रवृत्तेरापायि-
कस्य कर्मण आक्षेपाद्, वृत्तिलाभाद्वा ।
सुरामैरेयमद्यप्रमादस्थानशब्दानां कोऽर्थः ? सुरा = अन्नासवः । मैरेयम् =
द्रवासवः । ते वा कदाचित्प्राप्तप्रच्युतमद्यभावे भवत इति, अतो मद्यग्रहणम् ।
नद्याचरणमज्ञातमुदकादिवत् कस्मान्न पिबन्ति ? इत्यत आह—तेन च स्मृति-
नाशादिति । मद्यं हि पिबतः कार्याकार्यस्मृतिर्नश्यतीति । यद्येवम्, अल्पकं तु
पिबन्तु यावत्या मात्रया स्मृतिर्न नश्यतीति ? अत आह—अल्पकस्याप्यपानम् ।
अनियमाद् विषवदिति । यथा कालप्रकृतिशक्तियोगादल्पमपि विषं कदाचिन्मार-
यति, एवं मद्यमपि मदयतीति । दुश्चरितवचनं प्रमादस्थानत्वादिति । मदेना-
कुशलापरिहारात्, कुशलाकरणाच्च ।
अत्र प्रमादस्थानग्रहणं नान्येष्विति । अत्रैव शिक्षापदे प्रमादस्थानग्रहणम्;
‘सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामि’
इति वचनात् । नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणम् ।
‘प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात् प्रतिविरमामि’
इति प्रमादस्थानं न पठ्यते, किं तर्हि ? ‘प्राणातिपातं प्रहाय प्राणातिपातात्
प्रतिविरमामि’ इति । एवमदत्तादानादि योज्यम् । कस्माद् ? इत्याह—तेषां
प्रकृतिसावद्यत्वात् । तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्य-
त्वात् । तदुक्तं भवति—प्रमादस्थानमेतदिति मद्यपानात् प्रतिविरन्तव्यम्, न तु
प्रकृतिसावद्यमेतदिति । अत्यासेवितेनेति विस्तरः। “सुरामैरेयमद्यपानप्रमादस्था-
नेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान्नरकेषूपपद्यते” इति नन्दिकसूत्रे
वचनात् । अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानम् । तत्प्रसङ्गेन मद्यपान-
प्रसङ्गेन अभीक्ष्णनकुशलसन्ततिप्रवृत्तेः । अकुशलानां या सन्ततिस्तस्याः
प्रवृत्तेः । आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपादावेधः । यतः वृत्ति-
लाभाद् वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः ।
यतः तस्मादाक्षेपाद् वृत्तिलाभाद् वा दुर्गतिगमनाभिधानमिति सम्बन्धनीयम् ।
अन्नासव इति । तण्डुलकृतः । द्रवासव इति । इक्षुरसादिकृतः । ते वेति
विस्तरः । सुरामैरेये कदाचित्प्राप्तमद्यभावे यदा नवे भवतः । कदाचित् प्रच्युत-
मद्यभावे; यदा अतिपुराणे भवतः । इत्यतो मद्यग्रहणम् । यदि मदनीयं ततो दोष

निर्देश: ] चतुर्थ कोशस्थानम् ६३५
पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् । प्रज्ञप्तिसावद्यस्याप्यादरेण
प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम्; सर्वप्रमादास्पदत्वादिति ॥ ३४ ॥
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः, किमेषां यत एको लभ्यते ततः
शेषौ ? नेत्याह । किं तर्हि ?
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
वर्तमानेभ्य एव स्कन्धायतनधातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः । उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः, प्रकृति-
प्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते; सत्त्वाधिष्ठान-
प्रवृत्तत्वात् । नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वात् ।
इत्यभिप्रायः । पूगफलकोद्रवादयोऽपीति । आदिशब्देन निष्पावादयो गृह्यन्ते ।
मद्यपानेनामद्यत्वेऽपि दोषः । सुरामैरेये न भवत इति सुरामैरेयस्वभावस्य
मद्यस्य पाने दोष इत्यर्थः । सर्वप्रमादास्पदत्वादिति । सर्वप्रमादानां सर्वस्मृतिप्रमो-
षाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानमास्पदं प्रतिष्ठेति प्रमादस्थानं
मद्यपानम् ॥ ३४ ॥
यत एको लभ्यते इति । यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश्च प्रातिमोक्ष-
संवरो लभ्यते । ततः शेषौ ध्यानानास्रवसंवरौ ।
मौलप्रयोगपृष्ठेभ्य इति । मौलप्रयोगपृष्ठेभ्योऽकुशलेभ्यः कर्मभ्यः मौल-
प्रयोगपृष्ठस्वभावाख्याणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या
विज्ञप्त्यविज्ञप्तयो लभ्यन्ते । सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधि-
ष्ठानलक्षणेभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च कर्मभ्यः प्राणातिपातवनस्पति-
भङ्गादिलक्षणेभ्यः । तदेतदुभयमप्युभयाधिष्ठानम्, भवति—प्रकृतिसावद्यमपि
सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं च, प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं
च । न पुनरेवं ग्रहीतव्यम्—प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम-
सत्त्वाधिष्ठानमिति । तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि,
प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं सहागारशय्यादि
च । प्रकृतिसावद्यमसत्त्वाधिष्ठानं जातरूपाद्यवहरणम्, प्रज्ञप्तिसावद्यम-
सत्त्वाधिष्ठानं वृक्षपत्रादिच्छेदो भिक्षो आहारादिषु च विनयोक्तः उपदेशः ।
सत्त्वाधिष्ठानप्रवृत्तत्वादिति । सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वादित्यभिप्रायः । वर्तमाना
एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीतानागताः, तेषां निरूपाख्यकल्पत्वात् ।
अतएवाह—नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वादिति । ननु चासत्त्वप्रज्ञप्त्य-
अभि० को० २ : १७