अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 650, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६३१
किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद् विरतिः शिक्षापदं व्यवस्थापितम् ,
उपासकस्य तु काममिथ्याचारात् ?
मिथ्याचारातिगर्ह्यत्वात् सौकर्यादक्रियाश्रितः ।
काममिथ्याचारो हि लोकेऽत्यन्तं गर्हितः; परेषां दारोपघाताद्, आपायिक-
त्वाच्च । न तथाऽब्रह्मचर्यम् । सुकरा च काममिथ्याचाराद् विरतिर्गृहानध्यावस-
ताम्, दुष्करा त्वब्रह्मचर्यादिति दुष्करं कर्तुं नोत्सहेरन् । आर्याश्चाकरणसंवरं
काममिथ्याचारात् प्रतिलभन्ते; जन्मान्तरेष्वप्यनध्याचरणात्, न त्वब्रह्मचर्यादित्यु-
पासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः
शैक्ष उपासकसंवराङ्गेऽसंवृत इति । अक्रियानियमो ह्यकरणसंवरः ।
य उपासकाः सन्तो भार्याः परिणयन्ति, किं तैस्ताभ्योऽपि संवरः
प्रतिलब्धः ? अथ न ? प्रतिलब्धः, मा भूत् प्रादेशिकसंवरलाभ इति ।
कथं संवरक्षोभो न भवति ? यस्मात्
यथाभ्युपगमं लाभः संवरस्य न सन्ततेः ॥ ३३ ॥
यथा ह्येषामभ्युपगमस्तथा संवरलाभः ।
कथं चैषामभ्युपगमः ? काममिथ्याचाराद्विरमामीति, न त्वत्र सन्ताने मया
ब्रह्मचर्यं न कर्तव्यमिति । अत एवैषां तदधिष्ठानात् काममिथ्याचाराङ्गादेव संवर-
लाभः, नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः ॥ ३३ ॥
आपायिकत्वाच्च । यस्माच्च काममिथ्याचार एकान्तेनापायिकः अपाय-
संवर्तनीयो न तथा ब्रह्मचर्यम् । अक्रियानियमो ह्यकरणसंवर इति अक्रियाया-
मकरणे नियम एकान्तता अक्रियानियमः । सोऽकरणसंवरः । अकरणलक्षणः
संवरः अकरणसंवरः । न समादानिकसंवर इत्यर्थः । स च सौत्रान्तिकनयेना-
वस्थाविशेष एव । वैभाषिकनयेन तु शीलागमविज्ञप्तिरिति ।
य उपासकाः सन्त इति विस्तरः । ये गृहीतपञ्चशिक्षापदाः सन्तो भार्याः
परिणयन्ति विवाहयन्ति । किं तैरूपासकैस्ताभ्योऽपि स्त्रीभ्यः संवरः प्रतिलब्धः ।
प्रतिलब्धपूर्वक इत्यर्थः । अथ न । प्रतिलब्ध इत्यधिकृतम् । वैभाषिक आह -
प्रतिलब्ध इति । मा भूत् प्रादेशिक इति सर्वांगम्यात् प्रतिविरतेः । काममिथ्या-
चारात् प्रतिविरमामीति अगम्य आचारात् प्रतिविरमामि, न त्वस्मात्
सन्तानागम्याचारात् प्रतिविरमामीत्यभिप्रायः । अत एवाह—न त्वत्र सन्ताने