अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 651, कुल 1258 में से
संदर्भ में पढ़ें६३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदम्, न पैशून्यादि-
विरतिः ? एभिरेव च त्रिभिः कारणैः—
मृषावादातिगह्र्यत्वात् सौकर्यादक्रियासितः ।
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति—नाहमेव-
महार्षमिति मृषावादस्य प्रसङ्गो भवति, अतो मृषावादाद् विरतिर्विधीयते । कथम् ?
कृतातिक्रमोऽप्यात्मनि माविष्कुर्यादिति ।
किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् ?
प्रतिक्षेपणसावद्यान्मद्यादेव,
किं कारणं मद्यादेव, नान्यस्मात् ?
अन्यगुप्तये ॥ ३४ ॥
मद्यं पिबतोऽन्यान्यप्यज्ञान्यगुप्तानि स्युः ।
कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते ? प्रकृतिसावद्यलक्षणाभावात् ।
प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते । शक्यं तु मद्यं प्रतीकारबुद्ध्यैव
पातुम्, यावन्न मदयेत् । क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति ।
न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति ।
प्रकृतिसावद्यं मद्यमिति विनयधराः । “कथं भदन्त ग्लान उपस्थातव्यः ?
प्रकृतिसावद्यमुपाले१ स्थापयित्वा” इत्युक्तं भगवता ।
शाक्येषु२ ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् ।
इति विस्तरः ॥ ३३ ॥
प्रतिक्षेपणसावद्यमिति। प्रतिषेधसावद्यं भवति। भगवत्प्रतिषिद्धं कर्माचरतः
पापं भवति; भगवच्छासनानादरात्। न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा
पिबतीत्याभिधार्मिकेणोक्ते प्रकृतिसावद्यं मद्यमिति विनयधराः साधयन्ति। प्रकृति-
सावद्यमुपाले स्थापयित्वेति। प्रकृतिसावद्येन कर्मणा न चिकित्स्यः, प्रज्ञप्तिसावद्येन
तु चिकित्सनीय इत्यभिप्रायः। शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्। अतो
१. ॰मुपालिन्—का० । २. शाक्येषु च—का० ।