अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 635, कुल 1258 में से
संदर्भ में पढ़ें६१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् ॥ २२ ॥
येन प्रसादवेगेनासंवरस्थस्य कुशलाविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां
कुर्वतः, येन च क्लेशवेगेन संवरस्थस्याकुशलाविज्ञप्तिरुत्पद्यते वधबन्धनताडना-
दिक्रियां कुर्वतः; तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती। स आद्ये क्षणे वर्तमान-
यैवाविज्ञप्त्या समन्वगतो भवति। अन्येष्वतीताऽपि ॥ २२ ॥
अविज्ञप्त्यधिकारः समाप्तः ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
सर्वे संवरासंवरमध्यस्था यावद् विज्ञप्तिं कुर्वन्ति तावत् तया वर्तमानया
समन्वागताः।
अतीतया क्षणादूर्ध्वमात्यागात्,
प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति।
नास्त्यजातया ॥ २३ ॥
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः ॥ २३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्
समन्वागतः। दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति।
किंकृतं तस्या दौर्बल्यम् ? चित्तकृतम्।
तौ यावदनुवर्तेते इति। प्रसादक्लेशवेगौ। अन्येष्वतीतायापीति। द्वितीय-
क्षणादिषु अतीतया ॥ २२ ॥
"क्षणादूर्ध्वमात्यागाद्" इति। यो यस्यास्त्यागस्तस्मादात्यागात् तयातीतया
विज्ञप्त्या समन्वागतः। कथम् ? संवरलक्षणायास्तावद् विज्ञप्तेस्त्यागः शिक्षानि-
क्षेपादिभिः। तस्मादात्यागादनया अतीतया विज्ञप्त्या समन्वागतः। असंवर-
लक्षणायाः संवरसमादानादिभिस्त्यागः, तस्मादात्यागादनया समन्वागतः।
नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस्त्यागः, तस्मादात्या-
गादनया समन्वागत इति। यो हि संवराद्यविज्ञप्तिमन्वागतः सोऽवश्यं मौल-
कर्मपथस्वभावया क्षणादूर्ध्वमतीतयाविज्ञप्त्या समन्वागतः।
अनागतया तु विज्ञप्त्या न कश्चित् समन्वागत इति। चित्ताननुपरिवर्त-
नीयत्वात् ॥ २३ ॥