अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 647, कुल 1258 में से
संदर्भ में पढ़ें६२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यो बुद्धधर्मसङ्घाञ्छरणं गच्छति, किमसो शरणं गच्छति ?
बुद्धसङ्घकरान् धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ३२ ॥
यो बुद्धं शरणं गच्छति, अशैक्षानसौ बुद्धकरकान् धर्मान्छरणं गच्छति; येषां
प्राधान्येन स आत्मभावो बुद्ध इत्युच्यते, येषां वा लाभेन सर्वविबोधसामर्थ्याद्
बुद्धो भवति । के पुनस्ते ? क्षयज्ञानादयः सपरिवाराः, रूपकायस्य पूर्वं
पश्चाच्चाविशेषात् । किं सर्वबुद्धान्, अथैकम् ? लक्षणतः सर्वबुद्धान्; मार्गस्या-
विलक्षणत्वात् ।
यः सङ्घं शरणं गच्छति, शैक्षाशैक्षानसौ सङ्घकरकान् धर्मान् गच्छति; येषां
लाभेनाष्टौ पुद्गलाः सङ्घीभवन्ति, अभेद्यत्वात् १। किं सर्वसङ्घान्, अथैकम् ?
लक्षणतः सर्वसङ्घान् मार्गस्याविलक्षत्वात् । यत्तु सूत्र उक्तम्- "योऽसौ २ भविष्य-
ज्ञानादिति । दातुर्गृहीतुश्च । तदानादरतस्तु शरणगमनैर्विना न स्यादुपासक
इति ॥ ३१ ॥
बुद्धकरकानिति । बुद्धप्रज्ञप्तिहेतून् । अत एवाह— येषां प्राधान्येन स आत्म-
भावो बुद्ध इत्युच्यते । अन्येऽपि हि गुणाः अप्राधान्येनाश्रिता भवन्ति । येषां वा
लाभेनेति । क्षयज्ञानादयः सपरिवारा इति । आदिशब्देनानुत्पादज्ञानमशैक्षी च
सम्यग्दृष्टिर्गृह्यते । सपरिवारग्रहणेनानास्रवाः पञ्चस्कन्धा गृह्यन्ते । रूपकायस्य
पूर्वं पश्चाच्चाविशेषादिति । किम् ? न रूपकायं शरणं गच्छतीति सम्बन्धः ।
यादृशो बोधिसत्त्वावस्थायां रूपकायस्तादृशः पश्चादपीति ।
लक्षणतः सर्वबुद्धानिति । न कण्ठोक्ति इत्यभिप्रायः । मार्गस्याविलक्षणत्वा-
दिति । लौकिकस्य मार्गस्य पुण्यज्ञानसम्भारलक्षणस्य लोकोत्तरस्य च क्षयज्ञाना-
दिलक्षणस्याविलक्षणत्वात् तुल्यत्वात्, नायुर्जात्यादिलक्षणानाम् । अतस्तुल्य-
लक्षणाः सर्वे बुद्धा इति ।
सङ्घीभवन्त्यभेद्यत्वादिति । सदेवकेनापि लोकेन मार्गं प्रत्यभेद्यत्वात् सङ्घी-
भवन्ति । समग्ररूपा भवन्तीति । लक्षणत इति । पूर्ववद्धारूध्यातव्यम् । योऽसौ
भविष्यतीति विस्तरः । यत्र भगवांस्त्रपुषभल्लिकौ वणिजावामन्त्रयते स्म— "एतं
युवां बुद्धं शरणं गच्छतं धर्मं च । योऽसौ भविष्यत्यनागतेऽध्वनि सङ्घो नाम,
तमपि शरणं गच्छतम्" इति । यदा सङ्घो नास्ति तदैवमुक्तमनागतमेव सङ्घम-
१. अभेदत्वात्—का० । २. योऽप्यसौ—का० ।