सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 642, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 642

निर्देशः ] चतुर्थं कोशस्थानम् ६२३
आगतत्रिपरिक्षयाच्च ग्रहीतव्यः, यावत् पुनः सूर्योदयात् ।
अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यात्, न तूपवाससंवरः । एवं च
कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।
अर्हतां समीपे वसन्त्यनेनेति उपवासः; तेषामनुशिक्षणात् ।
यावज्जीविकसंवरसमीपे वसन्त्यनेनेत्यपरे ।
अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा ।
“पोषं दधाति एनसः कुशलस्य यस्मा-
दुक्तस्ततो भगवता किल पोषधोऽयम्” । ( ) इति ॥ २८ ॥
किमर्थं पुनरष्टाङ्गान्युपादीयन्ते ? यस्मात्
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
चत्वार्येकं तथा त्रीणि,
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः; प्रकृतिसावद्यविरतित्वात् ।
एकमप्रमादाङ्गं मद्यपानाद् विरतिः । समाप्तशीलोऽपि मद्यपः प्रमाद्येत ।
त्रीणि व्रताङ्गानि यावदकालभोजनाद् विरतिः; संवेगानुगुणत्वात् ॥
किं पुनरेभिरप्रमादाङ्गव्रताङ्गैरनुपात्तैः स्यात् ?
स्मृतिनाशो मदश्च तैः ॥ २९ ॥
मद्यं हि पिबतः कार्याकार्यस्मृतिरेव नश्येत् । उच्चशयनमहाशयननृत्य-
गीतादिकं प्रतिसेवमानस्य मदः सम्भवेत् । मत्तस्य च दौःशील्यमदूरं भवेत् ।
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।
तदभावादुभयं न स्यादिति ।
केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते । तस्य
शेषाण्यष्टाङ्गानीति । नृत्यगीतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।
एवं तु सति सूत्रपाठो न युज्येत । अकालभोजनाद् विरतिमुक्त्वा
“अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे, अनुविधीये” इति ।
शीलं पाराजिकाभावः सङ्घावशेषाद्यभावः । व्रतमिति नियमः । तदभावा-
दिति । अकालभोजनात् । उभयं न स्यादिति । स्मृतिः, संवेगश्च ।