अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 652, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६३३
इदं चोक्तम्—"मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न
पातव्यम्" ( ) इति । अतः प्रकृतिसावद्यमिति ज्ञायते ।
आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् । प्राणिवधादिवत् । कायदुश्चरित-
वचनाद्, दुर्गतिगमनाच्चेति ।
नेत्याभिधार्मिकाः । उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य
पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मदनीयमात्रानियमात् ।
अत एव च कुशाग्रपानप्रतिषेधः । आर्यैरनध्याचरणं हीमत्त्वात्,
गम्यते—प्रकृतिसावद्यं तदिति । यदि हि तत् प्रज्ञप्तिसावद्यं स्यात्, ग्लानशाक्यो-
पस्थानाय तदनुज्ञायेत् । न चानुज्ञायते, तेन तत् प्रकृतिसावद्यमिति ।
इदं चोक्तं मां शास्तारमुद्दिशद्भिः 'शाक्यमुनिर्नः शास्ता' इत्युपदिशद्भिः
कुशाग्रेणापि मद्यं न पातव्यमिति । प्रकृतिसावद्यं तदिति भगवता तत् प्रतिषि-
द्धम् । न तु मदनीयमित्येवेत्य; कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात् ।
आर्यैश्चेति विस्तरः। प्रकृतिसावद्यं मद्यं जन्मान्तरगतैरप्यार्यैरनध्याचारात् ।
प्राणिवधादिवदिति साधनम् । कायदुश्चरितवचनाच्चेत्यपरं साधनम् । 'प्रकृति-
सावद्यं मद्यं कायदुश्चरितवचनात् प्राणिवधादिवत्' । चतुर्विधं हि नन्दिक-
सूत्रादिषु कायदुश्चरितमुक्तम्—प्राणातिपातः, अदत्तादानम्, काममिथ्याचारः,
सुरामैरेयमद्यप्रमादस्थानमिति ।
उत्सर्गविहितस्यापीति विस्तरः । अनेन भगवद्वचनस्य पूर्वापरविरोधं परि-
हरन्ति । कथं भदन्तेति विस्तरेण मद्यपानस्य सामान्यवचनमुत्सर्गः, 'शाक्येषु
ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्' इत्यपवाद इति मद्यपानं ग्लानावस्थायामपि
नानुज्ञातमिति गम्यते । अपवादः पुनः प्रसङ्गपरिहारार्थम्, सकृत् पीतं हि मद्यं
व्यसनीभवेत् । उक्तं हि भगवता—त्रीणि स्थानानि प्रतिषेवमाणस्य नास्ति
तृप्तिर्वा, अलन्ता वा, पर्याप्तिर्वा—मद्यम्, अब्रह्मचर्यम्, स्त्यानमिद्धं चेति । प्रसङ्ग-
परिहारः कस्माद् ? इत्याह—मदनीयमात्रानियमात् । सैव हि मात्रा द्रव्यकाल-
प्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति ।
अत एव च कुशाग्रपानप्रतिषेध इत्यतिशयवचनम् । तदेवं न प्रकृतिसावद्य-
मिति मनसिकृत्वा भगवता तत्परिहरणीयमुक्तम् । किं तर्हि ? प्रसङ्गदोषादिति
दर्शितम् । आर्यैरनध्याचरणं हीमत्त्वादिति । पञ्च शैक्षाणि बलानि सूत्रे पठ्यन्ते ।
कतमानि पञ्च ? श्रद्धाबलम्, वीर्यबलम्, ह्रीबलम्, अपत्राप्यबलम्, प्रज्ञाबलं
चेति । अतो ह्रीमत्त्वान्न पिबन्ति, न तु प्रकृतिसावद्यत्वात् । यदि ह्रीमत्त्वात्तद-