सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 653, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 653

६३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
तेन च स्मृतिनाशात् । अल्पकस्याप्यपानमनियमाद् विषवत् । दुश्चरितवचनं
प्रमादस्थानत्वात् ।
अत एवात्रैव प्रमादस्थानग्रहणम्; नान्येषु; तेषां प्रकृतिसावद्यत्वात् ।
अत्यासेवितेन दुर्गतिगमनाभिधानम् । तत्प्रसङ्गेनाभीक्ष्णनकुशलसन्ततिप्रवृत्तेरापायि-
कस्य कर्मण आक्षेपाद्, वृत्तिलाभाद्वा ।
सुरामैरेयमद्यप्रमादस्थानशब्दानां कोऽर्थः ? सुरा = अन्नासवः । मैरेयम् =
द्रवासवः । ते वा कदाचित्प्राप्तप्रच्युतमद्यभावे भवत इति, अतो मद्यग्रहणम् ।
नद्याचरणमज्ञातमुदकादिवत् कस्मान्न पिबन्ति ? इत्यत आह—तेन च स्मृति-
नाशादिति । मद्यं हि पिबतः कार्याकार्यस्मृतिर्नश्यतीति । यद्येवम्, अल्पकं तु
पिबन्तु यावत्या मात्रया स्मृतिर्न नश्यतीति ? अत आह—अल्पकस्याप्यपानम् ।
अनियमाद् विषवदिति । यथा कालप्रकृतिशक्तियोगादल्पमपि विषं कदाचिन्मार-
यति, एवं मद्यमपि मदयतीति । दुश्चरितवचनं प्रमादस्थानत्वादिति । मदेना-
कुशलापरिहारात्, कुशलाकरणाच्च ।
अत्र प्रमादस्थानग्रहणं नान्येष्विति । अत्रैव शिक्षापदे प्रमादस्थानग्रहणम्;
‘सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामि’
इति वचनात् । नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणम् ।
‘प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात् प्रतिविरमामि’
इति प्रमादस्थानं न पठ्यते, किं तर्हि ? ‘प्राणातिपातं प्रहाय प्राणातिपातात्
प्रतिविरमामि’ इति । एवमदत्तादानादि योज्यम् । कस्माद् ? इत्याह—तेषां
प्रकृतिसावद्यत्वात् । तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्य-
त्वात् । तदुक्तं भवति—प्रमादस्थानमेतदिति मद्यपानात् प्रतिविरन्तव्यम्, न तु
प्रकृतिसावद्यमेतदिति । अत्यासेवितेनेति विस्तरः। “सुरामैरेयमद्यपानप्रमादस्था-
नेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान्नरकेषूपपद्यते” इति नन्दिकसूत्रे
वचनात् । अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानम् । तत्प्रसङ्गेन मद्यपान-
प्रसङ्गेन अभीक्ष्णनकुशलसन्ततिप्रवृत्तेः । अकुशलानां या सन्ततिस्तस्याः
प्रवृत्तेः । आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपादावेधः । यतः वृत्ति-
लाभाद् वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः ।
यतः तस्मादाक्षेपाद् वृत्तिलाभाद् वा दुर्गतिगमनाभिधानमिति सम्बन्धनीयम् ।
अन्नासव इति । तण्डुलकृतः । द्रवासव इति । इक्षुरसादिकृतः । ते वेति
विस्तरः । सुरामैरेये कदाचित्प्राप्तमद्यभावे यदा नवे भवतः । कदाचित् प्रच्युत-
मद्यभावे; यदा अतिपुराणे भवतः । इत्यतो मद्यग्रहणम् । यदि मदनीयं ततो दोष