सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

व्यवहारोध्यायः १६५
एवं पूगनिणीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न
भवति । कुलनिणीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् ।
पूगनिर्णीते नृपाधिकृतगमनं भवतीति । नारदेन पुनर्नृपाधिकृतैर्निर्णीतेऽपि व्यव-
हारे नृपगमनं भवतीत्युक्तम्—'कुलानि श्रेणयश्चैव गणाश्चाधिकृता १नृपाः । प्रतिष्ठा
व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति । तत्र च नृपगमने सोत्तरसभ्येन राज्ञा
पूर्वैः सभ्यैः सपणव्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ
दण्ड्यः । अथासौ जयति तदाऽधिकृताः सभ्या दण्ड्याः ॥ ३० ॥
भाषा—मनुष्यों का व्यवहार देखने के कार्य में राजा द्वारा नियुक्त
व्यक्ति, पूगा ( समूह ), एक कार्य करने वालों की बिरादरी और जाति तथा
संबन्धियों का समूह ( कुल ) को क्रमशः श्रेष्ठ समझना चाहिए ॥ ३० ॥
दुर्बलैर्व्यवहारदर्शिभिर्दृष्टो व्यवहारः परावर्तते, प्रबलदृष्टस्तु न निवर्तत
इत्युक्तम् ; इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह—
बलोपधिविनिवृत्तान्व्यवहारान्निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥ ३१ ॥
बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान्निष्पन्नान्व्यवहारान्वि-
वर्तयेत् । तथा स्त्रीभिः, नक्तं रात्रावस्त्रीभिरपि, अन्तरागारे गृहाभ्यन्तरे, बहिर्ग्रामा-
दिभ्यः, शत्रुभिश्च कृतान् व्यवहारान् 'निवर्तयेत्' इति संबन्धः ॥ ३१ ॥
भाषा—बलपूर्वक एवं भय आदि द्वारा निष्पन्न व्यवहारों एवं स्त्रियों के
साथ, रात्रि को, घर के भीतर, ग्राम आदि के बाहर और शत्रुओं द्वारा किये
गये व्यवहारों पर पुनः विचार करे ॥ ३१ ॥
असिद्धव्यवहारिण आह—
मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ ३२ ॥
अपि च, मत्तो मदनीयद्रव्येन, उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्म-
संनिपातग्रहसंभवेनोपसृष्टः, आर्तौ व्याध्यादिना, व्यसनमिष्टवियोगाऽनिष्टप्राप्ति-
जनितं दुःखं, तद्वान् व्यसनी; बालो व्यवहारायोग्यः, भीतोऽरातिभ्यः, 'आदि'
ग्रहणात्पुरराष्ट्रादिविरुद्धः ।—'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः ।
अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति मनुस्मरणात् । एतैर्यांजितः कृतो
१. नृपैः। २. सोत्तरेति उत्तरश्चासौ सभ्यश्चेति तत्सहितेन-स्वोत्तर ।
३. बलोपधि । तत्रोपधिः कैतवं ४. उपधिना भयेन । ५. असंबन्द्धकृतः ।
६. वियोगोऽनिष्टप्राप्तिस्तज्जनितं ।
१३ या०

१६६ याज्ञवल्क्यस्मृतिः

व्यवहारो न सिद्धयति । अनियुक्तकासंबद्धकृतोऽपि व्यवहारो न सिद्धयतीति
संबन्धः । यत्तु स्मरणम्—'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ।
विरोधे तु मिथस्तेषां व्यवहारो न सिद्धयति ॥' इति, तदपि गुरुशिष्यादीना-
मात्यन्तिकव्यवहारप्रतिषेधपरं न भवति; तेषामपि कथंचिद्व्यवहारस्येष्टत्वात् ।
तथा हि—'शिष्यादिशिष्टिरवधेन शक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यां, अन्येन
घ्नन् राज्ञा शास्यः' ( २।४२।४ ) इति गौतमस्मरणात् । 'नोत्तमाङ्गे कथंचन'
( ८।३०० ) इति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे
ताडयति, तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति,
तदा भवत्येव व्यवहारपदम् ॥ तथा—'भूर्या पितामहोपात्ता' ( व्य० १२१ )
इत्यादिवचनात्पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता
विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति तदा पुत्रो यदि धर्माधिकरणं
प्रवेशयति तदा पितापुत्रयोरपि भवत्येव व्यवहारः ॥ यथा—'दुर्भिक्षे धर्मकार्ये च
व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥' इति
स्मरणात्, दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्त्ता व्ययीकृत्य विद्यमानधनोऽपि
याच्यमानो न ददाति तदा दम्पत्योरपीष्यत एव व्यवहारः । तथा भक्तदासस्य
स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि, गर्भदासादीनधिकृत्य—
'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं
लभेत च ॥' इति नारदोक्तत्वात्, तन्मोचने पुत्रभागादाने च स्वामिना सह
व्यवहारः केन वार्यते ? तस्मादृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार
इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा सभ्यैनेति 'गुरोः शिष्ये' इत्यादि-
श्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनामप्युक्तरीत्या प्रवर्तनीयो
व्यवहारः । यदपि—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो
भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनम्, तत्रैकस्यापि—'गणद्रव्यं
हरेद्यस्तु संविदं लङ्घयेच्च यः' । ( व्य० १८७ ) तथा—'एकं घ्नतां बहूनां च'
( व्य० २२१ ) इत्यादिरमरणादेकार्थैर्बहुभिः सार्धं व्यवहार इष्यत एवेति
भिन्नार्थैर्बहुभिरेकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणामित्यपि
गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद्व्यवहारो भवत्येवेति, तदन्यासां कुलस्त्रीणां
पतिषु जीवत्सु तत्पारतन्त्र्यादनादेयो व्यवहार इति व्याख्येयम् । 'प्रेष्यजनस्य
स्वामिपारतन्त्र्यात्स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति
व्याख्येयम् ॥ ३२ ॥

१. धिकारिणं प्रविशति । २. व्यवहारान् । व्यवहारपदं । ३. जीवत्सु
सरसु । ४. योजनीयम् ।

·व्यवहाराध्यायः १८०
भाषा—मत्त (नशे में बुत्त), उन्मत्त (पागल), रोगी, प्रियजन की
मृत्यु आदि से विपत्तिग्रस्त, बालक, त्रस्त (शत्रु से भयातुर) व्यक्तियों के
ऊपर चलाया गया व्यवहार एवं असंबद्ध व्यक्ति द्वारा चलाया गया व्यवहार
सिद्ध या विचारणीय नहीं होता ॥ ३२ ॥
परावस्थ्यं व्यवहारमुक्त्वा इदानीं परावस्थ्यं द्रव्यमाह—
प्रणष्टाधि गतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ ३३ ॥
प्रणष्टं हिरण्यादि शौल्किकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा
धनिने दातव्यम् । यदि धनी रूपसंज्ञादिभिर्लिङ्गैर्भावयति । यदि न भावयति
तदा तत्समं दण्ड्यः; असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वस्वे
प्राप्ते तत्परावृत्तिरनेनोक्ता। अत्र च कालावधिं वक्ष्यति (व्य० १७३)—'शौल्किकैः
स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥' इति ।
मनुना पुनः संवत्सरत्रयमवधित्वेन निर्दिष्टम् (८।३०)-'प्रणष्टस्वामिकं रिक्थं राजा
त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥' इति । तत्र
वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा
कृत्स्नमेव दद्यात् । यदा पुनः संवत्सरादूर्ध्वमागच्छति, तदा किंचिदङ्गं रक्षण-
मूल्यं गृहीत्वा शेषं स्वामिने दद्यात् , यथाह—'आददीताथ षड्भागं प्रणष्टाधि-
गतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥' (मनु० ८।३०) इति ।
तत्र प्रथमे वर्षे कृत्स्नमेव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु
षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगन्त्रे दातव्यः ।
स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् ।
तथाह गौतमः ( १०।३६-३८)—'प्रणष्टस्वामिकमधिगम्य संवत्सरं राज्ञा
रक्ष्यम् । ऊर्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इत्यत्र संवत्सरमित्येक-
वचनमविवक्षितम् । 'राजा त्र्यब्दं निधापयेत्' इति स्मरणात् 'हरेत परतो
नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूर्ध्वं व्ययीकरणाम्यनुज्ञानपरम् । ततः
पश्चागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्समं
दद्यात् । एतच्च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति (व्य० १७४)—
'पणामेकशफे दद्यात्' इत्यादिना ॥ ३३ ॥
भाषा—किसी की खोई हुई वस्तु पाकर राजा उस धन के अधिकारी को
वह वस्तु (धन) देवे और यदि वह चिह्नों द्वारा उसे (अपना) प्रमाणित
न कर सके तो उसके समान दण्ड का भागी होता है ॥ ३३ ॥
१. रूपकसंख्या । २. षड्भागं । ३. चतुर्थो भागः शेषं राज्ञ इति ।

१६८ याज्ञवल्क्यस्मृतिः

रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना
भूमौ चिरनिखातस्य सुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह—
राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ३४ ॥
इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३५ ॥
उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् ।
ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव
गृह्णीयात्, यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यति-
रिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं
निधिं स्वयमाहरेत् । यथाह वसिष्ठः—'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्ध-
रेत्, अधिगन्त्रे षष्ठमंशं, प्रदद्यात्' इति । गौतमोऽपि ( १०।३३।५ )—'निध्य-
धिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणोऽप्याख्याता षष्ठमंशं
लभेतेत्येके' इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च
राज्ञेऽप्यनिवेदितविज्ञातः, यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च
राज्ञा स सर्वं निधिं दाप्यो दण्डं च शक्त्यपेक्षया । अथ निधेरपि स्वाम्यागत्य
रूपकसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं
वाऽंशं स्वयमाहरेत् । यथाह मनुः ( ८।३५ )—'ममायमिति यो ब्रूयान्निधिं
सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥' इति । अंशविकल्प-
स्तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ ३४-३५ ॥
भाषा—राजा (इस प्रकार का) धन लेकर उसका आधा ब्राह्मणों को
दान कर दे । विद्वान् ब्राह्मण यदि ऐसी निधि पावे तो सम्पूर्ण स्वीकार करे,
क्योंकि वह सम्पूर्ण जगत् का स्वामी होता है । (राजा, विद्वान् ब्राह्मण के
अतिरिक्त) किसी और से धन लेवे तो उसका छठा अंश लाने वाले को
देकर शेष राजा स्वयं ले लेवे । न बताई गई निधि ज्ञात हो जाय तो उसे
सम्पूर्ण निधि दण्ड के रूप में दिलवाये ॥ ३४-३५ ॥
चौरहृतं प्रत्याह—
देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ ३६ ॥
चौरैर्हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत्
द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं
१. दद्याद्द्विजेभ्योऽर्धं । २. राजधनं न ब्राह्मणस्य । ३. रूपकसंख्याविधिभिः ।

व्यवहाराध्यायः १६६
द्रव्यं तस्य किल्बिषमाप्नोति । तस्य चौरस्य च । यथाह मनुः ( ८।४० ) -
'दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति
किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुपभुङ्क्ते तदा चौरस्य
किल्बिषमाप्नोति । अथ चौरहृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौर-
हृताहरणाय यतमानोऽपि न शक्नुयादाहर्तुं तदा तावद्धनं स्वकोशाद्दद्यात् ।
यथाह गौतमः - (१०।४६) 'चौरहृतमवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यात्'
इति । कृष्णद्वैपायनोऽपि - 'प्रत्याहर्तुं न शक्तस्तु धनं चौरैर्हतं यदि । स्वकोशा-
तद्धि देयं स्यादशक्तेन महीक्षिता ॥' इति ॥ ३६ ॥
भाषा - चोरों से छीने गये धन को राजा अपने देश के निवासी को
( जिसका वह धन हो ) देवे । यदि उसका धन नहीं देता तो उस धन के
अधिकारी के सभी पाप उसे लग जाते हैं ॥ ३६ ॥
इत्यसाधारणव्यवहारमातृकाप्रकरणम् ।
अथ ऋणादानप्रकरणम् ३
साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहारा-
पदानामाद्यमृणादानपदं दर्शयति - 'अशीतिभागो वृद्धिः स्यात्' इत्यादिना,
'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' ( व्य० ६४ ) इत्येवमन्तेन । तच्च
ऋणादानं सप्तविधम् - ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणादेयं, अस्मिन्
समये देयं, अनेन प्रकारेण देयम् , इत्यधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः,
आदानविधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम् (१।१।४) - 'ऋणं
देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥'
इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम् -
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥ ३७ ॥
मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदाधीयते, आधिरिति यावत् ।
बन्धकेन सह वर्तत इति सबन्धकः प्रयोगः, तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य
द्रव्यस्य अशीतितमो भागो वृद्धिर्धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे
वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुष्पञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमर्णे
द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकम् । मासि मासीत्येव द्वौ
वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः, अस्मिन् शते वृद्धिर्दीयते इति
१. तदुपभुञ्जानः । २. व्यवहाराणामाद्य । ३. धर्मश्च ऋणादान ।

२०० याज्ञवल्क्यस्मृतिः
द्वित्रिचतुष्पञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (पा. ५।१।२२)
इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते' (पा. ५।१।४७) इति कन् ।
(वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका
कार्यकर्मणा) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दि-
वसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन
(१।१०२, ४) - 'कायिका कालिका चैव कारिता च तथा परा । चक्रवृद्धिश्च
शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥' इत्युक्त्वोक्तम् - 'कायाविरोधिनी शश्वत्पणपादा-
दिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा
कारिता याऽधमर्णेन स्वयं कृता । वृद्धेरपि पुनर्द्धिश्चक्रवृद्धिरुदाहृता ॥' (१।
१०३-४) इति ॥ ३७ ॥
भाषा-बन्धक रखे हुए धन पर उसका अस्सीवाँ भाग प्रत्येक मास में
ब्याज होता है। अन्यथा (बन्धक न होने पर) वर्ण के अनुसार (ब्राह्मण
आदि से क्रमशः) दो, तीन, चार और पाँच प्रतिशत ब्याज लेना
चाहिए ॥ ३७ ॥
ग्रहीतृविशेषेण वृद्धेः प्रकारान्तरमाह-
कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।
कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिक-
लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये
च समुद्रगास्ते विंशकं शतम् । मासि मासीत्येव । एतदुक्तं भवति-कान्तार-
गेभ्यो दशकं शतं, सामुद्रेभ्यश्च विंशकं शतं, उत्तमर्ण आदद्यात् ; मूलविनाश-
स्यापि शङ्कितत्वादिति ॥
इदानीं कारितां वृद्धिमाह -
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥
सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्यु-
पगतां वृद्धिं सर्वासु जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति; यथाह नारदः
(१।१०८)-'न वृद्धिः प्रीतिदत्तानां स्यादानाकारिता क्वचित् । अनाकारित-
मप्यूर्ध्वं वत्सराधद्विर्द्धते ॥' इति । यस्तु याचितकं गृहीत्वा; देशान्तरं गतस्तं
प्रति कात्यायनेनोक्तम् - 'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्वं
संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽ-
प्यदत्त्वा देशान्तरं व्रजति तं प्रति तेनैवोक्तम्-कृतोद्धारमदत्त्वा यो याचितस्तु
१' पुस्तकेऽधिकोऽयं पाठः। २ नैवाधिकं । ३ याति ।

दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यः पुनः
स्वदेशे स्थित एव याचितो याचितकं न ददादि तं याचितकालादार-
भ्योऽकारितां वृद्धिं दापयेद्राजा । यथाह—'स्वदेशेऽपि स्थितो यस्तु न दद्याद्या-
चितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥' इति । अना-
कारितवृद्धेरपवादो नारदेनोक्तः–'पण्यमूल्यं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥' इति । अविवक्षिता अनाकारिता
इति ॥ ३८ ॥
भाषा—(अधिक लाभ के लिये ऋण लेकर) गहन वन में जाने वाले
से दश प्रतिशत और समुद्र की यात्रा करने वाले से बीस प्रतिशत वृद्धि
(ब्याज) लेनी चाहिए । अथवा सभी जातियों के लिये जो जितनी वृद्धि
देना स्वीकार करे उतनी देवे ॥ ३८ ॥
अधुना द्रव्यविशेषेण वृद्धिविशेषमाह—
सन्ततिस्तु पशुस्त्रीणां—
पशुस्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां दोहणासमर्थस्य तत्पुष्टिसन्त-
तिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ॥
अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य
द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह—
—रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ ३९ ॥
रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्धया
वर्धमानस्य अष्टगुणा वृद्धिः परा, नातः परं वर्धते । तथा वस्त्रधान्यहिरण्यानां
यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा च वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्य-
मुक्तम् ( २।४४।७ ) 'द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याताः
पुष्पमूलफलानि च । तुलाधृतं मष्टगुणम्' इति । मनुना तु धान्यस्य पुष्पमूल-
फलादीनां च पञ्चगुणत्वमुक्तम्—'धान्ये शदे लवे बाह्ये नातिक्रामति पञ्चताम्'
इति । शदः क्षेत्रे फलं पुष्पमूलफलादि, लवो मेषोर्णाचमरीकेशादिः, बाह्यो
बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति ।
तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृ-
त्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव


१. याचन । २. रभ्य वृद्धि । ३. विशेषे । ४. तुलधृतं त्रितय ।
तृतीयमष्ट । ५. वृत्तफलं ।

२८२ याज्ञवल्क्यस्मृतिः

वा, पुरुषे अनेकशः रेकसेकाभ्यां प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य
पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणे-
ऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाहितवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत
एव । यथाह मनुः (८।१५१)—'कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदा-
हिता ।' इति । सकृदाहृतेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं, तस्य
वृद्धिः कुसीदवृद्धिः, सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्र-
युक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमभ्येति । सकृदाहृतेति
पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृता द्वैगुण्य-
मभ्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् ( १२।३१ )—'चिरस्थाने द्वैगुण्यं
प्रयोगस्य' इति । 'प्रयोगस्य' इत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्याति-
क्रमोऽभिप्रतः । 'चिरस्थान' इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो
दर्शितः ॥ ३९ ॥

भाषा—पशु और स्त्री के लिये उनकी सन्तान ही वृद्धि (ब्याज)
होती है । रस (तेल, घृत आदि) लेने पर उसकी वृद्धि स्वीकृत वृद्धि से
अधिक से अधिक अठगुना हो सकती है । वस्त्र, धान्य और सोने की वृद्धि
अधिक से अधिक क्रमशः चौगुनी, तिगुनी या दुगुनी होती है ॥ ३९ ॥

ऋणप्रयोगधर्मा उक्ताः; सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते—

प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् ।
साध्यमानो नृपं गँच्छन्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४० ॥

प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भावितं वा साधयन् प्रत्याह-
रन् धर्मादिभिरुपायैरुत्तमर्णो नृपतेर्वाच्यो निवारणीयो न भवति ॥ धर्मा-
दयश्चोपाया मनुना दर्शिताः (मनुः ८।४९) —'धर्मेण व्यवहारेण छलेनाचरितेन
च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥' इति । धर्मेण प्रीतियुक्तेन सत्यवच-
नेन, व्यवहारेण साक्षिलेख्याद्युपायेन, छलेन उत्सवादिव्याजेन भूषणादिग्रह-
णेन, आचरितेन अभोजनेन, पञ्चमेनोपायेन बलेन निगडबन्धनादिना, उप-
चयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति । 'प्रपन्नं साधयन्नर्थं न वाच्य'
इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टी-
कृतं कात्यायनेन—'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्मादर्थात्स
हीयेत तत्समं चौप्नुयाद्दमम् ॥' इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थं साधय-


१. गान्तरीकरणे ।
२. गच्छेत् ।
३. प्रपन्नं साधयन्नर्थं ।
४. लेखाद्युपन्यासेन ।
५. प्राप्नुयात् ।

ऽव्यवहाराध्यायः २०३
मानो याच्यमानो नृपं गच्छेद्राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो
भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः-
'राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्सं-
पीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥' इति । 'साध्यमानो
नृपं गच्छन्' इत्येतत् 'स्मृत्याचारव्यपेतेन' इत्यस्य प्रत्युदाहरणं बोद्धव्यम् ॥४०॥
भाषा—दिये गये धन को धर्मपूर्वक लेने का प्रयत्न करने वाले के
बीच में राजा दखल न देवे । यदि वह उसके लिये राजा के समीप निवेदन
करता है तो दण्ड्य होता है और राजा को धनी के धन दिला देना
चाहिए ॥ ४० ॥
बहूषूत्तमर्णिकेषु युगपत्प्राप्तेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित
आह—
गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः ।
दत्त्वा तु ब्राह्मणाद्यैव नृपतेस्तदनन्तरम् ॥ ४१ ॥
समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधम-
र्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥
भाषा—समान जाति के धनियों में जिस क्रम से ( जिस-जिस का )
धन लिया हो उस-उस को ऋणी से दिलवाये । (यदि भिन्न जाति के
ऋणदाता हों तो ) पहले ब्राह्मण का धन दिलवा कर तब क्षत्रिय आदि का
दिलावे ॥ ४१ ॥
यदा पुनरुत्तमर्णो दुर्बलः प्रतिपन्नमर्थं धर्मादिभिरुपायैः साधयितुमशक्नु-
वन्त्राज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह—
राज्ञाऽधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ ४२ ॥
अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्यः । प्रतिपन्नस्य
साधितार्थस्य दशममंशं राजाऽधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु
प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागमुत्त-
मणद्राजा भृत्यर्थं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो
दर्शितः—'निह्नवे भावितो दद्यात्' (व्य० ५) इत्यादिना ॥ ४२ ॥
भाषा—यदि राजा ऋणी से वसूल करके ऋणदाता को धन दिलावे तो
ऋणी से दस प्रतिशत और धन पाने वाले धनी से पाँच प्रतिशत भृति-
रूप में ले ॥ ४२ ॥

२०४ याज्ञवल्क्यस्मृतिः
सधनमधमर्णिकं प्रत्युक्तम्, अधुना निर्धनमधमर्णिकं प्रत्याह -
हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् ।
ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ ४३ ॥
ब्राह्मणादिजातिरुत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनमृणार्थं
ऋणनिवृत्त्यर्थं कर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोघेन । ब्राह्मणस्तु पुनः
परिक्षीणो निर्धनः शनैःशनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च 'हीनजाति'
ग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणं यथोचितं
कर्म कारयेत् । 'ब्राह्मण'ग्रहणं च श्रेयो जातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि
परिक्षीणो वैश्यादेः शनैःशनैर्दाप्यो यथोदयम् । एतदेव मनुना स्पष्टीकृतम्
(८।१७७) -'कर्मणापि समं कुर्याद्धनिकेनाधमर्णिकः । समोऽपकृष्टजातिश्च
दद्याच्छ्रेयांस्तु तच्छनैः ॥' इति । उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेश-
मात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः ॥ ४३ ॥
भाषा-(धनी से) निम्नजाति के ऋणी से जिसके पास ऋण लौटाने
के लिए धन न हो, धनी व्यक्ति के यहाँ उसकी जाति के अनुरूप कार्य
करावे । यदि इस प्रकार का असमर्थ ऋणी ब्राह्मण हो तो शनैः-शनैः (थोड़ा-
थोड़ा करके) उसकी आय के अनुसार धन वसूल करे ॥ ४३ ॥
मध्यस्थस्थापितं न वर्धते-
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं ४चेत्स्याद्वर्धते न ततः परम् ॥ ४४ ॥
किंच, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमर्णो वृद्धिलोभाद्यदि न
गृह्णाति तदाऽधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनादूर्ध्वं
न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥४४॥
भाषा-यदि धन देने वाला व्यक्ति ब्याज के लिये ऋण दिये गये
धन को ऋणी द्वारा लौटाये जाने पर भी (ब्याज के लोभ से) ग्रहण नहीं
करता और उस धन को ऋणी किसी मध्यस्थ के पास जमा कर दे तो उसके
बाद उसकी वृद्धि (ब्याज) नहीं लगती ॥ ४४ ॥
इदानीं देयमृणं यद्वा येन च देयं तदाह-
अविभक्तैः कुटुम्बार्थे यहणं तु कृतं भवेत् ।
दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ ४५ ॥
१. मृणार्थं कर्म । २. द्वनिकायाधमर्णिकः । ३. पितं यत्स्यात्
४. तत्स्यात् । ५. पूर्वं वर्धत एव ।

व्यवहाराध्यायः २०५
अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् ।
तस्मिन्प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ ४५ ॥
भाषा—संयुक्त परिवार में (एक साथ रहने वाले) अनेक व्यक्तियों या
एक व्यक्ति द्वारा जो ऋण कुटुम्ब के पालन के लिये लिया गया हो, उसे
उसकी मृत्यु के उपरान्त उसके सभी उत्तराधिकारी (सम्पत्ति के भागीदार)
लौटावें ॥ ४५ ॥
येन देयमित्यत्र प्रत्युदाहरणमाह—
न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ ४६ ॥
पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् ।
तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । 'कुटुम्बार्थाहते'
इति सर्वशेषः । अतश्च कुटुम्बार्थे येन केनापि कृतं तत् कुटुम्बिना देयम् । तद-
भावे तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥
भाषा—जो ऋण कुटुम्ब के भरणपोषण के लिये नहीं लिया गया हो
(किसी अन्य प्रयोजन से लिया गया हो) ऐसे पति द्वारा लिये गये ऋण को
स्त्री न लौटावे, पुत्र द्वारा लिये गये ऋण को माता न भरे, पिता न भरे,
और पत्नी द्वारा लिये गये ऋण को पति लौटाने का अधिकारी नहीं होता ॥४६॥
'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति वक्ष्यति तस्य पुरस्तादपवादमाह—
सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ ४७ ॥
सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं
दण्डशुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत्प्रतिज्ञातम्—'धूर्ते बन्दिनि
मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति
स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र 'दण्ड-
शुल्कावशिष्टक' मित्यवशिष्टग्रहणात्सर्वं दातव्यमिति न मन्तव्यम् ।—'दण्डं
वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिक-
म् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्—'मद्यशुल्कद्यूतदण्डा न पुत्रा-
नधर्भवेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥
भाषा—मदिरापान एवं जुआ खेलने के निमित्त लिये गये ऋण, दण्ड
और शुल्क की निधि के अवशिष्ट भाग, वृथादान के (धूर्त बन्दी, मल्ल आदि
१. सर्वविशेषणं । २. निर्वृत्तं । ३. पुत्रानध्यावहेयुः ।

२६६ याज्ञवल्क्यस्मृतिः
के लिये प्रतिज्ञात ) धन—इन पैतृक ( पिता द्वारा लिये गये ) ऋणों को
चुकाने का अधिकारी पुत्र नहीं होता ॥ ४७ ॥
'न पतिः स्त्रीकृतं तथा' ( व्य० ४६ ) इत्यस्यापवादमाह—
गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ ४८ ॥
गोपो गोपालः, शौण्डिकः सुराकारः, शैलूषो नटः, रजको वस्त्राणां रञ्जकः,
व्याधो मृगयुः, एतेषां योषिद्भिर्ऋणं कृतं तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति-
जीवनं तदाश्रया योषिदधीना। 'यस्माद्वृत्तिस्तदाश्रया' इति हेतुव्यपदेशादन्येऽपि
ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥
भाषा—गोप ( अहीर, ग्वाले ), कलारी ( सुराकार ), नट, रंगरेज और
बहेलिया की स्त्रियों द्वारा लिये गये ऋण उनके पति देवें क्योंकि उनकी
जीवनवृत्ति स्त्रियों के ही अधीन होती है ॥ ४८ ॥
'पतिकृतं भार्या न दद्यात्' ( व्य० ४६ ) इत्यस्यापवादमाह—
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥
मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृत-
मृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्त्रभावे भार्यया
अपुत्रया देयम् । यच्च ^२स्वयंकृतं ऋणं तदपि देयम् । ननु 'प्रतिपन्नादि त्रयं स्त्रिया
देयम्' इति वक्तव्यम् ; संदेहाभावात् । उच्यते—'भार्या पुत्रश्च दासश्च त्रय
एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचना-
न्निर्धनत्वेन प्रतिपन्नादिष्वदान^३शङ्कायामिदमुच्यते—'प्रतिपन्नं स्त्रिया देयं' मित्यादि ।
न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते; पारतन्त्र्यमात्रप्रतिपादन-
परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । 'नान्यत् स्त्री दातुमर्हति' इत्ये-
तत्तर्हि, ^१ न वक्तव्यम् ; विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते—'प्रतिपन्नं
स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुरा-
कामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥
भाषा—( मरणासन्न या विदेश जाने वाले ) पति द्वारा लिये गये या
पति के साथ लिये गये ऋण को अथवा स्वयं लिये गये ऋण को ही स्त्री लौटा
सकती है अन्य ऋणों को नहीं ॥ ४९ ॥
१. स्तासां । २. स्वयमेव ।. ३. शंकयेदमुच्यते ।

व्यवहारोऽध्यायः २०७
पुनरपि यहृणं दातव्यं, येन च दातव्यं, यत्र च काले दातव्यं, तत्रितयमाह —
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।
पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ॥ ५० ॥
पिता यदि दातव्यमृणमदत्त्वा प्रेतः, दूरदेशं गतः, अचिकित्सनीयव्याध्याद्य-
भिभूतो वा तदा तत्कृतमृणमात्म्यापनेऽवश्यं देयम्, पुत्रेण पौत्रेण वा पितृधना-
भावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्ययमेव — पित्राभावे पुत्रः, पुत्राभावे
पौत्र इति । पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्षादिभिर्भावितमृणं देयं
पुत्रपौत्रैरित्यन्वयः । अत्र 'पितरि प्रोषिते' इत्येतावदुक्तम्, कालविशेषस्तु नारदे-
नोक्तो द्रष्टव्यः — 'नार्वार्कसंवत्सराद्विंशात्पितरि प्रोषिते सुतः । ऋणं दद्यात्पितृव्ये
वा ज्येष्ठे भ्रातर्यथापि वा ॥' इति । प्रेतेऽप्यप्राप्तव्यवहारकालो न दद्यात् , प्राप्त-
व्यवहारकालस्तु दद्यात् । स च कालस्तेनैव दर्शितः — गर्भस्थः सदृशो ज्ञेय आष्ट-
माद्वत्सराच्छिशुः । बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥ परतो व्यव-
हारज्ञः स्वतन्त्रः पितरावृते ॥' इति । यद्यपि पितृमरणादूर्ध्वं बालोऽपि स्वतन्त्रो
जातस्तथापि नर्णभाग्भवति । यथाह — 'अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्ण-
भाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्येष्ठ्यं गुणवयःकृतम् ॥' इति । तथा आले-
ह्याह्नाननिषेधश्च दृश्यते—'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषम-
स्थाश्च नासेध्या न चैतानाह्वयेन्नृपः ॥' इति । तस्मात् 'अतः पुत्रेण जातेन
स्वार्थमुत्सृज्य यत्नतः । ऋणात्पिता मोचनीयो यथा नो नरकं व्रजेत् ॥' इति ।
पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य-
धिकारः — 'ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमस्मरणात् ।
'पुत्रपौत्रै'रिति बहुवचननिर्देशाद्वहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं
दद्युः । अविभक्ताश्चेत्सम्भूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत
एव वा दद्यादिति गम्यते । यथाह नारदः (१।१४ )—'अत ऊर्ध्वं पितुः पुत्रा
ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यँस्तावुद्वहते धुरम् ॥' इति । अत्र
च यद्यपि 'पुत्रपौत्रैर्ऋणं देय'मित्यविशेषेणोक्तं, तथापि पुत्रेण यथा पिता सवृद्धिकं
ददाति तथैव देयम् । पौत्रेण तु समं मूलमेव दातव्यं, न वृद्धिरिति विशेषोऽवगं-
न्तव्यः । ऋणमात्मीयवत्पित्र्यं देयं पुत्रैर्विभावितम् । पैतामहं समं देयमदेयं
तत्सुतस्य तु ॥' इति बृहस्पतिवचनात् । अत्र 'विभावित'मित्यविशेषोपादानात्सा-
क्षिविभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं यावद्गृहीतं तावदेव,
१. कृतमृणमवश्यं । २. अष्टमात् । १. व्याहरेदन्यत्र । २. यस्तां
चोद्वहते । ३. तथैव ऋणं ।

२०८ | याज्ञवल्क्यस्मृतिः
देयं, न वृद्धिः। तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टी-
क्रियते ॥ ५० ॥
भाषा-पिता के परदेश जाने पर, मर जाने पर या व्यसन में (असाध्य
रोग से पीड़ित) होने पर पुत्र और पौत्र उसके द्वारा लिया गया ऋण देवें। यदि
वे अस्वीकार करें तो साक्षियों द्वारा प्रमाणित होने पर दें ॥ ५० ॥
ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास्तेषां च समवाये
क्रमोऽपि दर्शितः । इदानीं कत्र्रन्तरसमवाये च क्रममाह-
रिक्थग्राह ऋणं दाप्यो योषित्ग्राहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ ५१ ॥
अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वकीयं भवति तद्रिक्थम् ।
विभागात् रिक्थं गृह्णातीति रिक्थग्राहः, स ऋणं दाप्यः । एतदुक्तं भवति-
'यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिरिति । योषितं
भार्यां गृह्णातीति योषिद्ग्राहः, स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स
तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः ।
पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः, अन्यमाश्रितमन्याश्रितं, अन्याश्रितं मातृपि-
तृसंबन्धि द्रव्यं यस्यासावन्याश्रितद्रव्यः, न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः,
पुत्रहीनस्य रिक्थिनः ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश्च
पाठक्रम एव । 'रिक्थग्राह ऋणं दाप्यः, तदभावे योषिद्ग्राहः, तदभावे पुत्र
इति । नन्वेतेषां समवाय एव नोपपद्यते; 'न भ्रातरो न पितरः पुत्रा रिक्थहराः
पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । योषिद्ग्राहोऽपि नोपपद्यते;
(मनुः ५।१६२)-'न द्वितीयश्च साध्वीनां क्वचिद्भर्तोपदिश्यते' इति स्मरणात् ।
तथा तदृणं पुत्रो दाप्य इत्यप्ययुक्तम् ; 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इत्यु-
क्तत्त्वात् । 'अनन्याश्रितद्रव्य' इति विशेषणमप्यनर्थकम् ; पुत्रे सति द्रव्यस्यान्या-
श्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । 'पुत्रहीनस्य रिक्थिनः'
इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि 'रिक्थग्राह ऋणं दाप्यः' इति स्थितम् ।
असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते-पुत्रे सत्य-
प्यन्यो रिक्थग्राही संभवति; क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थैहरत्वाभावात् ।
तथा च क्लीबादीननुक्रम्य 'भर्तव्याः स्युर्निरंशकाः' (व्य० १४०) इति वक्ष्यति । तथा
'सवर्णपुत्रोऽप्यन्यायवृत्तिर्न लभेत्तैकेषाम्' इति गौतमस्मरणात् । अतश्च क्लीबादिषु
पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णपुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषि-
१. स्पष्टयिष्यते । २. ऋक्थिनः । ३. रिक्थग्राहाभावात् । ४. भर्तव्यास्तु ।
भर्तव्यान्न ।

व्यवहाराध्यायः २०६
द्ग्राहो यद्यपि शास्त्रविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृत-
र्णापाकरणाधिकारी भवत्येव । योषिद्-ग्राहो यश्चतसृणां स्वैरिणीनामन्तिमं गृह्णाति,
यश्च पुनर्भूवां तिसृणां प्रथमाम्, यथाह नारदः—'परपूर्वाः स्त्रियस्त्वन्याः सप्त
प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयो-
निर्या पाणिग्रहणदूषिता । पुनर्भूः १प्रथमा प्रोक्ता पुनः संस्कारकर्मणा ॥ देशधर्मा-
नवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्तिता ॥'
उत्पन्नसाहसा उत्पन्नव्यभिचारा । —'असत्सु देवरोषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु
जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या
त्वन्यं पुरुषं श्रिता । पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि
तु प्राप्तान्देवरोदीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥ २प्राप्ता
देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भूवाम् । ऋणं तयोः पतिकृतं दद्याद्यस्ता
उपाश्रितः ॥' इति । तथाऽन्योऽपि योषिद्ग्राह ऋणापाकरणेऽधिकारी तेनैव
दर्शितः—'या तु सप्रधनैव स्त्री साऽपत्या वाऽन्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तु-
रुत्सृजेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना, बहुधनेति
यावत् । तथा 'अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ३ऋणं वोढुः स
भजते सैव चास्य धनं स्मृतम् ॥' इति पुत्रस्य पुनर्वचनं क्रमार्थम् । 'अनन्या-
श्रितद्रव्य' इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णपाकरणेऽधिकारो
नायोग्यस्यान्धादेरित्येवमर्थम् । 'पुत्रहीनस्य रिक्थिन' इत्येतदपि पुत्रपौत्रहीनस्य
प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्याः, नान्यथेत्येवमर्थम् । पुत्रपौत्रौ
च रिक्थग्रहणाभावेऽपि दाप्यावित्युक्तम्, यथाह नारदः ( १।४ )—'क्रमद्वया-
हतं प्राप्तं पुत्रैर्ऋणमुद्धृतम् । दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥' इति
सर्वं निरवद्यम् ॥ यद्वा,—योषिद्ग्राहभावे पुत्रो दाप्य इत्युक्तम् । पुत्राभावे
योषिद्ग्राहो दाप्य इत्युच्यते । 'पुत्रहीनस्य रिक्थिनः' इति 'रिक्थ'शब्देन
योषिदेवोच्यते । 'सैव चास्य धनं स्मृतम्' इति स्मरणात्, 'यो यस्य हरते
दारान्स तस्य हरते धनम्' इति च ॥ ननु योषिद्ग्राहाभावे पुत्रो ऋणं दाप्यः,
पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद्दाप्य इति ।
नैष दोषः; अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे
पुत्रो दाप्यः; पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतदेवोक्तं
नारदेन ( १।२३ )—'धनस्त्रीहारिपुत्राणाममृग्भाग्यो धनं हरेत् । पुत्रोऽसतोः


१. प्रथमा नाम । २. प्राप्ता देशाद्धरात्क्रीता । ३. ऋणमोढुः ।

२१० याज्ञवल्क्यस्मृतिः
स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः' ॥ इति । धनस्त्रीहारिपुत्राणां समवाये यो
धनं हरेत्स ऋणभाक् पुत्रोऽसतोः स्त्रीधनिनोः, स्त्री च धनं च स्त्रीधने, ते विद्येते
ययोस्तौ स्त्रीधनिनौ, तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋणभाक् भवति ।
धनिपुत्रयोरसतोः स्त्रीहार्यैवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक्, पुत्राभावे
स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । 'पुत्रहीनस्य रिक्थिनः' इत्यस्यान्या
व्याख्या—एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य
दाप्याः; तदभावे तत्पुत्रादेः, पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते-
‘पुत्रहीनस्य रिक्थिनः' इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थ-
ग्रहणयोग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथा च नारदेन (१।११२)
'ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् । निर्वपेत्तत्सकुल्येषु तदभावेऽस्य
बन्धुषु ॥' इत्यभिहितम्—'यदा तु न सकुल्याः स्युर्न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥' नारदः (१।११३) इति ॥५१॥
भाषा—रिक्थ (सम्पत्ति का भाग) लेने वाले (सम्पत्ति के स्वामी
द्वारा लिये गये) ऋण को लौटावें, स्त्री को ग्रहण करने वाला उसके मृत पति
का लिया ऋण भी दे । जिसका धन पुत्र के अतिरिक्त अन्य को न मिला हो
उसका ऋण पुत्र देवे और पुत्रहीन ऋणी का धन उसकी सम्पत्ति का भाग
लेने वाले चुकावें ॥ ५१ ॥
अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति—
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ ५२ ॥
प्रतिभुवो भावः प्रातिभाव्यं, भ्रातॄणां दम्पत्योः पितापुत्रयोश्चाविभक्ते द्रव्ये
द्रव्यविभागात्प्राक्प्रातिभाव्यमृणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु
प्रतिषिद्धं, साधारणधनत्वात् । प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यावसानत्वात्,
ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्परानुमतिव्यतिरेकेण, परस्परा-
नुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव । विभागादूर्ध्वं तु परस्परा-
नुमतिव्यतिरेकेणापि भवति ॥ ननु दम्पत्योर्विभागात्प्राक्प्रातिभाव्यादिप्रतिषेधो
न युज्यते; तयोर्विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश्चापस्तम्बेन
दर्शितः (आप० ध० २।१४-१६)—'जायापत्योर्न विभागो विद्यते' इति ।
सत्यम्; श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः
१. विरोधप्रतिभासः । २. इति विवक्षायां । ३. तत्स्त्रीपुत्रादेः ।
४. न चास्ति चेत् । ५. भावे स्वबन्धुषु । ६. द्रव्यव्ययावसानत्वात् ।

व्यवहाराध्यायः २११
सर्वकर्मसु द्रव्येषु वा। तथा हि—'जायापत्योर्न विभागो विद्यते' इत्युक्त्वा
किमिति न विद्यते इत्यपेक्षायां हेतुमुक्तवान्—'पाणिग्रहणाद्धि सहत्वं कर्मसु',
'तथा पुण्यफलेषु च' (आप० ध० २।१४, १७-१८) इति। हि यस्मात्पाणि-
ग्रहणादारभ्य कर्मसु सहत्वं श्रूयते—'जायापती अग्निमादधीयाताम्' इति,
तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसामध्ये कर्मसु सहाधिकारः। तथा
'कर्म स्मार्तं विवाहानौ' (आ० ९७) इत्यादिस्मरणाद्विवाहसिद्धाग्निसाम्येषु
कर्मसु सहाधिकार एव। अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः
पृथगेवाधिकारः संपद्यते। तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं
श्रूयते—'दिवि ज्योतिरजरमारभेताम्' इत्यादि। येषु पुण्यकर्मसु सहाधिकार-
स्तेषां फलेषु सहत्वमिति बोद्धव्यं, न पुनः पूतानां भर्तृनज्ञयानुष्ठितानां फले-
ष्वपि॥ ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम्; 'द्रव्यपरिग्रहेषु च' 'नहि भर्तुर्वि-
प्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति' (आप० ध० २।१४।१८-२०) इति।
सत्यम्; द्रव्यस्वामित्वं पत्न्या दर्शितमनेन, न पुनर्विभागाभावः। यस्मात्
'द्रव्यपरिग्रहेषु च' इत्युक्त्वा तत्र कारणमुक्तम्—'भर्तुर्विप्रवासे नैमित्तिकेऽ-
वश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान्न स्तेयमुपदिशन्ति
मन्वादयस्तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति, अन्यथा स्तेयं स्यात्' इति।
तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागो भवत्येव, न स्वेच्छया। यथा
वक्ष्यति (व्य० ११५)—'यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः'
इति॥ ५२॥
भाषा—अविभक्त (संयुक्त) रहने वाले भाइयों, पति-पत्नी, पिता और
पुत्र का प्रातिभाव्य (जामिन) एवं ऋण और साक्ष्य का विधान (मनु
आदि ने) नहीं किया है॥ ५२॥
अधुना प्रातिभाव्यं निरूपयितुमाह—
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि॥ ५३॥
प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः, तच्च विषयभेदात्त्रिधा
भिद्यते। यथा दर्शने 'दर्शनापेक्षायां एनं दर्शयिष्यामी'ति। प्रत्यये·विश्वासे, 'मम
प्रत्ययेनास्य धनं प्रयच्छ, नायं त्वां वञ्चयिष्यते, यतोऽमुकस्य पुत्रोऽयं, उर्वरा-
प्रायभूरस्य ग्रामवरोऽस्ती'ति। दाने 'यद्ययं न ददाति तदानीमहमेव दास्या-
मी'ति। 'प्रातिभाव्यं विधीयत' इति प्रत्येकं संबध्यते। आद्यौ तु दर्शनप्रत्यय-
१. भार्यायामपि। २. वरोऽस्तीति। ३. संबन्धः।
१४ या०

२१२ याज्ञवल्क्यस्मृतिः
प्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं
धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्येव
शाठ्येन निर्धनत्वेन वाऽधमर्णेऽप्रतिकुर्वति 'इतरस्य सुता अपि' (१।११९) इति
वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । 'सुता' इति वदता न पौत्रा दाप्या
इति दर्शितम् ॥ ५३ ॥
भाषा—दर्शन (दिखा देना), प्रत्यय (विश्वास दिलाना) और दान
(स्वयं देने की प्रतिज्ञा) को प्रातिभाव्य (प्रतिभू या जामिन होना) कहते
हैं। प्रथम दो प्रकार का प्रातिभाव्य करने वाले झूठा पड़े तो राजा उनमें से
धनी व्यक्ति का धन दिलावे, तीसरे प्रकार का प्रातिभाव्य करने वाले के झूठा
पड़ने पर उसके पुत्रों से भी वह धन वसूल करे ॥ ५३ ॥
एतदेव स्पष्टीकर्तुमाह—
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥ ५४ ॥
यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवं¹ गतस्तदा तयोः पुत्राः
प्रातिभाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं² गतस्तस्य
पुत्रा दद्युः, न पौत्राः। ते च मूलमेव दद्युर्न वृद्धिम् । 'ऋणं पैतामहं पौत्रः
प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चयः ॥' इति
व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः सः यावद्गृहीतं तावदेव
दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात् ।
तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रं³ पौत्रावप्रातिभाव्यायातं प्रातिभाव्यायातं च ऋणं
यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्—'खादको वित्तहीनः
स्याल्लग्नको वित्तवान्यदि । मूलं तस्य भवेद् देयं न वृद्धिं दातुमर्हति ॥' इति,—
तदपि लग्नकः प्रतिभूः, खादकोऽधमर्णः; लग्नको यदि वित्तवान्मृतस्तदा तस्य
पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रति-
भूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात्
प्रातिभाव्यायातमृणं दद्युरेव । यथाह कात्यायनः—'गृहीत्वा बन्धकं यत्र दर्शने-
ऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥' इति ।
'दर्शन' ग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते
वेति ॥ ५४ ॥
१. ये स्थिताः । २. दिष्टं गतः । ३. पौत्रप्रपौत्रौ ।

व्यवहाराध्यायः २१३
भाषा—यदि दर्शनप्रतिभू या प्रत्ययप्रतिभू की मृत्यु हो गयी हो तो
उसके पुत्रों से ऋण न दिलावे; किन्तु दानप्रतिभू के मरने पर उसके पुत्र से
ही धनी को धन दिलावे ॥ ५४ ॥
यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह—
बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ ५५ ॥
यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदृणं संविभज्य स्वांशेन
दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिता
एकच्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दानप्रतिभुवो²
ऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः । एवं दर्शने प्रत्यये च । तेष्वेकैच्छाया-³
श्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च
धनिको वित्ताद्यपेक्षया⁴ऽयं स्वार्थं⁵ यं प्रार्थयते स एव कृत्स्नं दाप्यः⁶, नांशतः । एक-
च्छायाश्रितेषु यदि कश्चिद् देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया
स सर्वं दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रंशमवृद्धिकं दाप्यः । तथाह
कात्यायनः—'एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं
पित्रंशं तु ⁸मृते समम् ॥' इति ॥ ५५ ॥
भाषा—यदि अनेक प्रतिभू होंवे तो वे ऋण को आपस में बाँटकर अपना-
अपना अंश चुकावें और यदि अनेक प्रतिभू (जामिनों) में सभी ऋणी के समान
होकर पूरा धन देने को उद्यत हों तो धनी अपनी इच्छा के अनुसार किसी
एक से ले लेवे ॥ ५५ ॥
प्रातिभाव्ये ऋणदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह—
प्रतिभूर्दापितो यत्तु प्रकाशं धैनिनो⁹ धनम् ।
द्विगुणं ¹⁰प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ ५६ ॥
यद्द्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं
राज्ञा धनिनो दापितो न पुनर्दैगुण्यलोभेन स्वयमुपेत्य दत्तम् । तथाह नारदः
( १।१२१) 'यं चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ¹¹ऋणिकस्तं प्रतिभुवे
द्विगुणं ¹²प्रतिदापयेत् ॥' इति । ऋणिकैरधमर्णैस्तस्य प्रतिभुवस्तद् द्रव्यं द्विगुणं


१. दातव्यमित्यत आह । २. दाने प्रतिभुवः । ३. तथैकच्छाया ।
४. वित्ताद्यपेक्षया । ५. यः प्रार्थयते । ६. दद्यान्नांशतः । ७. तेष्वे-
कच्छाया । ८. मृते सति । ९. धनिनां । धनिने धनम् ; १०. तन्न
दातव्य । ११. ऋणिकं तं । १२. प्रतिपादयेत् ।

२१४ याज्ञवल्क्यस्मृतिः
प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् ;
वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् । ननु १इदं प्रतिभूरिति वचनं
द्वैगुण्यमात्रं प्रतिपादयति, तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते । यथा
जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः
संतत्यभावान्मूलदानमेव प्राप्नोतीति,-तदसत् ; २'वस्त्रधान्यहिरण्यानां चतु-
स्त्रिविगुणा परा' ( व्य० ३९ ) इत्यनेनैव कालकलाक्रमेण द्वैगुण्यादिसिद्धेः द्वैगु-
ण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्य-
भावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानान्तरं कियतापि कालेनाधम-
र्णेन संघटते तदा संततिरपि३ संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो
दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं ४प्रीतिकृतम् , अतश्च प्रतिभुवा
दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याचनाप्राग्वृद्धिरस्ति; यथाह ( नारदः
१।१०९ )- 'प्रीतिदत्तं तु यत्किञ्चिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं
चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चास्य प्रीतिदत्तस्यायाचितस्यापि दानदिव-
सादारभ्य यावद् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति, तदप्य-
सत् ,-अस्यार्थस्यास्माद्वचनादप्रतीतेः 'द्विगुणं प्रतिदातव्यम्' इत्येतावदिह प्रती-
यते । तस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति
सुष्ठूक्तम् ॥ ५६ ॥
भाषा-जिस प्रतिभू ( या उसके पुत्र ) से राजाने धनी का धन सबके
सामने दिलाया हो उसको ऋण लेने वाले दूना देकर चुकावें ॥ ५६ ॥
प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह-
संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥
हिरण्यद्वैगुण्यवत्कालानावरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्धया दाप्याः ।
श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्द्रव्यं
प्रतिभूदत्तं खादकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति
तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुमसमर्थ-
स्तदा ५तदन्वेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा मोक्त-
व्योऽन्यथा प्रस्तुतं धनं दाप्यः; 'नष्टस्यान्येषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव
१. इदं बचनं । २. वस्त्रादान । ३. संततिरेवं । ४. प्रीतिकृतं च ।
५. तदन्वेषणाय । ६. मोक्तव्यो नान्यथा ।