सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 252, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 252

१६६ याज्ञवल्क्यस्मृतिः

व्यवहारो न सिद्धयति । अनियुक्तकासंबद्धकृतोऽपि व्यवहारो न सिद्धयतीति
संबन्धः । यत्तु स्मरणम्—'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ।
विरोधे तु मिथस्तेषां व्यवहारो न सिद्धयति ॥' इति, तदपि गुरुशिष्यादीना-
मात्यन्तिकव्यवहारप्रतिषेधपरं न भवति; तेषामपि कथंचिद्व्यवहारस्येष्टत्वात् ।
तथा हि—'शिष्यादिशिष्टिरवधेन शक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यां, अन्येन
घ्नन् राज्ञा शास्यः' ( २।४२।४ ) इति गौतमस्मरणात् । 'नोत्तमाङ्गे कथंचन'
( ८।३०० ) इति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे
ताडयति, तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति,
तदा भवत्येव व्यवहारपदम् ॥ तथा—'भूर्या पितामहोपात्ता' ( व्य० १२१ )
इत्यादिवचनात्पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता
विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति तदा पुत्रो यदि धर्माधिकरणं
प्रवेशयति तदा पितापुत्रयोरपि भवत्येव व्यवहारः ॥ यथा—'दुर्भिक्षे धर्मकार्ये च
व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥' इति
स्मरणात्, दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्त्ता व्ययीकृत्य विद्यमानधनोऽपि
याच्यमानो न ददाति तदा दम्पत्योरपीष्यत एव व्यवहारः । तथा भक्तदासस्य
स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि, गर्भदासादीनधिकृत्य—
'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं
लभेत च ॥' इति नारदोक्तत्वात्, तन्मोचने पुत्रभागादाने च स्वामिना सह
व्यवहारः केन वार्यते ? तस्मादृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार
इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा सभ्यैनेति 'गुरोः शिष्ये' इत्यादि-
श्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनामप्युक्तरीत्या प्रवर्तनीयो
व्यवहारः । यदपि—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो
भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनम्, तत्रैकस्यापि—'गणद्रव्यं
हरेद्यस्तु संविदं लङ्घयेच्च यः' । ( व्य० १८७ ) तथा—'एकं घ्नतां बहूनां च'
( व्य० २२१ ) इत्यादिरमरणादेकार्थैर्बहुभिः सार्धं व्यवहार इष्यत एवेति
भिन्नार्थैर्बहुभिरेकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणामित्यपि
गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद्व्यवहारो भवत्येवेति, तदन्यासां कुलस्त्रीणां
पतिषु जीवत्सु तत्पारतन्त्र्यादनादेयो व्यवहार इति व्याख्येयम् । 'प्रेष्यजनस्य
स्वामिपारतन्त्र्यात्स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति
व्याख्येयम् ॥ ३२ ॥

१. धिकारिणं प्रविशति । २. व्यवहारान् । व्यवहारपदं । ३. जीवत्सु
सरसु । ४. योजनीयम् ।