सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 262, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 262

२६६ याज्ञवल्क्यस्मृतिः
के लिये प्रतिज्ञात ) धन—इन पैतृक ( पिता द्वारा लिये गये ) ऋणों को
चुकाने का अधिकारी पुत्र नहीं होता ॥ ४७ ॥
'न पतिः स्त्रीकृतं तथा' ( व्य० ४६ ) इत्यस्यापवादमाह—
गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ ४८ ॥
गोपो गोपालः, शौण्डिकः सुराकारः, शैलूषो नटः, रजको वस्त्राणां रञ्जकः,
व्याधो मृगयुः, एतेषां योषिद्भिर्ऋणं कृतं तत्पतिभिर्देयम् । यस्मात्तेषां वृत्ति-
जीवनं तदाश्रया योषिदधीना। 'यस्माद्वृत्तिस्तदाश्रया' इति हेतुव्यपदेशादन्येऽपि
ये योषिदधीनजीवनास्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते ॥ ४८ ॥
भाषा—गोप ( अहीर, ग्वाले ), कलारी ( सुराकार ), नट, रंगरेज और
बहेलिया की स्त्रियों द्वारा लिये गये ऋण उनके पति देवें क्योंकि उनकी
जीवनवृत्ति स्त्रियों के ही अधीन होती है ॥ ४८ ॥
'पतिकृतं भार्या न दद्यात्' ( व्य० ४६ ) इत्यस्यापवादमाह—
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ ४९ ॥
मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नं तत्पतिकृत-
मृणं देयम् । यच्च पत्या सह भार्यया ऋणं कृतं तदपि भर्त्रभावे भार्यया
अपुत्रया देयम् । यच्च ^२स्वयंकृतं ऋणं तदपि देयम् । ननु 'प्रतिपन्नादि त्रयं स्त्रिया
देयम्' इति वक्तव्यम् ; संदेहाभावात् । उच्यते—'भार्या पुत्रश्च दासश्च त्रय
एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति वचना-
न्निर्धनत्वेन प्रतिपन्नादिष्वदान^३शङ्कायामिदमुच्यते—'प्रतिपन्नं स्त्रिया देयं' मित्यादि ।
न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते; पारतन्त्र्यमात्रप्रतिपादन-
परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । 'नान्यत् स्त्री दातुमर्हति' इत्ये-
तत्तर्हि, ^१ न वक्तव्यम् ; विधानेनैवान्यत्र प्रतिषेधसिद्धेः । उच्यते—'प्रतिपन्नं
स्त्रिया देयं पत्या वा सह यत्कृतम्' इत्येतयोरपवादार्थमुच्यते । अन्यत्सुरा-
कामादिवचनोपात्तं प्रतिपन्नमपि पत्या सह कृतमपि न देयमिति ॥ ४९ ॥
भाषा—( मरणासन्न या विदेश जाने वाले ) पति द्वारा लिये गये या
पति के साथ लिये गये ऋण को अथवा स्वयं लिये गये ऋण को ही स्त्री लौटा
सकती है अन्य ऋणों को नहीं ॥ ४९ ॥
१. स्तासां । २. स्वयमेव ।. ३. शंकयेदमुच्यते ।