सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 256, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 256

२०० याज्ञवल्क्यस्मृतिः
द्वित्रिचतुष्पञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (पा. ५।१।२२)
इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते' (पा. ५।१।४७) इति कन् ।
(वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका
कार्यकर्मणा) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दि-
वसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन
(१।१०२, ४) - 'कायिका कालिका चैव कारिता च तथा परा । चक्रवृद्धिश्च
शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥' इत्युक्त्वोक्तम् - 'कायाविरोधिनी शश्वत्पणपादा-
दिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा
कारिता याऽधमर्णेन स्वयं कृता । वृद्धेरपि पुनर्द्धिश्चक्रवृद्धिरुदाहृता ॥' (१।
१०३-४) इति ॥ ३७ ॥
भाषा-बन्धक रखे हुए धन पर उसका अस्सीवाँ भाग प्रत्येक मास में
ब्याज होता है। अन्यथा (बन्धक न होने पर) वर्ण के अनुसार (ब्राह्मण
आदि से क्रमशः) दो, तीन, चार और पाँच प्रतिशत ब्याज लेना
चाहिए ॥ ३७ ॥
ग्रहीतृविशेषेण वृद्धेः प्रकारान्तरमाह-
कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।
कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिक-
लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये
च समुद्रगास्ते विंशकं शतम् । मासि मासीत्येव । एतदुक्तं भवति-कान्तार-
गेभ्यो दशकं शतं, सामुद्रेभ्यश्च विंशकं शतं, उत्तमर्ण आदद्यात् ; मूलविनाश-
स्यापि शङ्कितत्वादिति ॥
इदानीं कारितां वृद्धिमाह -
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥
सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्यु-
पगतां वृद्धिं सर्वासु जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति; यथाह नारदः
(१।१०८)-'न वृद्धिः प्रीतिदत्तानां स्यादानाकारिता क्वचित् । अनाकारित-
मप्यूर्ध्वं वत्सराधद्विर्द्धते ॥' इति । यस्तु याचितकं गृहीत्वा; देशान्तरं गतस्तं
प्रति कात्यायनेनोक्तम् - 'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्वं
संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽ-
प्यदत्त्वा देशान्तरं व्रजति तं प्रति तेनैवोक्तम्-कृतोद्धारमदत्त्वा यो याचितस्तु
१' पुस्तकेऽधिकोऽयं पाठः। २ नैवाधिकं । ३ याति ।