सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 255, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 255

व्यवहाराध्यायः १६६
द्रव्यं तस्य किल्बिषमाप्नोति । तस्य चौरस्य च । यथाह मनुः ( ८।४० ) -
'दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति
किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुपभुङ्क्ते तदा चौरस्य
किल्बिषमाप्नोति । अथ चौरहृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौर-
हृताहरणाय यतमानोऽपि न शक्नुयादाहर्तुं तदा तावद्धनं स्वकोशाद्दद्यात् ।
यथाह गौतमः - (१०।४६) 'चौरहृतमवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यात्'
इति । कृष्णद्वैपायनोऽपि - 'प्रत्याहर्तुं न शक्तस्तु धनं चौरैर्हतं यदि । स्वकोशा-
तद्धि देयं स्यादशक्तेन महीक्षिता ॥' इति ॥ ३६ ॥
भाषा - चोरों से छीने गये धन को राजा अपने देश के निवासी को
( जिसका वह धन हो ) देवे । यदि उसका धन नहीं देता तो उस धन के
अधिकारी के सभी पाप उसे लग जाते हैं ॥ ३६ ॥
इत्यसाधारणव्यवहारमातृकाप्रकरणम् ।
अथ ऋणादानप्रकरणम् ३
साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहारा-
पदानामाद्यमृणादानपदं दर्शयति - 'अशीतिभागो वृद्धिः स्यात्' इत्यादिना,
'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' ( व्य० ६४ ) इत्येवमन्तेन । तच्च
ऋणादानं सप्तविधम् - ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणादेयं, अस्मिन्
समये देयं, अनेन प्रकारेण देयम् , इत्यधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः,
आदानविधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम् (१।१।४) - 'ऋणं
देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥'
इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम् -
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥ ३७ ॥
मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदाधीयते, आधिरिति यावत् ।
बन्धकेन सह वर्तत इति सबन्धकः प्रयोगः, तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य
द्रव्यस्य अशीतितमो भागो वृद्धिर्धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे
वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुष्पञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमर्णे
द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकम् । मासि मासीत्येव द्वौ
वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः, अस्मिन् शते वृद्धिर्दीयते इति
१. तदुपभुञ्जानः । २. व्यवहाराणामाद्य । ३. धर्मश्च ऋणादान ।