सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 268, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 268

२१२ याज्ञवल्क्यस्मृतिः
प्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं
धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्येव
शाठ्येन निर्धनत्वेन वाऽधमर्णेऽप्रतिकुर्वति 'इतरस्य सुता अपि' (१।११९) इति
वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । 'सुता' इति वदता न पौत्रा दाप्या
इति दर्शितम् ॥ ५३ ॥
भाषा—दर्शन (दिखा देना), प्रत्यय (विश्वास दिलाना) और दान
(स्वयं देने की प्रतिज्ञा) को प्रातिभाव्य (प्रतिभू या जामिन होना) कहते
हैं। प्रथम दो प्रकार का प्रातिभाव्य करने वाले झूठा पड़े तो राजा उनमें से
धनी व्यक्ति का धन दिलावे, तीसरे प्रकार का प्रातिभाव्य करने वाले के झूठा
पड़ने पर उसके पुत्रों से भी वह धन वसूल करे ॥ ५३ ॥
एतदेव स्पष्टीकर्तुमाह—
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥ ५४ ॥
यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवं¹ गतस्तदा तयोः पुत्राः
प्रातिभाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिवं² गतस्तस्य
पुत्रा दद्युः, न पौत्राः। ते च मूलमेव दद्युर्न वृद्धिम् । 'ऋणं पैतामहं पौत्रः
प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चयः ॥' इति
व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः सः यावद्गृहीतं तावदेव
दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात् ।
तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रं³ पौत्रावप्रातिभाव्यायातं प्रातिभाव्यायातं च ऋणं
यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्—'खादको वित्तहीनः
स्याल्लग्नको वित्तवान्यदि । मूलं तस्य भवेद् देयं न वृद्धिं दातुमर्हति ॥' इति,—
तदपि लग्नकः प्रतिभूः, खादकोऽधमर्णः; लग्नको यदि वित्तवान्मृतस्तदा तस्य
पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रति-
भूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात्
प्रातिभाव्यायातमृणं दद्युरेव । यथाह कात्यायनः—'गृहीत्वा बन्धकं यत्र दर्शने-
ऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥' इति ।
'दर्शन' ग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते
वेति ॥ ५४ ॥
१. ये स्थिताः । २. दिष्टं गतः । ३. पौत्रप्रपौत्रौ ।