याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 270, कुल 782 में से
संदर्भ में पढ़ें२१४ याज्ञवल्क्यस्मृतिः
प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् ;
वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् । ननु १इदं प्रतिभूरिति वचनं
द्वैगुण्यमात्रं प्रतिपादयति, तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते । यथा
जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः
संतत्यभावान्मूलदानमेव प्राप्नोतीति,-तदसत् ; २'वस्त्रधान्यहिरण्यानां चतु-
स्त्रिविगुणा परा' ( व्य० ३९ ) इत्यनेनैव कालकलाक्रमेण द्वैगुण्यादिसिद्धेः द्वैगु-
ण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्य-
भावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानान्तरं कियतापि कालेनाधम-
र्णेन संघटते तदा संततिरपि३ संभवत्येव । यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो
दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं ४प्रीतिकृतम् , अतश्च प्रतिभुवा
दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याचनाप्राग्वृद्धिरस्ति; यथाह ( नारदः
१।१०९ )- 'प्रीतिदत्तं तु यत्किञ्चिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं
चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चास्य प्रीतिदत्तस्यायाचितस्यापि दानदिव-
सादारभ्य यावद् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति, तदप्य-
सत् ,-अस्यार्थस्यास्माद्वचनादप्रतीतेः 'द्विगुणं प्रतिदातव्यम्' इत्येतावदिह प्रती-
यते । तस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति
सुष्ठूक्तम् ॥ ५६ ॥
भाषा-जिस प्रतिभू ( या उसके पुत्र ) से राजाने धनी का धन सबके
सामने दिलाया हो उसको ऋण लेने वाले दूना देकर चुकावें ॥ ५६ ॥
प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह-
संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७ ॥
हिरण्यद्वैगुण्यवत्कालानावरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्धया दाप्याः ।
श्लोकस्तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद्द्रव्यं
प्रतिभूदत्तं खादकेन तया वृद्धया सह कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति
तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुमसमर्थ-
स्तदा ५तदन्वेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा मोक्त-
व्योऽन्यथा प्रस्तुतं धनं दाप्यः; 'नष्टस्यान्येषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥ काले व्यतीते प्रतिभूर्यदि तं नैव
१. इदं बचनं । २. वस्त्रादान । ३. संततिरेवं । ४. प्रीतिकृतं च ।
५. तदन्वेषणाय । ६. मोक्तव्यो नान्यथा ।