सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

प्रथमोऽध्यायः ।
श्रीभगवानुवाच-
साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥
यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ।
हे महाबाहो इति संबोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं
द्योतयति । शत्रवो रागादयश्च । हे पाण्डवेति सत्कुल-
प्रसूतिं द्योतयति । बुद्धिमानसीति स्तुवन् स्वोक्तार्थग्रहणा-
वधारणसामर्थ्यं द्योतयति । त्वं मां प्रति यदात्मतत्त्वं
पृच्छसि, तदशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥
तदेवात्मतत्त्वं सोपायमाह—
आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४ ॥
योगेन गतकामानां भावना ब्रह्म चक्षते ।
आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य
तात्पर्याविषयस्य, हंसस्य हन्ति स्वंतत्त्वज्ञानेन ज्ञातृसंसार-
मिति हंसः तस्य परमात्मनः, परस्परसमन्वयात् अन्योन्य-
प्रतिपाद्यप्रतिपादकभावसंसर्गात् , अनेन सर्ववेदान्ततात्पर्यगो-
चरत्वम् ‘तत्तु समन्वयात्’ इति समन्वयाधिकरणोक्तं
दर्शितम्; योगेन आत्मतत्त्वविचाराख्येन, गतकामानां नष्टा-
रिषड्वर्गाणाम्— अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिः दर्शि-

४ उत्तरगीतायां
ता; तेषां या भावना 'तत्त्वमसि' इत्यादिवाक्यजन्या चरम-
वृत्तिः, तन्निवृत्तिर्वा, तज्जन्याविद्यानिवृत्तिर्वा, तन्निवृत्त्यधिष्ठानं
वा, सा ब्रह्मेति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः ॥
तदेव तत्त्वज्ञानं तन्निवर्त्याविद्यानिवृत्तिं च आह—
शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५ ॥
हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६ ॥
अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरू-
पत्त्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंसः ब्रह्म हंसा-
क्षरं च प्रणवं च एतत्कूटस्थं यत्, एतदुभयसाक्षिभूतं यत्,
तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् ।
तत्स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणज-
न्मनी जननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति
यावत् ॥
सा च मुक्तिः जीवपरमात्मनोरैक्यमिति प्रतिपादयति—
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते—
काकीमुखं ककारान्तमुकारश्चेतनाकृतिः ।
मकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ ७ ॥

प्रथमोऽध्यायः । ५
कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी
जीवः अविद्याप्रतिबिम्बः, तस्य मुखं मुखस्थानीयं बिम्बभूतं
यद्ब्रह्म, तत्प्रतिपादकं यत् ककारान्तम्, मुखमित्येतत् का-
काक्षिन्यायेन अत्रापि संबध्यते । तथा च शब्दश्लेषः मुख-
भूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तम् अन्तिमं
यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि
सर्वं विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियै-
रर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एत-
त्त्रयम् अकारस्यार्थः । उकारश्चेतनाकृतिः । काकीमुखेत्यत्र
मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं
सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्मशरी-
रमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्यप्रत्ययः स-
विषयः स्वप्नः, तदुभयाभिमानी आत्मा तैजसः । एतत्त्रय-
मुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेत-
नाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वा-
चकः । मकारस्य — काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो
मकारः शरीरद्वयकारणमात्माज्ञानं साभासं अव्याकृतमित्यु-
च्यते । तच्च न सत्, नासत्, नापि सदसत् ; न भिन्नम्, ना-
भिन्नम्, नापि भिन्नाभिन्नं कुतश्चित् ; न निरवयवम्, न

६ उत्तरगीतायां
सावयवम् , नोभयम् ; केवलब्रह्मात्मकत्वज्ञानापनोद्यम् । सर्व-
प्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । त-
दुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं तस्य मकारस्यार्थः ।
लुप्तस्य—अकार उकारे, उकारो मकारे, मकार ओंकारे,
एवं लुप्तस्य कोऽर्थः ककारात्परो यः अकारः तस्य योऽर्थः
लक्ष्यस्वरूपं मकारात्परम्योंकारस्य अर्थः लक्ष्यस्वरूपम् , उप-
लक्षणमेतद्द्वयम् उकारात्पूर्वमकारस्यार्थः लक्ष्यस्वरूपम् ओं-
कारात्मा साक्षी केवलचिन्मात्रस्वरूपः नाज्ञानं तत्कार्यं च,
किं तु नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव संप्र-
तिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । 'अयमात्मा ब्रह्म' 'स
यश्चायं पुरुषे यश्चासावादित्ये स एकः' 'तत्त्वमसि'
'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्य इति भावः ॥
यद्वा पाठान्तरे—
काकीमुखककारान्तमुकारश्चेतनाकृतिः ।
अकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥
कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी
जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तः
अकारः ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वा-

प्रथमोऽध्यायः । ७

विद्यया संहरति इति न्यायात् । मकारस्य जीवत्वाकारस्य
लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपो-
ऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसंधानवान् संप्रति-
पद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारा-
न्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः ।
धकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः
शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्यालोपवतो ब्र-
ह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्य-
स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति
शेषः । तथा च श्रुतिः 'आप्लवस्व प्रप्लवस्व, आण्डी भव ज
मा मुहुः, सुखादीं दुःखानिधनाम्, प्रतिमुञ्चस्व स्वां पुरम्'
इति । अस्यार्थः—हे ज जननमरणयुक्तजीवत्वमाप्लवस्व जी-
वन्मुक्तो भव प्रप्लवस्व प्रारब्धान्मुक्तो भव, आण्डी ब्रह्मा-
ण्डान्तर्वर्ती संसारी मुहुर्मा भव मा भूः । संसारी चेत् किमप-
राध इत्याशङ्क्याह—सुखादीम वैषयिकसुखहेतुं दुःखनिधनां
दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेह-
द्वयं प्रतिमुञ्चस्व त्यज ॥

एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्त-
रीयकफलमप्याह—

८ उत्तरगीतायां
गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् ।
सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८ ॥
नरः 'शतायुः पुरुषः शतेन्द्रियः' इति परिमितायुरपि
गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदा कालं सर्व-
स्मिन्काले शयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं
प्राणायामं कुर्वन् तेन सार्वकालप्रयोगेन सार्वकालिकवायु-
धारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥
ननु परमफलं कदा भवतीत्यत आह—
यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् ।
खगाकारं हंसस्वरूपं यावत्पश्येत् यावत्पर्यन्तं साक्षात्कु-
र्यात्, तावत्पर्यन्तं तदाकारं परब्रह्मस्वरूपं पूर्वोक्तधारणया
प्रवृद्धायुः पुरुषः विचिन्तयेत् ध्यायेदित्यर्थः ॥
तादृशात्मसाक्षात्कारार्थं नैरन्तर्येण आत्मजगतोरभेदध्या-
नमाह—
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥
खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतद्-

प्रथमोऽध्यायः । ९
भिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च पर-
मात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् ।
आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचि-
दपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः ।
यद्वा, ख-शब्देन जीवोऽभिधीयते, 'आकाशशरीरं ब्रह्म'
इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं
बुद्ध्वा न किंचिदपि चिन्तयेदिति ॥
एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात्
इत्याह—
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ।
बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् ।
निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥
ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्च-
लज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः
ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं
प्राप्तः, तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाश-
स्थितं च निष्कलं कलातीतं तं ब्रह्म विजानीयात् बुध्येत् ॥
ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह—

१० उत्तरगीतायां
पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥
तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥
हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रद्वयविनिर्गतः वायुः
यत्र विलीयते लयं गच्छति, तस्मिन्मार्गे सम्यक् स्थितं मनः
कृत्वा तम् ईश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ।।
तमेव प्रकारमाह—
निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् ।
निर्मलं निष्कृष्टाहंकारचैतन्यात्मकम्, अत एव षडूर्मि-
रहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानी-
यात् ध्यायेदित्यर्थः
किं च,
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥
सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् ।
त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥
प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम्, तत्र हेतुः मनःशून्यं
मनोरहितम्, अत एव बुद्धिशून्यम् आसक्तिरहितं निरा-
मयं निर्व्याजम्, अत एव निराभासं भ्रमरहितम्, अत

प्रथमोऽध्यायः । ११
एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आन-
न्दैकरसं यत् ब्रह्म, तद्ध्यानं समाधिः । तस्य तस्मिन् स्थि-
तस्य किं लक्षणमित्याशङ्कयाह—त्रिशून्यं पूर्वोक्तप्रभादि-
शून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्थात्रय-
शून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभि-
धानात् । तादृशं ब्रह्म यो विजानीयात्, स समाधिस्थः
बन्धनात् संसारबन्धनात् मुच्येत मुक्तो भवति ॥
एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह—
स्वयमुच्चलिते देहे देही न्यस्तसमाधिना ।
निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥
देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते
गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्च-
लसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं
विजानीयात् । तदेव समाधिस्थितस्य आत्मयोगस्थितस्य
लक्षणमित्युच्यते ॥
इतोऽप्यात्मज्ञस्य लक्षणमुच्यते—
अमात्त्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् ।
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥

१२ उत्तरगीतायां
अमात्रं ह्रस्वदीर्घप्लुतादिरहितं शब्दरहितं शब्दातीतम्,
स्वरव्यञ्जनवर्जितम् अक्षरसमूहात्मकपदानाभिधेयम् बिन्दु-
नादकलातीतम् — अनुस्वारो बिन्दुः संवृते गळविवरे यद्दी-
र्घघण्टानिर्ह्रादवदनुरणनं स नादः, कला नादैकदेशः तैरती-
तम्, न यथाकथंचिच्छब्दवाच्यमित्यर्थः । एतादृशं ब्रह्म
यो वेद, स वेदवित् सकलवेदान्ततात्पर्यज्ञः नान्य इत्यर्थः ॥
एवं प्राप्तआत्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादि-
निवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह—
प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धशान्तिपदे देहे न योगो नैव धारणा ॥
ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके, यद्वा,
ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते
सति, ज्ञेये सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते
ह्यपरोक्षतया भासमाने सति, देहे देहोपाधिमति जीवे ल-
ब्धशान्तिपदे संप्राप्तब्रह्मभावे सति, तदा, योगोऽपि नास्ति
धारणा च नास्ति; सिद्धे फले साधनेन प्रयोजनाभावादिति
भावः ॥
एवमात्मतत्त्वापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते
इति तस्य स्वरूपमाह —

प्रथमोऽध्यायः । १३
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥
वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय वि-
धीयमानः वेदान्ते च सर्ववेदानामान्ते च उपर्युक्तक्रमणपरि-
हाराय प्रतिष्ठितः संस्थापितः, चकारात् सर्ववेदरक्षणाय वे-
दमध्ये च निपातितः यः स्वरः प्रणवात्मकः, तस्य प्रणवस्य
प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बो-
धकः, उपलक्षणं चैतत् सर्वप्राणेन्द्रियकरणवर्गप्रबोधकः सर्व-
नियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव
आत्मतत्त्वज्ञानी, नान्य इत्यर्थः ॥
आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधनप्रयासः
कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टा-
न्तमाह —
नावार्थी च भवेत्तावद्यावत्पारं न गच्छति ।
उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥
यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न संप्रा-
प्नोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरणसाधनप्लवनार्थी
भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया
U 2.

१४ उत्तरगीतायां
नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्व-
दत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति
भावः ॥
तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह—
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २० ॥
मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा,
ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं
सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः— धान्यार्थी धान्यसहितं
तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणिशं
तृणं यथा त्यजेत् तद्वदित्यर्थः ।
किंच—
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥
कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा
उल्काहस्तो भवति, पश्चाद्द्रव्यमालोक्य तदनन्तरं तामु-
ल्कां यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म
आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परि-
त्यजेत् इत्यर्थः ॥

प्रथमोऽध्यायः । १५
जाते चापरोक्षज्ञाने, तेन प्रयोजनाभावात् साधनं परि-
त्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह—
यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् ।
एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥
यथा अमृतेन सागरमथनोद्भूतेन अमृतेन तृप्तस्य संतु-
ष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति, एवं परमं तं ज्ञात्वा
परमात्मानमपरोक्षीकृत्य वेदैः वेदान्तशास्त्रादिभिः किं प्रयो-
जनम् , न किमपीत्यर्थः ॥
किंच, तत्त्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्ती-
त्याह—
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥
ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य
कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्यं
नास्ति, तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसं-
ग्रहार्थमेव, यद्यभिनिवेशेन कर्मासक्तिरस्ति, तर्हि स तत्त्व-
विन्न भवति, आरूढो न भवतीत्यर्थः ॥

१६ उत्तरगीतायां
अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति,
किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह—
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥
तैलधारामिवाविच्छिन्नं संततधारावत् विच्छेदरहितं दीर्घ-
घण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितम्
अवाच्यम् अवाज्ञानसगोचरं प्रणवस्य अकारोकारमकार-
बिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो
वेद, स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः ॥
तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह—
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥
आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं
कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं
शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या-
सात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगू-
ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं
पश्येत् ; नान्य इत्यर्थः ॥

प्रथमोऽध्यायः । १७
यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणाम् आह—
तादृशं परमं रूपं
स्मरेत्पार्थ ह्यनन्यधीः ।
विधूमाग्निनिभं देवं
पश्येदत्यन्तनिर्मलम् ॥ २६ ॥
हे पार्थ, विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम्
अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं
यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्टं
रूपं ब्रह्मस्वरूपम् , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत्
ब्रह्मधारणं कुर्यादित्यर्थः ॥
भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति—
दूरस्थोऽपि न दूरस्थः
पिण्डस्थः पिण्डवर्जितः ।
विमलः सर्वदा देही
सर्वव्यापी निरञ्जनः ॥ २७ ॥
देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य
परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;

१८ उत्तरगीतायां
किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य
शरीरसंबन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि, पिण्ड-
वर्जितः शरीरसंबन्धाध्यासरहितः; तत्र हेतुः -- विमलः
निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयंप्रकाशश्च ।
एवं ध्यायेदिति पूर्वेण संबन्धः ॥
किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिक-
मात्मनो नास्ति इत्याह --
कायस्थोऽपि न कायस्थः
कायस्थोऽपि न जायते ।
कायस्थोऽपि न भुञ्जानः
कायस्थोऽपि न बध्यते ॥ २८ ॥
देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्थः
शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादियुक्तशरीर-
स्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । काय-
स्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोग-
रहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते
बन्धनं न प्राप्नोतीत्यर्थः ॥
किंच--

प्रथमोऽध्यायः । १९
कायस्थोऽपि न लिप्तः स्या-
त्कायस्थोऽपि न बाध्यते ।
कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः
स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण-
धर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन
जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥
यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तस्यैव देहा-
न्तःकरणादावात्मा विचारणीय इत्याह—
तिलमध्ये यथा तैलं
क्षीरमध्ये यथा घृतम् ॥ २९ ॥
पुष्पमध्ये यथा गन्धः
फलमध्ये यथा रसः ।
काष्ठाग्निवत्प्रकाशेत
आकाशे वायुवच्चरेत् ॥ ३० ॥
आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रा-
दिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते,
क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदको-

२० उत्तरगीतायां
पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम-
द्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये
यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या-
गेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन्
वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः
मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया
भासते, तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयां-
शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत
इत्यर्थः ॥
एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति —
तथा सर्वगतो देही
देहमध्ये व्यवस्थितः ।
मनस्थो देहिनां देवो
मनोमध्ये व्यवस्थितः ॥ ३१ ॥
तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः दे -
हमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्न -
तिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन
भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः

प्रथमोऽध्यायः । २१
मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया
भासत इत्यर्थः ॥
तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह—
मनस्थं मनमध्यस्थं
मध्यस्थं मनवर्जितम् ।
मनसा मन आलोक्य
स्वयं सिध्यन्ति योगिनः ॥ ३२ ॥
मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्य-
स्थं सर्वसाक्षिभूतम् मनवर्जितं संकल्पविकल्पादिरहितं मनः
अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य
तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सि-
ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ॥
तेषां लक्षणमाह—
आकाशं मानसं कृत्वा
मनः कृत्वा निरास्पदम् ।
निश्चलं तद्विजानीया-
त्समाधिस्थस्य लक्षणम् ॥ ३३ ॥
61606

१२ उत्तरगीतायां
आकाशवन्मानसं मनो निर्मलं कृत्वा मनः संकल्पविक-
ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी-
श्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव
समाधिस्थस्यापि लक्षणमित्यर्थः ॥
आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह—
योगामृतरसं पीत्वा
वायुभक्षः सदा सुखी ।
यममभ्यस्यते नित्यं
समाधिर्मृत्युनाशकृत् ॥ ३४ ॥
योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृ-
त्वा तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा-
हारः, उपलक्षणमेतत् , हितमितमेध्याशी, सदा सुखी सर्वदा
संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा-
धिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसं-
सारनाशकृदित्यर्थः ॥
तादृशसमाधौ स्थितस्य लक्षणमाह—
ऊर्ध्वशून्यमधःशून्यं
मध्यशून्यं यदात्मकम् । ६५: ईश्वर