सामग्री पर जाएँ
सर्वकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 25, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 25

१६ उत्तरगीतायां
अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति,
किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह—
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥
तैलधारामिवाविच्छिन्नं संततधारावत् विच्छेदरहितं दीर्घ-
घण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितम्
अवाच्यम् अवाज्ञानसगोचरं प्रणवस्य अकारोकारमकार-
बिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो
वेद, स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः ॥
तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह—
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥
आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं
कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं
शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या-
सात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगू-
ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं
पश्येत् ; नान्य इत्यर्थः ॥

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका) · पृष्ठ 25, कुल 86 में से · SarvaKosh