सामग्री पर जाएँ
सर्वकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 16, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 16

प्रथमोऽध्यायः । ७

विद्यया संहरति इति न्यायात् । मकारस्य जीवत्वाकारस्य
लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपो-
ऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसंधानवान् संप्रति-
पद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारा-
न्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः ।
धकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः
शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्यालोपवतो ब्र-
ह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्य-
स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति
शेषः । तथा च श्रुतिः 'आप्लवस्व प्रप्लवस्व, आण्डी भव ज
मा मुहुः, सुखादीं दुःखानिधनाम्, प्रतिमुञ्चस्व स्वां पुरम्'
इति । अस्यार्थः—हे ज जननमरणयुक्तजीवत्वमाप्लवस्व जी-
वन्मुक्तो भव प्रप्लवस्व प्रारब्धान्मुक्तो भव, आण्डी ब्रह्मा-
ण्डान्तर्वर्ती संसारी मुहुर्मा भव मा भूः । संसारी चेत् किमप-
राध इत्याशङ्क्याह—सुखादीम वैषयिकसुखहेतुं दुःखनिधनां
दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेह-
द्वयं प्रतिमुञ्चस्व त्यज ॥

एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्त-
रीयकफलमप्याह—