उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 28, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । १९
कायस्थोऽपि न लिप्तः स्या-
त्कायस्थोऽपि न बाध्यते ।
कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः
स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण-
धर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन
जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥
यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तस्यैव देहा-
न्तःकरणादावात्मा विचारणीय इत्याह—
तिलमध्ये यथा तैलं
क्षीरमध्ये यथा घृतम् ॥ २९ ॥
पुष्पमध्ये यथा गन्धः
फलमध्ये यथा रसः ।
काष्ठाग्निवत्प्रकाशेत
आकाशे वायुवच्चरेत् ॥ ३० ॥
आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रा-
दिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते,
क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदको-