सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

श्लोकः २५५ ] प्रथमाह्निकम् । २६७
तथान्तरपरामर्श-
निश्चयात्मतिरोहितेः ।
प्रसरानन्तरोद्भूत-
संहारोदयभागपि ॥२५४॥
यावत्येव भवेद्बाह्य-
प्रसरे प्रस्फुटात्मनि ।
अनुन्मीलितरूपा सा
षष्टी तावति भरायते ॥२५५॥
तथा – परमाद्वयमयत्वेन, आन्तरः – प्रमात्रैकात्म्य-
रूपो, योऽसौ परामर्शः, तस्य निश्चयो – दाढ्यं,
तदात्मनस्तिरोहितेः – उत्तरोत्तरस्य रूपस्य पूर्वपूर्व-
त्रानवस्थितेः, प्रसरात् – बाह्योन्मुख्यात्, अनन्तर-
मुद्भूतौ यौ संहारश्च – पराद्यात्मनो रूपस्य स्वात्मन्येव
विश्रान्तिः, उदयश्च – पश्यन्त्याद्यात्मना रूपेण
बहिरुद्भवः तौ भजते, तद्रूपा हि सा संवित् यावति
प्रस्फुटात्मनि – ग्राह्यग्राहकयुगलकाद्याभासस्वभावे
पं० ६ क० पु० अस्फुटात्मता इति पाठः ।
पं० १३ ख० पु० संहार उदयश्च पराद्यात्मना रूपेण बहिरुद्भवस्तावितीयान्
पाठः ।

२६८ श्रीतन्त्रालोकः ।
बाह्यप्रसरे, अनुन्मीलितरूपा - संविद्रूपत्वेन अनव-
भासमाना भवेत्, तावत्येव अनुद्घाटितात्मत्वेन
प्रथनात् 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५४॥२५५॥
न केवलं संविदः प्रष्टृत्वमेव अस्ति, यावत् प्रश्ना-
दिरूपत्वमपि इत्याह
स्वयमेवं विबोधश्च
तथा प्रश्नोत्तरात्मकः ।
गुरुशिष्यपदेऽप्येष
देहभेदो ह्यतात्त्विकः ॥२५६॥
तदुक्तं
'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः ।
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥'
इति । तथा
'प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता ।'
इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षा-
दुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ?
पं० १ ख० पु० रूपेणावभासमानेति पाठः ।
पं० १२ क० पु० वाक्यैस्तन्त्रमाधारभेदत इति पाठः ।
पं० १४ क० पु० द्वयं देवीति पाठः ।
पं० १६ क० पु० अनयोरभेदरूपत्वमिति पाठः ।

श्लोकः २५८ ] । प्रथमाह्निकम् । २६८
इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः ।
बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि
तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥
तदाह
बोधो हि बोधरूपत्वा-
दन्तर्नानाकृतीः स्थिताः ।
बहिराभासयत्येव
द्राक्सामान्यविशेषतः ॥२५७॥
बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष-
णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः –
तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन-
मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव-
भासयत्येव इति वाक्यार्थः ॥२५७॥
तत्र सामान्यस्य किं नाम बहिरवभासनम् ?
इत्याह
स्रक्ष्यमाणाविशेषांशा-
कांक्षायोग्यस्य कस्यचित् ।
पं० ११ क० पु० निरवलम्बमेवेति पाठः ।
पं० १४ क० पु० बहिरवभानमिति पाठः ।

२७० श्रीतन्त्रालोकः ।
धर्मस्य सृष्टिः सामान्य-
सृष्टिः सा संशयात्मिका ॥२५८॥
स्रक्ष्यमाणाः - स्वालक्षण्येन उल्लासयिष्यमाणा,
ये विशेषांशाः, तत्र
'निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।'
इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा -
औन्मुख्यं, तत्र योग्यस्य - तदौन्मुख्याभावेऽपि सर्व-
गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित्
नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः
सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म-
प्रथारूपत्वात् 'संशयः' इति - विशेषाकांक्षानुगुण-
सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥
एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह
स्रक्ष्यमाणो विशेषांशो
यदा तूपरमेत्तदा ।
निर्णयो मातृरुचितो
नान्यथा कल्पकोटिभिः ॥२५९॥
पं० १६ क० पु० निर्णये मातृरुचिते इति पाठः ।

श्लोकः २६० ] प्रथमाह्निकम् । २७१
यदा पुनर्निश्चयोपयोगिनां सर्वविशेषाणां सृष्ट-
त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् - विशेषविषया
सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा-
रूपत्वात् 'स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः
स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम्
इत्युक्तं 'मातुरुचितः' इति । प्रमाता हि यावदेव
'ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं
भवति इति भावः, अन्यथा पुनः स कदाचिदपि
न भवेत् - प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह
'नान्यथा कल्पकोटिभिः' इति ॥ २५६ ॥
न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल-
क्षणादिरूपत्वमपि इत्याह
तस्याथ वस्तुनः स्वात्म-
वीर्याक्रमणापाटवात् ।
उन्मुद्रणां तयाकृत्या
लक्षणोत्तरनिर्णयाः ॥२६०॥
पं० ५ क० पु० प्रमात्रिच्छयैव निर्बन्ध इति पाठः ।
पं० ९ क० ग० पु० मात्रिच्छायामेव विश्रान्तेरिति पाठः ।
पं० ११ ख० पु० निश्चयमात्रत्वमिति पाठः ।
पं० १६ क० पु० निर्णयमिति पाठः ।

२७२ श्रीतन्त्रालोकः ।
तस्य – विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्यं –
तदितरपरावृत्तत्वं, तस्य आक्रमणं – स्वात्मना विष-
यीकरणं, तत्र पाटवं – नैराकांक्ष्यात्तीव्रत्वं, ततो यत्
तेनैव आकारेण उन्मुद्रणं – प्रतिनियतस्वस्वरूपावि-
ष्करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात्
'लक्षणम्' इति 'उत्तरम्' इति 'निर्णय' इति चोच्यते ।
तत्र – असाधारणस्तत्त्वावबोधको धर्मो लक्षणं,
तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो
निर्णयः ॥२६०॥
ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि
लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह
निर्णीततावद्धर्मांश-
पृष्ठपातितया पुनः ।
भूयो भूयः समुद्देश-
लक्षणात्मपरीक्षणम् ॥२६१॥
पं० १ क० पु० स्वात्मवीर्यमिति समस्तपाठः ।
पं० ५ क० पु० तदुद्घाटिताऽप्रथममयत्वेति पाठः ।
पं० ११ क० पु० नियतवत्कथमिति पाठः ।
पं० १२ ख० पु० निर्णीतं तावदिति पाठः ।

श्लोक २६३ ] प्रथमाह्निकम् । २७३
निर्णीतो - निर्णयविषयीकृतः, तावान् - नियत-
लक्षणलक्ष्यो, योऽसौ धर्मांशः - तद्विषयतया पौनः-
पुन्येन यः समुद्देशः, यच्च लक्षणं - साधारणासाधा-
रणधर्मनिरूपणं, तदात्मकं, पुनः परितः - सर्वतो
निःशेषप्रतिपन्नप्रतिनेपेण ईक्षणं - परीक्षा इति
वाक्यार्थः ॥२६१॥
एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह
दृष्टानुमानौपम्याप्त-
वचनादिषु सर्वतः ।
उद्देशलक्षणावेक्षा-
त्रितयं प्राणिनां स्फुरेत् ॥२६२॥
एतदेव क्रमेण दर्शयति
निर्विकल्पितमुद्देशो
विकल्पो लक्षणं पुनः ।
परीक्षणं तथाध्यक्षे
विकल्पानां परम्परा ॥२६३॥
पं० २ क० पु० लक्षणलक्ष्यो योशो धर्मेति पाठः ।
पं० ५ क० पु० प्रतिनेपेण लक्षणमिति पाठः ।
पं० ६ क० पु० सर्वश इति पाठः ।
पं० १४ क० पु० विकल्पे प्रीणितं स्फुरेदिति पाठः ।
३५

२७४ । श्रीतन्त्रालोकः ।
नगोऽयमिति चोद्देशो
धूमित्वादग्निमानिति ।
लक्ष्यं व्याप्त्यादिविज्ञान-
जालं त्वत्र परीक्षाम् ॥२६४॥
उद्देशोऽयमिति प्राच्यो
गोतुल्यो गवयाभिधः ।
इति वा लक्षणं शेषः
परीक्षोपमितौ भवेत् ॥२६५॥
स्वःकाम ईदृगुद्देशो
यजेतेत्यस्य लक्षणम् ।
अग्निष्टोमादिनेत्येषा
परीक्षा शेषवर्तिनी ॥२६६॥
उद्देशः इति – आलोचनमात्रस्य अनुद्घाटितात्म-
प्रथारूपत्वात् । लक्षणम् इति – नीलमिति विकल्पेन
निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पा-
नाम् इति – अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव
पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः ।
पं० १० ख० पु० यजेतेस्य स्वलक्षणमिति पाठः ।

श्लोक १६६ ] प्रथमाह्निकम् । २७५
च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् ।
उद्देशः इति – नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा-
टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति – साध्य-
धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या-
प्तिः– अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयो-
रविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् ।
अयमिति – पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटिता-
त्मत्वेन प्रथनात् । प्राच्यः इति – प्रथमो धर्मिविशेषान-
वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति – प्रमा-
णदशायां, गवयशब्दवाच्योऽयम् इति – फलदशायां
च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये,
तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म-
प्रथारूपत्वात् लक्षणत्वम् । शेषः इति – सास्नादिम-
द्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति –
स्वःकामः इत्येव । अस्य इति – स्वःकामस्य । लक्ष-
पं० १ क० पु० इत्येषा परीक्षोद्देश इति पाठः ।
पं० ५ क० ख० साध्यवर्तिसाधनेति पाठः ।
पं० ६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः ।
पं० ११ क० पु० विशेषावच्छेदभावित्वादिति पाठः ।
पं० १३ ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः ।

२७६ श्रीमत्तन्त्रालोकः ।
णाम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त-
रेणानिर्णयात् । शेषवर्तिनी इति
'शेषः परार्थत्वात् ।'
इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य-
ता इत्यर्थः । परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग-
कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३ ॥ २६४ ॥
२६५ ॥ २६६ ॥
ननु स्त्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः
'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु-
चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि
अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु-
वादपुरःसरं प्रतिक्षिपति ।
विकल्पस्रक्ष्यमाणान्य-
रुचितांशसहिष्णुनः ।
वस्तुनो या तथात्वेन
सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥
पं० २ क० पु० शेषवर्तिनेति शेष इति पाठः ।
पं० ६ क० पु० निस्तुषीकरणवदिति पाठः ।
पं० १० क० पु० तदानीन्तनस्येति पाठः ।
पं० १४ क० पु० सहिष्णव इति पाठः ।

श्लोक २६८ ] प्रथमाह्निकम्। २७७
तदैव संविच्चिनुते
यावतः स्रक्ष्यमाणता ।
विकल्पेन – तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट-
त्वात्, तदपेक्षया स्रक्ष्यमाणाः – लक्षणात् उल्लस-
यिष्यमाणा, अत एव अन्ये – ये सामान्यव्यतिरिक्ताः
प्रमातुः संतोषादायकत्वाच्च, रुचिता – इष्टाः, ये
अंशा – विशेषाः, तान् – अर्थात् व्याप्यत्वेन सहते
तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः,
तथात्वेन – स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेष-
सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः – अभिधानं,
तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता
तावत्, तदैव – उद्देशावसरे, संविच्चिनुते – अनुसंधत्ते
इत्यर्थः ॥२६७॥
तत्र हेतुः
यतो ह्यकालकलिता
संधत्ते सार्वकालिकम् ॥२६८॥
हि-शब्दो वाक्यालङ्कारे ॥२६८॥
पं० ३ क० पु० विकल्पे तत्प्रधानेति पाठः ।

२७८ श्रीतन्त्रालोकः ।
ननु उद्घातितात्मप्रथारूपत्वे सति लक्षणस्य
सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यं ? किं
वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः* स्यात्
इत्याशंक्याह
स्रक्ष्यमाणस्य या सृष्टिः
प्राक्सृष्टांशस्य संहतिः ।
अनूद्यमाने धर्मे सा
संविल्लक्षणमुच्यते ॥२६६॥
इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित्
लक्षणं - व्यवहरणबीजमिति । तत्र सृज्यमानस्य
विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संह्रिय-
माणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्य-
त्वम् इत्यस्त्येव विवेकः ॥२६६॥
ननु
'भूयो भूयः समुद्देशलक्षणात्म परीक्षणम् ।'
*यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा सामान्य-
विशेषयोर्वैविक्त्येन प्रथनाल्लक्ष्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामा-
न्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति 'एकत्र द्वियोगः संकरा-
ख्यदोषदूषितः संभवेदिति भावः ।'
पं० १० क० ग० पु० लक्षणव्यवहरणबीजं सा इति पाठः ।

श्लोक २७१ ] प्रथमाह्निकम् । २७६
इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया
अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां
प्रतिक्षिपति
तत्तृष्टपातिभूयोंश-
सृष्टिसंहारविभ्रमाः ।
परीक्षा कथ्यते मातृ-
रुचिता कल्पितावधिः ॥२७०॥
ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा-
वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव
विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना
स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशं-
क्याह
प्राक्पश्यन्त्यथ मध्यान्त्या
वैखरी चेति ता इमाः ।
परा परापरा देवी
चरमा त्वपरात्मिका ॥२७१॥
पं० ७ क० पु० कल्पितो विधिरिति पाठः ।
पं० ३ क० पु० चमत्कारमात्रविमर्शोति पाठः ।
पं० १६ क० पु० त्वपरा मता इति पाठः ।

२८० श्रीतन्त्रालोकः ।
ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्य-
न्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशंक्याह
❊इच्छादि शक्तित्रितय-
मिदमेव निगद्यते ।
पूर्वेण संबन्धः ।
एतत्प्राणित एवायं
व्यवहारः प्रतायते ॥२७२॥
सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः सं-
विद्भित्तावेव अवभासते इति भावः । तदुक्तं
'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥'
इति ॥२७२॥
न केवलमेषाम् एवं-रूपत्वं, यावत्
'परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः ।
संबन्धः षड्विधस्तन्त्रे....................॥'
इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह
❊ तदियानत्रार्थः - य एव पशुप्रमातृभी रुद्देशादित्रयरूपतया विकल्पत्वेन व्यवहारो
निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एव उपादेयत्वेन कथितः ।
पं० १० क० पु० इत्यमित्यर्थभिन्नेति, ख० पु० इत्थमत्यन्तभिन्नार्थेति पाठः ।
पं० १४ क० पु० मिश्रस्त्वमिश्रक इति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८१
एतत्प्रश्नोत्तरात्मत्वे
पारमेश्वरशासने ।
परसंबन्धरूपत्व-
मभिसंबन्धपञ्चके ॥२७३॥
एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते आत्मा
स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति इत्यर्थः ।
प्रष्टृतद्वक्तोरेव संबन्धो भवति इति भावः । संबन्ध-
पञ्चके इति महदादिके । षष्ठो हि परः संबन्धः
सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति
पृथगिह नोक्तः ॥ २७३ ॥
एतच्च स्वोपज्ञमस्माभिर्नोक्तम्, इत्याह
यथोक्तं रत्नमालायां
सर्वः परकलात्मकः ।
महानवान्तरो दिव्यो
मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥
रत्नमालायाम् इति — श्रीकुलरत्नमालायाम्, उक्तम्
इति अर्थतो, न तु शब्दतः । तत्र
पं० १५ क० पु० मिश्रोऽन्योर्थस्तु पञ्चमेति पाठः ।
३६

२८२ श्रीतन्त्रालोकः ।
'अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् ।
तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥
अदृष्टविग्रहश्चैव स शान्त इति गीयते ।
तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥'
इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना
प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकला-
त्मकत्वमुक्तम् । अत एव च एतदेव
'सृष्टिमार्गानुसारेण आयातश्चावनीतले ।
कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥'
इत्यनेन उपसंहृतम् । मिश्रॊ - दिव्यादिव्यः । अन्यो-
ऽन्यः इति - दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्यो-
ऽपि अदिव्यः इति । दिव्य-दिव्यादिव्य-अदिव्यात्मना
त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरे-
तरशब्देन उक्तः । तदुक्तं
'महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः ।
इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥'
इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य,
पं० १ क० पु० आमृष्टमिति पाठः ।
पं० ६ क० पु० महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः ।
पं० १० क० पु० इत्यत्रोपसंहतमिति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८३
तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमा-
रादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्यो-
ऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव
'शिवस्य परिपूर्णस्य परस्यामिततेजसः ।
तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥
सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः ।
अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ॥
प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः ।
तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ॥
द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः ।
ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥
चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः ।
व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥
शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः ।
इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥'
इति ॥२७४॥
परकलात्मत्वमेव व्याचष्टे
भिन्नयोः प्रष्टृतद्वक्त्रो-
श्चैकात्म्यं यत्स उच्यते ।
पं० ६ क० पु० सतत्त्वं तेनेति पाठः ।
पं० १० क० पु० देवात्तमप्येवमिति पाठः ।
पं० १२ क० पु० चतुर्थस्तद्भगवतेति पाठः ।

२८४ श्रीतन्त्रालोकः ।
प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छ-
ब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे
संविदाढ्यैकात्म्यात् संबन्धः - तस्य भेदाभेदरूप-
त्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगल-
नात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः
संबन्धः ॥
तदाह
संबन्धः परता चास्य
पूर्णैकात्म्यप्रथामयी ॥२७५॥
परता हि पूर्णैकात्म्यप्रथालक्षणा । पूर्णे हि
सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि
संबन्धेषु अस्ति इति युक्तमुक्तं 'सर्वः परकलात्मकः'
इति । तदुक्तं
'संबन्धः परमेशानि सर्वः परकलामयः ।
महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥'
इति ॥२७५॥
संबन्धान्तरेष्वपि एतदेवातिदिशति
पं० ४ क० पु० ऐकात्म्यं च यदेति पाठः ।
पं० ५ क० पु० सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।

श्लोकः २७८ ] प्रथमाह्निकम् । २८५
अनेनैव नयेन स्या-
त्सम्बन्धान्तरमप्यलम् ।
शास्त्रवाच्यं फलादीनां
परिपूर्णत्वयोगतः ॥२७६॥
एतदेव संकलयति
इत्थं संविदियं देवी
स्वभावादेव सर्वदा ।
उद्देशादित्रयप्राणा
सर्वशास्त्रस्वरूपिणी ॥२७७॥
इत्थम्-उक्तेन प्रकारेण, सर्वदा संविदेव इयं भग-
वती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना
शास्त्रेण स्वरूपिणी-शास्त्रात्मना संविदेव अवभा-
सते इत्यर्थः ॥२७७॥
तत्र उद्देशस्वरूपमेव तावदाह
तत्रोच्यते पुरोद्देशः
पूर्वजानुजभेदवान् ।
पं० १ क० पु० अनेनैव त्रयेणेति पाठः ।
पं० ११ घ० पु० स्वातन्त्र्यात् आदेशादीति पाठः ।

२८६ श्रीतन्त्रालोकः ।
विज्ञानभिद्गतोपायः
परोपायस्तृतीयकः ॥२७८॥
शाक्तोपायो नरोपायः
कालोपायोऽथ सप्तमः ।
चक्रोदयोऽथ देशाध्वा
तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥
कलाद्यध्वाध्वोपयोगः
शक्तिपाततिरोहिती ।
दीक्षोपक्रमणां दीक्षा
सामयी पौत्रिके विधौ ॥२८०॥
प्रमेयप्रक्रिया सूक्ष्मा
दीक्षा सद्यःसमुत्क्रमः ।
तुलादीक्षाथ पारोक्षी
लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥
अन्त्येष्टिः श्राद्धक्लृप्तिश्च
शेषवृत्तिनिरूपणम् ।
लिङ्गार्चा बहुभित्पर्व-
पवित्रादि निमित्तजम् ॥२८२॥
पं० ३ क० पु० शाक्तोपायोऽप्यणूपाय इति पाठः ।