तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
११२ श्रीतन्त्रालोकः।
परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदोऽपि पार-
मार्थिक एव इति वाक्यार्थः । एवं भेदस्य भानै-
कस्वभावत्वान्न ततोऽतिरेकः इति नाद्वयवादक्षतिः,
नापि शक्तीनां, तद्वतश्च भेदेन स्थितस्य व्यवहार-
स्यापह्नवः इति सर्वं सुस्थम् ॥७१॥
ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्ति
इत्युक्तम्, इच्छादयस्तु किं तद्विस्फूर्जितमात्रम्, उत
स्वतन्त्राणि शक्त्यन्तराणि ? इत्याशङ्क्याह
स्वशक्त्युद्रेकजनकं
तादात्म्याद्वस्तुनो हि यत् ।
शक्तिस्तदपि देव्येवं
भान्त्यप्यन्यस्वरूपिणी ॥७२॥
यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्न्यादेः
वस्तुनः-स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनि-
मित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्य-
लक्षणायाः शक्तेः उद्रेको दाहपाकादिविशेषरूप-
पं० ४ ख० पु० व्यवहारस्यानपह्नव इति पाठः ।
पं० ११ क० पु० देवीयं भात्यपीति पाठः ।
श्लोक ७३ ] प्रथमाह्निकम् । ११३
शक्त्यन्तरात्मतयोच्छलनं तस्य जनकम् अवभासकं,
तदपि तादात्म्यात् एवं-विधस्वशक्त्येकरूपत्वाद्य-
थोक्तरूपा स्वैव शक्तिः इति संबन्धः । समर्थो हि
वह्निः सर्वं दाह्यादिकार्यजातं कुर्यात् इत्यभिप्रायः ।
एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयाव-
भासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशा-
भिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव
इति युक्तमुक्तम्-‘एक एवास्य धर्मोऽसौ सर्वाक्षेपेण
वर्तते ।' इति । एवमेकैवास्य स्वातन्त्र्याख्या शक्ति-
स्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् ॥७२॥
न केवलं शक्तिरेवास्यैवंकल्पितेन भेदेनावभासते
यावत्स्वयमपीत्याह
शिवश्चालुप्तविभव-
स्तथा सृष्टोऽवभासते ।
पं० ५ क० पु० रूपतयावभासनापीति पाठः ।
पं० ६ क० पु० शक्तिस्तथा सृष्टेनेति द्वितीयतथापदहीनः पाठः ।
पं० १० ग० पु० भेदेन भातीति इति पाठः ।
पं० ११ ख० पु० न केवलमस्य शक्तिरेवंकल्पितेनेति पाठः ।
१५
११४ श्रीतन्त्रालोकः ।
स्वसंविन्मातृमकुरे
स्वातन्त्र्याद्भावनादिषु ॥७३॥
शिवश्च स्वा संकुचिता संवित् लक्षणां यस्या-
सौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स
एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः तस्मिन्
भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्य-
मानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापा-
दित इव अवभासते, न चैवमप्यसौ प्रमात्रैकरूप-
त्वात् तथा भवति इत्युक्तम् – अलुप्तविभव इति,
अपरिहृतप्रमातृभावः इत्यर्थः । तदुक्तं
‘स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥’ (ई० प्र० १-५-१६)
इति ॥७३॥
एतदेवोपसंहरति
तस्माद्येन मुखेनैष
भात्यनंशोऽपि तत्तथा ।
पं० ४ क० ग० पु० परिनिष्ठितप्रभावः प्रमाता इति पाठः ।
पं० ६ ग० पु० अविलुप्तविभव इति अपरित्यजितप्रमातृभाव इति पाठः ।
पं० ११ ‘स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।’ इत्येवं विधः पाठो
मूलग्रन्थेऽस्ति ।
श्लोक ७४ ] प्रथमाह्निकम् । ११५
शक्तिरित्येष वस्त्वेव
शक्तितद्वत्क्रमः स्फुटः ॥७४॥
तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन
भेदेन अवभासनोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रै-
करूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांश-
लक्षणेन मुखेन भावनादौ भासते तत् मुखं
‘....................शैवी मुखमिहोच्यते ।’
इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव,
नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते
वा । अतश्च शक्तिशक्तिमतोरुपायोपेयभावात्मा
क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः
इत्यर्थः ॥७४॥
अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र आग-
मेषु उद्घोष्यते इत्याह
पं० ४ क० पु० प्रकाशमात्ररूपत्वात् इति पाठः ।
पं० ६ ख० पु० उपायान्तरमप्युपपद्यते इति पाठः ।
पं० १३ ख० पु० अत एव चानयोरिति पाठः ।
११६ श्रीतन्त्रालोकः ।
श्रीमत्किरणशास्त्रे च
तत्प्रश्नोत्तरपूर्वकम् ।
अनुभावो विकल्पोऽपि
मानसो न मनः शिवे ॥७५॥
अविज्ञाय शिवं दीक्षा
कथमित्यत्र चोत्तरम् ।
तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति
वाक्यशेषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य
द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्या-
दिना । तत्र गरुडेन
'शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः ।
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥'
इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति
पृष्टे, भगवता
'माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः ।
मायाधर्मैः शिवः शून्यः..................॥'
इत्यादिना
'अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् ।
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ॥'
पं० १८ ख० पु० अनुभवेन किम् इत्येवंविधः पाठः ।
श्लोक ७५ ] प्रथमाह्निकम् । ११७
इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि
मानसप्रत्यक्षविषयत्वात् किंचित्त्वेन प्रतिसमाहितम् ।
एतच्च पुनरप्यागूर्य गरुडेन
'अनुभावो विकल्पोत्थो विकल्पो* मानसः स च ।
समनस्कं च तज्ज्ञेयममनस्कमरूपकम् ॥
अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ ।
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥'
इत्यादिना पृष्टम् । एतत्प्रश्नार्थ एव ग्रन्थकृता
संक्षेपचिकीर्षया स्ववचसोपनिबद्धः । अत्रायमर्थः—
यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्ष-
विषयत्वमुक्तं तत्र मानसोऽनुभवः
'संकल्पकमत्र मनः................... ।
- तदिति मानसविकल्पनं समनस्कं, शिवतत्त्वं पुनरमनस्कमरूपकं च, अर्थ
इति दीक्षादिः प्रवर्तते इत्यर्थः ।
पं० १० बुभुक्षादि हि चक्षुरादिप्रत्यक्षागोचरमपि मनोगोचरतामेति तद्वदिहापि ।
पं० ३ क० पु० पुनरागूर्येति पाठः ।
पं० ६ ग० पु० दैशिकस्तत्रेति पाठः ।
११८ श्रीतन्त्रालोकः।
इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य
चार्थसंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न
प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत्
इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि
परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत
एव ‘गुरौ ज्ञानम्’ इत्याद्युक्तम् । इति शब्दः प्रश्न-
समाप्तौ । अत्र इति गरुडोक्ते प्रश्ने । उत्तरम्
इति भगवदुक्तं प्रतिसमाधानम् ॥ ७५ ॥
तदेवाह
क्षुधाद्यनुभवो नैव
विकल्पो नहि मानसः ॥७६॥
न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन
योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो
बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न
भवति इत्यर्थः । आसां हि प्रथममविकल्पकमानसप्र-
दं० ४ क० पु० अज्ञापितेऽपि शिवतत्त्वे इति, ख० पु० अविज्ञाते
इति पाठः।
श्लोक ७६ ] प्रथमाह्निकम् । ११९
त्यक्षविषयत्वमप्यस्ति , अन्यथा तत्पृष्ठभाविनो
बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सवि-
कल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः ,
तस्य वस्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं
शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु
शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे
*
‘क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् ।
वस्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः ।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः ॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया ।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥’
इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचा-
रेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्
- यदुक्तं, तस्य चार्थासंस्पर्शीत्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्वा-
श्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्वाश्रय इति हेतुत्वेनोक्तः ,
यदि वस्वाश्रयत्वं तर्हि घटवत् किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम् ,
तत्र हेतुः विकल्पो मानस इत्यादि ।
पं० ३ ख० पु० मानसप्रत्यक्षगोचरत्वे इति पाठः ।
पं० ५ क० पु० मानसगोचरो भवेत् इति पाठः ।
पं० १३ क० ग० पु० यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।
१२० श्रीतन्त्रालोकः ।
इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् ।
अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया
दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥
ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु
अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति-
नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन
शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी-
भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह
रसाद्यनध्यक्षत्वेऽपि
रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु
नादबिन्द्वादिना शिवम् ॥७७॥
विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः ।
तेन स १ तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव
गृह्णाति न रसाद्यात्मनापि निय २ तत्त्वात्तद् ३ ग्रहणस्य,
१ स, विकल्पः ।
२ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ।
३ रसरूपादेरित्यर्थः ।
पं० १ ख० पु० अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः ।
पं० ६ क० पु० नियताभिनिवेशित्वादिति पाठः ।
श्लोक ७७ ] प्रथमाह्निकम् । १२१
नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ
इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत्
नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव
भवति इति सिद्धान्तः । तदुक्तं तत्रैव
'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते ।
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥
गृह्यते तत्स्वभावेन वस्तुभावविवर्जनात् ।'
इति । तथा
'बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः ।
चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥
अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः ।
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥'
इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः
इति सिद्धम् । सा च भुवनादिरूपतया अनन्त-
प्रकारा इत्युक्तप्रायम् ॥७७॥
एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च
तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं
परमेश्वरस्य शक्तिस्फार एव इत्याह
पं० १७ क० पु० जाग्रदवस्थादि इति पाठः ।
१६
१२२ श्रीतन्त्रालोकः ।
बहुशक्तित्वमस्योक्तं
शिवस्य यदतो महान् ।
कलातत्त्वपुरार्णा¹णु²-
पदादिभेदविस्तरः ॥७८॥
सृष्टिस्थितितिरोधान-
संहारानुग्रहादि च ।
तुर्यमित्यपि देवस्य
बहुशक्तित्वजृम्भितम् ॥७९॥
जाग्रत्स्वप्नसुषुप्तान्य-
तदतीतानि यान्यपि ।
तान्यप्यमुष्य नाथस्य
स्वातन्त्र्यलहरीभरः ॥८०॥
महामन्त्रेशमन्त्रेश-
मन्त्राः शिवपुरोगमाः ।
अकलौ सकलश्चेति
शिवस्यैव विभूतयः ॥८१॥
१ अर्णः वर्णाध्वा, २ अणुः मन्त्राध्वा ।
पं० ७ ग० पु० उक्तमित्यपीति पाठः ।
पं० ६ ख० पु० सुषुप्तानि तदतीतानीति पाठः ।
श्लोक ८२ ] प्रथमाह्निकम् । १२३
पदादि इति आदिशब्देन भूतभावग्रहणम् ।
सृष्टिस्थिती इत्यनेन कृत्यभेद उक्तः । तुर्यमित्य-
न्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् ।
अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतं, तेन स्थितौ
संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैत-
त्स्यात्, अन्यत्तुर्यं, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद
उक्तः । अकलौ इति विज्ञानाकलप्रलयाकलौ ।
अनेन प्रमातृभेदः ॥७८॥७६॥८०॥८१॥
तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगत-
श्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया
वर्तते इत्याह
तत्त्वग्रामस्य सर्वस्य
धर्मः स्यादनपायवान् ।
आत्मैव हि स्वभावात्मे-
त्युक्तं श्रीत्रिशिरोमते ॥८२॥
पं० २ क० पु० इत्यन्यशब्दवाच्यमिति पाठः ।
पं० ४ क० पु० चतुष्टयस्याप्यासूत्रणमिति पाठः ।
पं० १० ख० पु० परमात्मा शिव इति पाठः ।
पं० १२ क० पु० तत्त्वग्रामस्य शार्वस्येति पाठः ।
१२४ श्रीतन्त्रालोकः ।
द्विविधो हि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान-
हेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण
गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्ला-
दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह
आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो
धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम् ।
हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याश-
ङ्क्योक्तम् ‘इत्युक्तं त्रिशिरोमत’ इति ॥८२॥
तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया
द्वैविध्येन प्रवृत्तेरुभयथाप्याह
हृदिस्थं सर्वदेहस्थं
स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां
ग्रामशब्देन कीर्तितम् ॥८३॥
समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थ-
वृत्तिः ।
‘कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।’
इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे
पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।
श्लोक ८४ ] प्रथमाह्निकम् । १२५
चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम्
इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि
नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं,
तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव
सुसूक्ष्मम् अपरिच्छेद्यम् ॥८३॥
तत्त्वग्रामस्य चास्य न संकुचित आत्मः
धर्मः, अपि तु परः इत्याह
आत्मैव धर्म इत्युक्तः
शिवामृतपरिप्लुतः ।
शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः
इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम्
इत्यपि सूचितम् ।
कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत्
इत्याह
पं० ४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः ।
पं० १० ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।
प्रकाशावस्थितं ज्ञानं
१२६ श्रीतन्त्रालोकः ।
प्रकाशावस्थितं ज्ञानं
भावाभावादिमध्यतः ॥८४॥
स्वस्थाने वर्तनं ज्ञेयं
द्रष्टृत्वं विगतावृति ।
विविक्तवस्तुकाथित-
शुद्धविज्ञाननिर्मलः ॥८५॥
ग्रामधर्मवृत्तिरुक्त-
स्तस्य सर्वं प्रसिद्ध्यति ।
आदिशब्दाद्भावोऽपि, तेन भावाभावयोः
भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य
प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे
अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः
स्थाने स्थितौ वर्तनं ज्ञेयं-ग्रामधर्मविषये वृत्तिर्ज्ञा-
तव्या इत्यर्थः । इदमत्र तात्पर्यम् — भावद्वयस्य
भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं
शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव
पं० १० क० पु० तद्वलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।
श्लोक ८६ ] प्रथमाह्निकम् । १२७
सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा-
त्मनि वृत्तिर्जायते इति । तदुक्तं
'उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥
भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥'
इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् ।
तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं
ज्ञेयम्, तच्च विगतावृत्ति विगता निवृत्ता
भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्,
बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च
विगता परापरात्मना कालेन रहिता कलनात्मिका
आवृत्तिः यस्य तत्, अकालकलितम् इत्यर्थः ।
तदुक्तं
'अपरः षोडशो यावत्कालः सप्तदशः परः ।
परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥
प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।'
पं० ३ क० पु० भावेन्यक्ते परमे शिवेति पाठः
पं० ५ ख० पु० भावे न्यक्ते निरुद्धा चेदिति पाठः ।
१२८ श्रीतन्त्रालोकः ।
इति । तथा विगता पदैकादशकात्मिका आवृत्तिः
यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्मायाकारोज्झितम्
इति यावत् । यदुक्तं
‘पदैकादशिका सा च प्राणे चरति नित्यशः ।
अकारश्च उकारश्च मकारो बिन्दुरेव च ॥
अर्धचन्द्रो निरोधी च नादो नादान्त एव च ।
शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥’
इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ-
साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं
‘उन्मना तु ततोऽतीता तदतीतं निरामयम् ।’
इति । अत एव तत्तद्देशकालाकारैः विविक्तम्
अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं,
तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं
पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या-
पत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः
‘भैरवाद्भैरवीं प्राप्तः ............ ।’
पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तेरिति पाठः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
श्लोकः ८५] प्रथमाह्निकम्। १२९
इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्ये-
यमुक्तिः । तदुक्तं तत्र
'चतुर्थं संप्रवक्ष्यामि ग्रामधर्मविभेदतः।'
इत्याद्युपक्रम्य
'हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् ।
सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥
आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते ।
वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते ॥
प्रबुद्धं तद्विजानीयाद्बाह्यावरणवर्जितम् ।
परापरविनिर्मुक्तमेकादशपदोञ्झितम् ॥
स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् ।
विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥
ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।'
इति । एतदेव च
'अथ वा शिवमन्विच्छेदत्साधकः परतत्त्ववित् ।'
इत्यादि
'स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।'
पं० ६ ग० पु० सामूह्यं सर्वतत्त्वानामिति पाठः ।
पं० ७ क० पु० आत्मैव धर्म इत्युक्तो ग्रामो धर्म इति पाठः ।
१७
१३० श्रीतन्त्रालोकः ।
इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे-
प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्वं
प्रसिद्धयति' इति–तस्य ग्रामधर्मवृत्तेः प्राणापानग-
तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर-
स्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम-
यत्वेन सिद्धयति प्रथते इत्यर्थः । तदुक्तं
'शिवभावनयौषध्या बद्धे मनसि संसृते ।
काष्ठकुड्यादिषु क्षिप्ते रसवच्छ्लवहेमता ॥'
इति ॥८४॥८५॥
अत आह
ऊर्ध्वं त्यक्त्वाधो विशेत्स
रामस्थो मध्यदेशगः ॥८६॥
ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति
अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट-
यित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् ।
स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि
यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या
पं० ६ क० पु० प्रसिद्धयतीति पाठः ।
श्लोकः ८६ ] प्रथमाह्निकम् । १३१
देश : अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति
य : स : - तदेकतानतया तन्निष्ठः ईत यावत् ।
तदुक्तं
'मध्यनाडी मध्यसंस्थबिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥'
इति । अत एवोक्तं रामस्थः इति
'..................एकाकी न रमाम्यहम् ।'
इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या-
त्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति
तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे
'सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः ।
ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥'
तत्रैवागूरणेन १ भगवत्या
'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो ।
तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ॥'
१ आगूरणमाक्षेपः
पं० ४ ख० पु० बिससूत्राभसूत्रयेति पाठः ।
पं० १४ क० पु० यत्रस्थः स च क इति पाठः ।