तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
Here is the line-by-line Devanagari transcription of the provided page, preserving the layout, Vedic accents, and footnotes:
[प्रपा० १० अनु० ६३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७७३
स्मरणं प्राप्नोति । तेन च स्मारेण विज्ञानं विजातीयप्रत्ययव्यवधानराहित्येन विशिष्टं
संततं ज्ञानं प्राप्नोति । तेन च विज्ञानेन संततेनाऽऽत्मानं वेदयति । परमात्मानं
सर्वदाऽनुभवति । यस्मादन्नस्योक्तप्राणबलादिपरम्परया परमात्मानुभवहेतुत्वं तस्मा-
दीदृशमन्नं ददत्पुरुषः सर्वाण्येतानि प्राणादीन्यात्मानुभवान्तानि वस्तूनि ददाति ।
अन्नदानस्य सर्वदानरूपत्वं विस्पष्टयितुमुक्तमेवार्थं पुनरप्यन्नात्प्राणा भवन्तीत्यादि-
वाक्येन संक्षिप्योपन्यस्यते । प्राणादिपरम्परयोत्पन्नाद्विज्ञानादानन्दः परमानन्द-
रूपो भूत्वा ब्रह्म वेदान्तप्रतिपाद्यं योनिर्जगत्कारणम् । यद्वा ब्रह्मणो वेदस्य योनिः
कारणं तादृग्रूपः स्वयं भवति ।
यथोक्तं संन्यासमेव स्तोतुं तेन संन्यासेन प्राप्ततत्त्वज्ञानं पुरुषं प्रशंसति—
स वा ए॒ष पु॒रुषः॑ पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑
पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावान्तरा॒दिश॑श्च स वै
सर्व॑मि॒दं जग॑त्स भू॒तं स भव्यं॑ जिज्ञासक्लृप्त ऋ॑तजा
रयि॑ष्ठाः श्रद्धा स॒त्यो ॐमह॑स्वान्तमसोपरि॑ष्टात् , इति ।
यः पुरुषः संन्यासपुरःसरं तत्त्वज्ञानं संपादयति स एवैष पुरुषः सर्वात्मकः
सन्पञ्चधा पञ्चभिः प्रकारैः पञ्चात्मा पञ्चविधवस्तुस्वरूपो भवति । शब्दस्पर्शादिकं
गुणपञ्चकं पृथिव्यादिकं भूतपञ्चकं चक्षुःश्रोत्रादिकं ज्ञानेन्द्रियपञ्चकं वाक्पाण्यादिकं
कर्मेन्द्रियपञ्चकं प्राणापानादिकं वायुपञ्चकमेतावतां वस्तूनां स्वरूपभूत इत्यर्थः । यद्वा
पञ्चभिरात्मभिर्युक्तः पञ्चधा वर्तते ।
तथा च पुराणेऽभिहितम्—
“भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः” ॥ इति ।
येन ब्रह्मस्वरूपेण पुरुषेण सर्वमिदं जगत्सूत्रे मणिगणा इव प्रोतं प्रकर्षेण स्यूतं
व्याप्तमित्यर्थः । तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्च्यते । स एव पृथिव्यादिवस्तु-
व्यापी पुरुषः सर्वमिदं वर्तमानं जगत्, तत्त्वदृष्ट्यौ व्यतिरेकेणाभावात् । तथा भूतम-
तीतं च जगत्स एव । भव्यं भविष्यदपि जगत्स एव । ननु तत्त्ववित्पुरुषो मूढवद्ध-
स्तपादादियुक्तदेहरूप एव दृश्यते, न तु सर्वजगत्स्वरूप इति चेत् । मैवम् । यतोऽयं
जिज्ञासक्लृप्तो जिज्ञासया वेदान्तविचारेण सर्वात्मकतया निश्चितो भवति । ऋतजा
ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु पूर्व-
* १ ग. पुस्तके महस्वांस्तमसो वरिष्ठादिति पाठः ।
॰—–° २ ग. 'विनाश्च । ३ ग. 'ष्ट्या तद्व्यती° ।
७७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ६१]
पक्षेषु निराकृतेषु प्रामाणिकेन सिद्धान्तज्ञानेन तादृशो जातो भवति ।' स च रविष्ठा
रंयिर्धनं गुरूपदेशस्तत्रैव तिष्ठतिँ । न तूपदेशरहितानां प्रतीयत इत्यर्थः । ईदृशस्वरूप-
विज्ञानस्य श्रद्धया लभ्यत्वादसौ श्रद्धारूपः । “श्रद्धावाँल्लभते ज्ञानम्” इति स्मृतेः।
सत्यमबाध्यं यद्ब्रह्म तत्स्वरूपत्वादयं सत्यः । महस्वांस्तेजस्वान्स्वयंप्रकाश इत्यर्थः ।
अत एव तमसा संसारकारणेनाज्ञानेन वियुक्तत्वादुपरिष्टाद्वर्तते ।
इत्थं संन्यासपूर्वकज्ञानयुक्तं पुरुषं प्रशस्य ज्ञानफलं दर्शयति—
ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑
न मृ॒त्युमुप॑याहि वि॒द्वान्—, इति ।
हे, आरुणे त्वं तं परमात्मानं हृदा हृत्पुण्डरीकनियमितत्वाद्धृदयरूपेण मनसैवं
पूर्वोक्तसंन्यासरूपसाधनप्रकारेण ज्ञात्वा विद्वांस्तेन ज्ञानेन युक्तः सन्भूयः पुनर्मृत्युं
नोपयाहि मा प्राप्नुहि। ज्ञानिनो वर्तमानदेहपाते सति जन्माभावात्पुनर्मृत्युर्नास्तीत्यर्थः।
बहुधा प्रशस्तं संन्यासमुपसंहरति—
तस्मा॑न्न्या॒समे॒षां तप॑सामतिरि॒क्तमा॑हुः—, इति ।
यस्मात्परमपुरुषार्थस्यान्तरङ्गं साधनं तस्मादेषां सत्यादीनां तपसां मध्ये संन्या-
समतिरिक्तमत्युत्कृष्टं साधनं मनीषिण आहुः।
संन्यासादूर्ध्वं प्रणवेनाऽऽत्मनि समाधिर्विधेयः । तस्मिन्समाधौ विघ्नपरिहारार्थमादा-
वन्तर्यामिणः सर्वकारणत्वेन स्तुतिं दर्शयति—
वसु॑रण्वो॑ वि॒भूर॑सि प्रा॒णे त्वम॑सि संधा॒ता ब्रह्म॑-
न्त्वम॑सि वि॒श्वसृ॒त्तेजो॑दा॒स्त्वम॑स्य॒ग्नेर॑सि व॒र्चोदा-
स्तवम॑सि॒ सूर्य॑स्य शु॒च्यो॑दा॒स्त्वम॑सि च॒न्द्रम॑स उप-
या॒मगृ॑हीतोऽसि॒ ब्रह्म॑णे त्वा॒ महसे॑—, इति ।
हे ब्रह्मन्नन्तर्यामिन्वसुरण्वो वसनो वस्तुतत्त्वस्य रण्वो रणिता कथयिताऽस्मदनुग्रहा-
र्थमुपदेष्टाऽसि । तथा विभूर्हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नोऽसि प्राणे वायुरूपे
जीवात्मनः संधाता संयोजयिता त्वमसि । विश्वं सरति प्राप्नोतीति विश्वंसृत्सर्वजग-
द्व्यापी त्वमसि । भूलोकवर्तिनोऽग्नेस्तेजोदाः ॰प्रकाशप्रदस्त्वमसि । द्युलोकवर्तिनः
१ ख. ‘नेनेदृ° । २ ग. °शो भ° । ३ झ. ‘ति । तदुप° । ४ झ. °नां तथा न प्र°।
५ ग. श्रुतेः । ६ ख. ग. °काशत इ° । ७ घ. 'रीकेण । नि° । ८ ग. °श्वसृत्तेजो°।
... ... ... ग. 'श्वसृत्सर्व° ।
[प्रपा० १० अनु० ६३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७७५
सूर्यस्य वर्चोदाः प्रकाशप्रदस्त्वमसि । तथा चन्द्रमसो द्युम्नोदाः प्रकाशरूपधन-
प्रदस्त्वमसि । तथा यागेषु सोमरूपः सन्नुपयामेन पार्थिवेन मृन्मयदारुमयात्रेण गृही-
तोऽसि । उपयामशब्दस्य पृथिवीपरत्वं षष्ठकाण्डे मन्त्रव्याख्याने समाम्नातम्—उप-
यामगृहीतोऽसीत्याहेयं वा उपयामः ” इति । उक्तप्रकारं सर्वकर्तारमन्तर्यामिणं त्वा
महसे ब्रह्मणे चैतन्यज्योतिःस्वरूपब्रह्मतत्त्वाभिव्यक्त्यर्थं भजामीति शेषः ।
अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परिहृतविघ्नस्य संन्यासिनः समाधिं विधत्ते—
ओमित्या॒त्मानं॑ युञ्जी॒त—, इति ।
त्रिमात्रं प्रणवमुच्चारयन्सर्ववेदान्तेषु निर्णीतं परमात्मानं स्वरूपत्वेन चित्ते समा-
दध्यात् ।
समाधिसाधनमोंकारं प्रशंसति—
ए॒तद्वै म॑होपनि॒षदं॑ दे॒वानां॒ गुह्य॑म्—, इति ।
यत्प्रणवस्वरूपमस्त्येतदेव महोपनिषदं महत्यो बह्व्य उपनिषदः प्रतिपादिका यस्य
परमात्मवाचकस्य प्रणवरूपस्य तन्महोपनिषदम् । अकारान्तत्वं छान्दसम् । “ सर्वे
वेदा यत्पदमामनन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ” इति प्रणवस्य सर्वोपनिष-
त्प्रतिपाद्यत्वं कठवल्लीषु श्रुतम् । तच्च प्रणवरूपं निर्गुणतत्त्वप्रतिपादकं देवानामिन्द्रा-
दीनां गुह्यं गोप्यम् । ते हि शमदमाद्यधिकारसंपत्तिरहिताय प्रणवं नोपदिशन्ति ।
यथोक्तप्रणवसमाधिजनितस्य तत्त्ववेदनस्य फलं दर्शयति—
य ए॒वं वेद॒ ब्रह्म॑णो महि॒मान॑मा-
प्नोति॒ तस्माद्ब्रह्म॑णो महि॒मान॑म्—, इति ।
यः पुमान्संन्यासाद्ध्वं प्रणवेन ब्रह्मतत्त्वसमाधिं कुर्वन्नेवं वेदान्तमहावाक्योक्तप्रका-
रेण वेद ब्रह्मतत्त्वं जानाति, असौ ज्ञानी स्वस्मिन्नविद्याकल्पितं जीवत्वापादकं परिच्छे-
दमपहाय देशकालवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्त्वमाप्नोति । तत्त्ववे-
दनेन जीवत्वभ्रमे निवर्तिते ब्रह्मत्वस्वभाव आविर्भवति ततो जीवन्मुक्तो भवतीत्यर्थः ।
तस्य जीवन्मुक्तस्य प्रारब्धभोगक्षयेण देहपाते सति तस्मात्कृत्स्नाविद्यानिवर्तकाद्वेदना-
द्विद्यातत्कार्यवासनालेशरहितस्य मुख्यस्य ब्रह्मणो महिमानं प्राप्नोति । विदेहमुक्ति-
र्भवतीत्यर्थः ।
१ ख. °न मृन्मयेन मृ° । २ ख. °णं च स्तु° । ३ ख. °मात्रप्र° । ४ ग. झ. चिद्रूप-
विम । ० = कल्प° । ५ ख. म. °र्यतद्वास° ।
संन्यासपुरःसरां तत्त्वविद्यामुपसंहरति—
इत्युप॑निषत् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणीयो-
पनिषदि त्रिषष्टितमोऽनुवाकः ॥ ६३ ॥
इत्येवमतीतेन ग्रन्थेन प्रोक्ता येयं विद्या सेयमुपनिषद्रहस्यविद्या ।
अथ मीमांसा । तत्रे संन्यासरूपस्य चतुर्थाश्रमस्य सद्भावस्तृतीयाध्यायस्य चतु-
र्थपादे चिन्तितः—
“नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ।
वीरहाऽतो विधेः कॢप्तावन्धषङ्ग्वादिगा स्मृतिः ॥
अस्त्यपूर्वविधेः कॢप्तेर्वीरहाऽनग्निको गृही ।
अन्धादेः पृथगुक्तत्वात्स्वस्थानां श्रूयते विधिः ॥
पूर्वाधिकरणे स्वातन्त्र्यात्मविज्ञानं कर्मनैरपेक्ष्येण पुरुषार्थसाधनमित्युक्तम् । तस्य
चाऽऽत्मज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र नास्त्यूर्ध्वरेता इति
प्राप्तम् । कुतः विध्यभावात् । त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव
द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीय इत्यत्र यज्ञाद्युपलक्षितगार्हस्थ्यस्य तपःशब्दल-
क्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते, न तु विधिरुपलभ्यते ।
न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः । “ वीरहा वा एष देवानां योऽग्निमुद्वासयते”
इत्यग्न्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् । चत्वार आश्रमा इति
स्मृतिस्तु गार्हस्थ्यकर्मानधिकृतानन्धपङ्ग्वादिविषया भविष्यतिँ । न ह्यन्धस्याऽऽज्यावे-
क्षणत्वोपेते कर्मण्यधिकारोऽस्ति । नापि पङ्गोर्विष्णुकमणाद्युपेते कर्मण्यधिकारः ।
तस्माच्चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता आश्रमो नास्तीति प्राप्ते ब्रूमः ।
अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्यत्वात् । न च
वीरहातदोषः । उत्सन्नाग्निकगृहिविषयत्वाद्वीरहत्यायाः । यत्त्वन्धादिविषयत्वं स्मृतेरुक्तं
तदसत् । “अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा
यदहरेव विरजेत्तदहरेव प्रव्रजेत् ” इति विरक्तानां गार्हस्थ्यानधिकृतानां पृथक्सं-
न्यासविधानात् । न च चक्षुरादिपाटववतामाश्रमान्तरविध्यभावः । जाबालश्रुतौ
प्रत्यक्षविध्युपलम्भात् “ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ” इति ।
तस्मादस्त्याश्रमान्तरम्” ।
१ ग. ॰त्र न्या॰ । २ ग. झ. ॰यातो वि॰ । ३ ग. झ. ॰न्त्रवि॰ । ४ ग. झ. ॰न क॰ ।
५ ख. ॰ति । तच्चोज्या॰ । ६ ख. ॰रो नास्ति । ७ ग. झ. ॰घाताविदो॰ । ८ ग. ॰विधि॰ ।
[प्र० १० अनु० ६३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७७७
तत्रैवान्यच्चिन्तितम्—
“लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा नवा ।
यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ” ॥
त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानधिकृत्य सर्व एते पुण्यलोका भवन्तीत्याश्रमानु-
ष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृतत्वमेतीति मोक्षसाधनत्वेन ब्रह्मनिष्ठा
प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रम-
कर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात् । नहि लोककामी ब्रह्म न जानी-
यादिति निषेधोऽस्ति । तस्मादस्ति सर्वस्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः। ब्रह्मनिष्ठा
नाम सर्वव्यापारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः । न चासौ कर्मशूरे
संभवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यागिन एव ब्रह्मनिष्ठेति
स्थितम् । अस्मिन्नर्थे श्रुतिस्मृतिवाक्यानि संक्षिप्य प्रदर्श्यन्ते—
“त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुर्नरान् ।
ततस्ते कर्मसूद्युक्ताः प्रवर्तन्तेऽविचक्षणाः ॥
अतः संन्यस्य सर्वाणि कर्माण्यात्मावबोधतः ।
हत्वऽविद्यां धियैवेयात्तद्विष्णोः परमं पदम् ” ॥
इति भाल्लविशाखायामामनन्ति ।
“सशिखं वपनं कृत्वा बहिः सूत्रं त्यजेद्बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखी-त्युच्यते विद्वान्नेतरे केशधारिणः ” [ब्रह्मोप०] ॥
इत्याथर्वणिका आमनन्ति ।
‘कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः ” ॥
इति बाष्कलशाखायामामनन्ति । *सशिखान्केशान्निराकृत्य विसृज्य यज्ञोपवीतं
भूः स्वाहेत्यप्सु जुहुयात् ।
“त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टब्धमुपानहौ ।
शीतोपघातिनीं कन्थां कौपीनस्य तु च्छादनम् ॥
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ” ॥
इति संन्यासोपनिषद्यधीयते । “ अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचि-
रद्रोही भैक्षाणो ब्रह्मभूयाय भवति ” इति जाबाला आमनन्ति । “ अथ परिव्राडेक-
शाटीपरिवृतो मुण्डोऽदपरिग्रह्योऽरण्यनित्यो भिक्षार्थी ग्रामं प्रविशेदासायं प्रदक्षिणेनाविचिकि-
त्सन्सर्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवं दण्ड-
माददीत ” इति मैत्रायणीशाखायामभिहितम् । “ कन्थाकौपीनोत्तरासङ्गादीनां त्यागिनो
यथाजातरूपधरा निर्ग्रन्था निष्परिग्रहाः ” इति संवर्तश्रुतिः । “गृहस्थो ब्रह्मचारी
वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ समारोपयेद्गायत्रीं च स्ववाचाऽग्नौ समारोपयेदुपवीतं
भूमौ वाऽप्सु वा विसृजेत् ” इत्यादिशारुणिश्रुतिः ॥
“ यथोक्तान्यपि कर्माणि परिहाप्य द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासेन यत्नवान् ॥
एतद्द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥
यदा तु विदितं तत्तस्यात्परं ब्रह्म सनातनम् ।
तदैकदण्डं संगृह्य उपवीतं शिखां त्यजेत् ” ॥
इत्यादयः स्मृतय उदाहार्याः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि त्रिषष्टितमोऽनुवाकः ॥ ६३ ॥
- एतदादि जुहुयादित्यन्तं संन्यासोपनिषदि नोपलभ्यते । अनन्तरोक्ते श्लोकद्वयं तु किंचि-
द्विन्नानुपूर्वीकं वर्तते ।
१ ग. झ. ॰शाखीया आम’ । २ झ. ॰ष्कृत्य वि’ । ३ ग. झ. ॰पीनाच्छादनं तथा ।
प॰ । ४ ग. झ. टीञ्च उ’ । ५ ख. ‘ति कठा अधी’ । ६ ख. ॰रितो । ७ ख. ग. ॰शस्तं प॰ ।
८ स. ॰यणीशा॰ । ९ ख. ‘भिधीयते । क॰ । १० ख. झ. ‘दिशारुणी श्रु’ । ११ ग. झ.
' ।"
Wait, what is inside the quotes?
"'मुक्तत्वात्तन्न' ।" or "'मुक्तत्वात्पन्न' ।"?
It says: 'मुक्तत्वात्तन्न' or 'मुक्तत्वात्पन्न'? Looks like 'मुक्तत्वात्पन्न' or 'मुक्तत्वात्तन्न'. Let's look at line 13: "जीवन्मुक्तस्य". If the variant was "जीवन्मुक्तत्वात्तन्न"?
Footnote 2:
"२ ग. ०यः । दगत्त दमाख्यस्तु श० । झ. ०यः । दमस्तु"
Wait, is it "दगत्त"?
Look at the characters: "द", then "ग", then "त" with something?
Wait, "दर्गत"? Look at line 10 where the text had "दर्मः" (or "दर्गत")?
Wait! In line 10, the text has: "तपो॒ऽग्निर्दर्मः" -> could it be "दर्गत"?
Wait, look at line 16: "यस्तु दमाख्यः २. शमयिता"
In footnote:
"२ ग. ०यः । द०गत दमाख्यस्तु श० । झ. ०यः । दमस्तु"
Wait, "द०गत" = "दमगत"? Or "द० [दकार]गत"?
Yes! "द०गत दमाख्यस्तु श० ।" means "दकारगत दमाख्यस्तु in manuscript श"!
७८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० ६४]
अथास्यानुवाकस्य तृतीयभागेन जीवन्मुक्तस्य संबन्धिनां कालविशेषाणां नानाविध-
यागरूपत्वमाह—
ये अ॑होरा॒त्रे ते दर्शपूर्णमा॒सौ येऽर्ध॑मा॒साश्च॒ मासा॑श्च॒ ते चा॑तुर्मा-
स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒
तेऽह॑र्ग॒णाः सर्व॑वेद॒सं वा ए॒तत्त्स॒त्रं यन्म॑र॒णं तद॑व॒भृथ॑ः, इति ।
संवत्सराश्च परिवत्सराश्चेति चकाराभ्यामिदावत्सरानुवत्सरेद्वत्सराः समुच्चीयन्ते ।
प्रभवादिषु षष्टिसंवत्सरेष्वेकैकं पञ्चकं युगशब्दाभिधेयं तस्मिंश्च युगे पञ्चापि क्रमेण
संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसंज्ञका द्रष्टव्याः ।
तथाच कालनिर्णये संग्रहकारेणोदाहृतम्—
“चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे ।
संपरीद्वान्विदित्येतच्छब्दपूर्वास्तु वत्सराः” इति ॥
अहर्गणा द्विरात्रत्रिरात्रादयः । सर्ववेदसं सर्वस्वदक्षिणाकम् । अत्रैतच्छब्देन
प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमष्ट्युपलक्षितं योगिन आयुर्विवक्ष्यते । यदायुरेत-
त्सर्वस्वदक्षिणोपेतं सत्रमित्यर्थः ।
अस्यानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं योगिन उपासीनस्यै क्रममुक्तिलक्षणं
फलमाह--
ए॒तद्वै ज॑रामर्यमग्निहो॒त्र १५ स॒त्रं य ए॒वं वि॒द्वानुद॑ग-
य॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॑-
त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो दक्षि॑णे प्र॒मीय॑ते
पि॒तॄणा॑मे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यं
गच्छत्ये॒तौ वै सूर्या॑चन्द्रम॒सोर्म॑हि॒मानौ॑ ब्रा॑ह्म॒णो
वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्रह्म॒णो म॑हि॒मान॑माप्नोति॒
तस्मा॑द्ब्रह्म॒णो म॑हि॒मान॒मित्यु॑पनि॒षत् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुःषष्टितमोऽनुवाकः ॥ ६४ ॥
४जरामरणावधिकं यद्योगिचरितमस्ति तदेतद्वेदोक्ताग्निहोत्रादिसंवत्सरसत्रान्तकर्मस्व-
१ ख. ग. ॰र्वेदं । २ म. ॰स्य क्रमं । ३ ग. झ. ॰यज्ञफलभोक्तारं प्रेत्ये॰। ४ ग. जननमं॰।
[प्रपा० १० अनु० ६४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७८१
रूपमित्येवं यः पुमान्विद्वानुपासीन उत्तरायणे म्रियते, स उपासको देवानामिन्र्दादीनां
महिमानमैश्वर्यं प्राप्य तदूर्ध्वमादित्यस्य सायुज्यं सहवासं तादात्म्यं वा भावनाता-
रतम्येन प्राप्नोति । अथ पूर्वोक्तवैलक्षण्येन य उपासको दक्षिणायने म्रियते स उपा-
सकः पितॄणामग्निष्वात्तादीनामैश्वर्यं प्राप्य चन्द्रमसः सायुज्यं पूर्ववत्प्राप्नोति य एव-
मेतौ सूर्याचन्द्रमसोर्महिमानावुभवन्ब्राह्मणस्त(णः स त)त्र सगुणब्रह्मरूपं हिरण्य-
गर्भं विद्वांस्तल्लोकवासिनामुपदेशिनामुपासीनोऽभिजयाति । हिरण्यगर्भसाक्षात्काररूपं
प्राप्नोति । तस्मात्साक्षात्कारात्तल्लोकवासिदेहपातादूर्ध्वं हिरण्यगर्भलोकं गत्वा तत्र
ब्रह्मणो हिरण्यगर्भस्य महिमानमैश्वर्यं प्राप्नोति । तत्रोत्पन्नब्रह्मतत्त्वसाक्षात्कारस्तस्मा-
ज्ञानाद्ब्रह्मलोकविनाशादूर्ध्वं सत्यज्ञानादिलक्षणस्य ब्रह्मणो महिमानं महत्त्वं च
प्राप्नोति । इत्युपनिषदितिवाक्येन यथोक्तविद्यायास्तत्प्रतिपादकग्रन्थस्य चोपसंहारः
क्रियते ।
अथ मीमांसाँ । तृतीयाध्यायस्य तृतीयपादे चिन्तितम्—
“पुंविद्यैका विचित्रा वा तैत्तिरीयकताण्डिनोः ।
मरणावभृथत्वादिसाम्यादेकेति गम्यते ॥
बहूनां रूपभेदेन किंचित्साम्यस्य बाधनात् ।
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥
अस्ति तैत्तिरीये पुरुषविद्या—“तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः” इति ।
तथा ताण्डिनां शाखायामपि श्रूयते—“पुरुषो वाव यज्ञः” इति । सेयमेकैव पुरुष-
विद्या । यन्मरणं तदवभृथो मरणमेवावभृथ इत्युभयत्र समानधर्मश्रवणात्प्रातःस-
वनादीनां च समानत्वादिति प्राप्ते ब्रूमः । वेद्यस्वरूपस्य भूयान्भेद उपलभ्यते ।
तथाहि--विदुषो यो यज्ञस्तस्य यज्ञस्याऽऽत्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ ।
अन्यथाऽऽत्मा यजमान इति व्याघातात् । विद्वानेव यज्ञः स एव यजमान इति कथं
न व्याहन्येत । ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतमित्येको रूपभेदः ।
आत्मयजमानादिकं च सर्व[म]त्र श्रुतं ताण्डिशाखायां नोपलभ्यते । यत्तु ताण्डिना-
मुपलभ्यते त्रेधा विभक्तस्याऽऽयुषः सवनत्रयत्वमित्यादि न तत्किंचिदपि तैत्तिरीयके
पश्यामः । अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद उचितः । अपि च न तैत्ति-
रीयाणामुपासनमिदं किं तर्हि ब्रह्मविद्याप्रशंसा । तस्यैवं विदुष इति ब्रह्मविदोऽनुँक-
१ ग. झ ˚पासकानभि˚ । २ ख. झ ˚लोके ग˚ । ३ झ. 'कन्नह्मवि˚ । ४ ग. झ.
˚सायां तृ˚ । ५ ग. झ. ˚म्—“ इयं विद्यैका भि˚ । ६ ग. झ. ˚देऽपि किं । ७ ख. झ ˚ण्डिशा˚ ।
८ ह. ˚ति । एवमे˚ । ९ ख. ग. भूयानभे˚ । १० झ. ˚द एवोचि˚ । ११ ख. ˚नुत्कर्ष˚ ।
झ ˚नुक्रमणा˚ ।
७८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० ६४]
र्षणात् । तस्मान्न विद्यैक्यशङ्कायामप्यवकाशोऽस्ति॑ १” क्रममुक्तिंस्त(स्त्व)स्मिन्ननुवाके
तत्त्वज्ञानिसेवानिमित्ताऽभिहितेत्यशेषमतिशङ्गलम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके चतुःषष्टितमोऽनुवाकः ॥ ६४ ॥
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवा-
वहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः ॐ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमः प्रपा-
ठकः समाप्तः ॥ १० ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ॥
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कणभूपालसाम्राज्यधुरं-
धरेण श्रीमत्सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयारण्यकभाष्ये दशमः प्रपाठकः समाप्तः ॥ १० ॥
समाप्तमिदं कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्यम् ।
१ झ. ॰द्यैकताशं॰ । २ ग. झ. ॰स्ति । एतस्मिं॰ ।
*अथ परिशिष्टम् ।
कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमः प्रपाठकः।
नारायणोपनिषत् ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ ।
+सह॒ नाव॑वतु । सह॒ नौ॑ भुनक्तु । सह॒ वी॒र्यं॑ करवा-
वहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति शान्तिः ।
विचार्य सर्ववेदान्तैः संचार्य हृदयाम्बुजे ।
प्रचार्य सर्वलोकेषु आचार्य शंकरं भजे ॥ १ ॥
पद्मपादो विश्वरूपो हस्तामलकत्रोटकौ ।
अद्वैतदीक्षागुरवः साचार्याः पञ्च पान्तु माम् ॥ २ ॥
एतानि पद्मपत्राणि चत्वारि हृदयाम्बुजे ।
मामकीने प्रकाशन्तां भक्तिमुक्तिप्रसिद्धये ॥ ३ ॥
नमो नमः कारणकारणत्मने नमो नमो मङ्गलमङ्गलात्मने ॥
नमो नमो वेदविदां मनीषिणामुपासनीयाय नमो नमस्ते ॥ ४ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ॥
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ ५ ॥
वारुण्युपनिषद्युक्ता ब्रह्मविद्या सनातना ॥
याज्ञिक्यां फ(खि)लरूपायां सर्वशेषोऽभिधीयते ॥ ६ ॥
यथा बृहदारण्यके सप्तमाष्टमाध्यायौ खिलकाण्डत्वेनाऽऽचार्यैरुदाहृतौ तथेयं नारा-
- परिशिष्टसंगृहीतमेतन्नारायणोपनिषद्भाष्यं केन प्रणीतमिति न जानिमः, परं चास्य
पुस्तकद्वयमुपलब्धम् । भाष्यं चैतदशीत्यनुवाकात्मकैतद्देशीयवैदिकपाठप्रसिद्धमूलानुरोध्यस्त्यतोऽत्र परि-
शिष्टरूपेण समूलं संगृहीतम् । अस्मिंश्च भाष्य उपक्रमे प्रायः सायणाचार्यकृतभाष्यस्यैवोल्लेखो दृश्यते ।
अग्रेऽपि यत्र सायणाचार्यभाष्यानुरोधि मूलं वर्तते तत्र प्रायः सायणाचार्यकृतभाष्योल्लेखो दृश्यते ।
× अत्र ङ. पुस्तके मूले ॐ शं नो मित्रः शं वरुणः । ०अवतु वक्तारम् । ॐ शान्तिः ॥ ३ ॥
इत्यधिकम् ।
७८४ परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
यणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा, तल्लक्षणोपेतत्वात् । कर्मोपासनाब्रह्मत-
त्त्वज्ञानेषु किंचिदवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णरूपत्वं खिलत्वम् । बृहदारण्यके
सप्तमाध्याये—“पूर्णमदः पूर्णम्” इत्यादिना ब्रह्मतत्त्वमभिहितम् । “ॐ खं ब्रह्म” इत्या-
दिभिरष्टमाध्यायगतैश्च “ यो ह वै ज्येष्ठं(ज्येष्ठ) च श्रेष्ठं(श्रेष्ठ) च वेद” इत्यादि-
भिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि । “ अथ यः कामयेत महत्प्राप्नुयाम्” इत्या-
दिना मन्थाख्यं कर्माभिहितम् । तथा पुत्रविशेषादिकामनायुक्तानां तु तत्तत्कर्माप्यभिहि-
तानि । एवमत्रापि “अम्भस्य पारे” इत्यादिना ब्रह्मतत्त्वमभिहितम् । “आदित्यो वा एष
एतन्मण्डलम्” इत्यादिनापासनमभिहितम् । “भूरन्नमग्नये पृथिव्यै स्वाहा” इत्यादिना
कर्माप्यभिहितानि । तत्र कर्मणां बाहुल्याद्याज्ञिकीत्युच्यते । उपक्रमे ब्रह्मतत्त्वाभिधाना-
[*दुपसंहारे च तत्साधनानां सत्यादीनां संन्यासान्तानामभिधाना]दुपनिषदित्यु-
च्यते । तदीयपाठसंप्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते । तत्र यद्यपि
शाखाभेदः कारणं तथाऽपि तैत्तिरीयशाखाध्यायकैस्तत्तद्देशनिवासिभिः शिष्टैरादृ-
तत्वान्सर्वोऽपि पाठ उपादेय एव । तत्र द्राविडानां चतुःषष्ट्यनुवाकक्रमपाठः । कर्णा-
टकेषु केषांचिच्चतुःसप्ततिः(ति) पाठः । अपरेषां चाशीतिपाठः । तत्र वयं पाठान्तराणि
सूचयन्तश्चतुःषष्ट्य(न्तोऽशीत्य)नुवाकपाठं प्राधान्येन व्याख्यास्यामः । [तत्र] प्रथमानु-
वाकस्याऽऽदौ काश्चिदृचो ब्रह्मतत्त्वं प्रतिपादयन्ति, तासु प्रथमामृचमाह—
ॐ अ॒म्भस्य॑ पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो म॑हीया॑न् ।
शु॒क्रेण॒ ज्योती॑ꣳषि॒ समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः, इति॑ ।
अम्भस्य बहुविधसमुद्रवर्तिजलस्य पारे परतीरे यो महान्प्रौढो लोकालोकपर्व-
तादिस्ततोऽपि महीयान्महत्तरोऽयं महे(परमे)श्वरः । तथा भुवनस्य भूगोलस्य मध्ये
महान्मेर्वादिस्ततोऽपि महत्तरः । नाकस्य पृष्ठे स्वर्गस्योपरि यो महान्ब्रह्मलोकादि-
स्ततोऽपि महत्तरः । तथा च च्छन्दोगा आमनन्ति—“ ज्यायान्पृथिव्या ज्यायान-
न्तरिक्षाज्ज्यायान्दिवो ज्यायानन्भ्यो लोकेभ्यः ” इति । “ स एवाधस्तात्स उपरि-
ष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्” इति(च) । स परमे-
श्वरः शुक्रेण जीवचैतन्यरूपेण भासकेन ज्योतींषि निर्मलत्वेन भास्कान्यन्तःकरणानि
सम्यगनुप्रविष्टः । “ तत्सृष्ट्वा तदेवानुप्राविशत् ” इति श्रुतेः । गर्भे ब्रह्माण्डरूपेऽ-
न्तर्मध्ये प्रजापतिर्विराड्रूपो भूत्वा चरति प्रवर्तते । विराड्रूपमाथर्वणिका आम-
नन्ति—“अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः
प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ” इत्यादि । अग्निः प्रकाशयुक्तो द्युलोकः ।
- त्रुटितमिदं चतुःषष्ट्यनुवाकानुरोधिभाष्यासंगृहीतम् । प्रकृते तस्यास्य च तौल्यात् ।
सर्वव्यापी परमेश्वरो वस्तुतस्तथाविध एव सन्मायावशाद्देहेषु जीवरूपेण ब्रह्माण्डे च
विराड्रूपेणावस्थित इत्यर्थः ।
द्वितीयामृचमाह—
यस्मि॑न्नि॒दꣳ सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन् , इति ।
इदं सर्वं जगद्यस्मिन्नव्याकृते मूलकारणे समेति च [ व्येति च । ] सृष्टिकाले
समुत्पन्नं सत्संगतमपि भवति । शं चेति पाठे सुखमपि प्राप्नोतीति व्याख्येयम् ।
व्यत्ययेन वा समिति द्रष्टव्यम् । संहारकाले विलीनं सद्विगतमपि भवति । अध्य-
धिका हिरण्यगर्भविराडादयो देवा विश्वे सर्वेऽ(र्वे य)स्मिन्नव्याकृते मूलकारणे निषेदु-
र्नितरामाश्रित्यावस्थिताः , तदेव सृष्टिसंहारयोर्देवानां चाऽऽधारभूत मव्याकृतमेवेत्यर्थः ।
[ *भूतमतीतं जगत् । भव्यं भविष्यज्जगदिदं वर्तमानमपि जगत्, दु तदेवाव्याकृतम् । ]
आ इत्याश्चर्ये । प्रसिद्धिर्वा तस्यार्थः । तत्तादृशमव्याकृतमक्षरे विनाशरहिते परमे
उत्कृष्टे व्योमन्नाकाशवदमूर्ते परमात्मनि वर्तत इति शेषः ।
तृतीयामृचमाह—
येना॑ऽऽवृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑ऽऽदि॒त्यस्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम॒न्तः स॑मु॒द्रे क॒वयो॑ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः , इति ।
वाजसनेयिनो गार्गिब्राह्मणे परमात्मन्याश्रितं यदव्याकृतमधीयते-“एतस्मिन्ख-
ल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च” इति तत्पूर्वस्यामृच्याभिहितम् । अस्यां तु तेना-
व्याकृतेनोपहितं जगत्कारणं चैतन्यमभिधीयते । येन सच्चिद्रूपेण कारणेन खमन्तरिक्ष-
लोको दिवं द्युलोको महीं भूलोक इत्येतत्सर्वमावृतं व्याप्तम् । चकाराभ्यां तत्तल्लोक-
वासिनो देहाः समुच्चीयन्ते । तेऽपि कारणेन व्याप्ताः । अत एवोक्ताः सर्वेऽपि तद्रूपतया
भासन्ते । येन परमेश्वरेणानुगृहीत आदित्यस्तेजसा स्वकीयमण्डलान्तर्गतभास्वररूपेण
भ्राजसा च प्रसारितरश्मिरूपया दीप्त्या च तपति सर्वमिदं जगदभितसं प्रकाशितं च
करोति । कवयस्तत्त्वविदो यं परमात्मानं समुद्रेऽन्तः समुद्रोपलक्षितस्य कृत्स्नस्य जगतो
मध्ये तन्तून्विव वयन्ति । यथा पटस्वरूपे तन्तवोऽनुगतास्तथा जगति ब्रह्मतत्त्वमनुगतं
पश्यन्ति । तच्च ब्रह्मतत्त्वमक्षरे विनाशरहिते परम उत्कृष्टे निजस्वरूपेऽवस्थाप्य प्रजा
उत्पादयतीति शेषः । स्वरूपेऽवस्थानं छन्दोगाः प्रश्नोत्तराभ्यामामनन्ति—
- चतुःषष्ट्यनुवाकानुरोधिभाष्यात्संगृहीतं त्रुटितत्वात्प्रकृते तेनास्य विरोधाभावात् ।
९९
७८६ परिशिष्टत्वेन संगृहीतः- [ अनु० १ ]
“स भगवन्कस्मिन्प्रतिष्ठित इति स्वे महिम्नि” इति । आधारान्तरराहित्यमेव स्वस्मिन्न-
वस्थानम् । यदक्षर इति * पाठेऽपि तच्छब्दार्थत्वेनैव व्याख्येयम् ।
चतुर्थीमाह—
यतः॑ प्रसू॒ता जग॑तः प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज॒ भूम्या॑म् ।
यदोष॑धीभिः पु॒रु॑षान्प॒शूꣳश्च वि॒वेश॑ भू॒तानि॑ चराच॒राणि॑, इति ।
पूर्वमन्त्रे जगत्कारणमव्याकृतोपहितं यच्चैतन्यमुक्तं तस्य त्रिजगदुत्पाद(पादा)नत्वं
प्रपञ्च्यते । आत्मन आकाशः संभूत इत्यारभ्यान्नात्पुरुष इत्यन्तेन ग्रन्थेन पूर्वमभिहिता
जगतः [ प्रसूती ] प्रसूतिः सृष्टिरुत्पत्तिर्यतो यस्मादव्याकृताच्चैतन्यात्प्रसूता प्रवृत्ता
तच्चैतन्यं क(का)रणभूतं तोयेन जलोपलक्षितेन भूतपञ्चकेन जीवान्मनुष्यगवादीञ्जीव-
देहान्भूम्यां भूमौ व्यचसर्ज विशेषेणामृजत् । व्यससर्जेति पाठेऽपि तथैव व्याख्येयम् ।
तथा च चै(यच्चै)तन्यरूपं मायाविशिष्टं कारणमोषधीभिर्व्रीहियवादिभिरुपलक्षितमन्नं
भूत्वा पुरुषान्मनुष्यान्पशूंश्च तदुपलक्षितानि स्थावरजङ्गमशरीराण्यपि प्रविवेश । वृक्षा-
दिस्थावरेषु वृष्टिजलरूपेण प्रवेशः । तेन चैतन्येन सर्वं जगत्पालितमिति शेषः ।
पञ्चमीमृचमाह —
अतः॒ परं॒ नान्य॒दणी॑यसꣳ हि परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म् ।
यदेक॒मव्य॑क्तमन॑न्तरू॒पं विश्वं॑ पुरा॒णं तम॑सः प॒रस्ता॑त् (१), इति ।
पूर्ववाक्योक्तेन जगत्कारणत्वाकारेणोपलक्षितं शुद्धं वस्त्वत्र निरूप्यते । यद्वस्तु परा-
दुत्कृष्टाद्धिरण्यगर्भादेरपि परमत्यन्तमुत्कृष्टम् , यच्च महत आकाशादेर्महान्तं महत् ,
यदप्येकं सजातीयविजातीयस्वगतभेदरहितम् , अव्यक्तमिन्द्रियागम्यम् , अनन्तरूपं
देशकालवस्तुपरिच्छेदशून्यं, विश्वं जगदात्मकं ‘पुराणमनादिसिद्धं’ तमसः परस्ताद-
ज्ञानात्पृथग्वर्तते । अतो वस्तुनोऽन्यद्वस्त्वणीयासमत्यन्तदुर्लक्ष्यं परमुत्कृष्टं नास्ति ।
विश्वविशेषणेन यत्सर्वजगदात्मकत्वमुक्तं तदेतत्षष्ठीसप्तमीभ्यामृग्भ्यां प्रपञ्चयति—
तदे॒वर्ते तदु॑ स॒त्यमा॑हु॒स्तदे॑व॒ ब्रह्म॑ पर॒मं क॑वी॒नाम् ।
इ॒ष्टा॒पूर्तं ब॑हु॒धा जा॒तं जाय॑मानं॒ विश्वं॑ बिभर्ति॒ भुव॑नस्य नाभिः॑ ॥
तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ च॒न्द्रमाः॑ ।
तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः ॥
- पाठे सत्यपीति यौज्यम् ।
मनसा यथावस्तु चिन्तनमृतं वाचा तदुच्चारणं सत्यमेतदुभयमपि तदेवाधिष्ठानं
ब्रह्मैव । कवीनां वेदशास्त्रपारं गतानां परमुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं यद्ब्रह्म वेदरूपं
वस्तु तदपि स्वाधिष्ठानवस्तु( भूत )परब्रह्मात्मकमेव । इष्टं दर्शपूर्णमासादि श्रौतं कर्म
पूर्तं वापीकूपादि स्मार्तं कर्म तदुभयमपि तदेव ब्रह्म । तथा बहुधा जातं पूर्वकल्पतत्पू-
र्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं सर्वं जगद्भुवनस्य
नाभिश्चक्रनाभिवत्सर्वलोकस्याऽऽधारभूतः परमात्मा बिभर्ति । अत आधेयं सर्वमधि-
ष्ठानस्वरूपमेव । अग्निवायुसूर्यचन्द्रमसोऽपि तदेव । तथा शुक्लं दीप्यमानं नक्षत्रादिक-
मममृतं देवैः सेव्यं पीयूषमेतदुभयमपि तदेवाधिष्ठानरूपमेव । यद्ब्रह्म हिरण्यगर्भरूपं
तदेतदधिष्ठानात्मकमेव । याश्चाऽऽपो जलोपलक्षितानि पञ्च भूतानि यश्च प्रजापति-
र्विराड्रूपस्तदुभयमप्यधिष्ठानरूपमेव । यद्यज्जगदविद्यादृष्ट्या नानाविधं प्रतीयते तत्सर्वं
विद्यादृष्ट्याऽखण्डैकरसं ब्रह्मैव । अत एव दृष्टिद्वयमभिप्रेत्य वाजसनेयिनः समाम-
नन्ति—" यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति " इत्याविद्यादृष्टिः । " यत्र
त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति विद्यादृष्टिः ।
ननु—" प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम " इति विष्णुपुराणे कालस्य
नित्यत्वाभिधानाद्विद्यादृष्ट्याऽपि ब्रह्मरूपत्वं नास्तीत्याशङ्क्य पुराणस्याविद्यादृष्टिविषय-
त्वमभिप्रेत्य विद्यादृष्ट्या कालस्य ब्रह्मत्वविवक्षया ब्रह्मणः सकाशादुत्पत्तिमष्टमीनवमीभ्यां
दर्शयति—
सर्व्वे॑ नि॒मेषा॑ जज्ञि॒रे वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
क॒ला मु॑हूर्ताः॒ काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः ॥
अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒रश्च॑ कल्पन्ताम् ।
स आप॑: प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्षमथो सुव॑:, इति ।
निमिर्नाम जनकस्य पूर्वज आद्यो मिथिलेश्वर आसीदित्युपनिषदि वर्तते । देव-
प्रसादाद्येष्वक्षिप्क्ष्मपातेषु [ स ] वर्तते [ ते निमिषाः । ] त एव निमेषा उच्यन्ते ।
पक्ष्मपातपरिमिताः सूक्ष्माः कालविशेषा इत्यर्थः । ते सर्वे विद्युतः स्वयंप्रकाशमानात्पु-
रुषात्परमेश्वरादधिजज्ञिरे आधिक्येनोत्पन्नाः । निमेषेभ्योऽप्यधिकाः कालविशेषाः
काष्ठास्ताभ्योऽप्यधिकाः कलास्ततोऽप्यधिका मुहूर्तास्तेभ्योऽप्यधिका अहोरात्राः ।
तथा च पूर्वग्रन्थकारैरुक्तम्—
“ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ।
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ॥
ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ।
७८८ परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
चकारावनुक्तसमुच्चयार्थौ । सर्वेऽपि कालविशेषाः समुत्पन्ना इत्यर्थः । लवत्रुट्यादि-
स्वरूपं पूर्वाचार्यैरुक्तम्—
“ नलिनीपत्रसंहत्याः सूक्ष्मसूच्यभिभेदने ।
दले दले तु यः कालः स कालो लववाचकः ॥
लवैस्त्रुटिः स्यात्त्रिंशद्भिः ” इति ।
अर्धमासाः शुक्लकृष्णरूपा मासाश्चैत्रवैशाखाद्या ऋतवो वसन्तग्रीष्माद्याः सर्वेऽपि
परमेश्वरादधिजज्ञिरे । तथा संवत्सरश्च प्रभवादिरूपः कल्पन्तां परमेश्वरादुत्पन्नः * ।
अत एव स्वप्रयोजनसमर्थो भवति । कल्पन्तामिति + बहुवचनपाठे कालविशेषाः स्वस्व-
प्रयोजनयोग्या इति योज्यम् । [ स ] परमेश्वरः स्वनिर्मितेन कालविशेषेणोपलक्षितः
संस्ततः कालौचित्येनाऽऽपः प्रदुघे जलोपलक्षितां पृथिवीं दुग्धवान् । प्राणिनामपेक्षितं
भोग्यजातं पृथिव्यां संपादितवानित्यर्थः । तथैवान्तरिक्षमेकं स्थानमथो अपि च सुवः
स्वर्गोऽपरं स्थानमिमे उभे अपि स्थाने प्रदुघे, तयोरपि स्थानयोर्योग्यं वस्तु संपादित-
वानित्यर्थः ।
ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्याश-
ङ्क्यैतस्य परमात्मन ऊर्ध्वाद्याकारविशेषाभावाद्ग्राह्यभावाच्चेति मन्त्रद्वयेन दर्शयति--
नै॒नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् ।
न तस्येशे कश्चन त॒स्य नाम मह॒द्यशः॑ ( २ )॥
न सं॒दृशे॑ तिष्ठति रू॒पम॒स्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ऽभिकॢ॑प्तो॒ य ए॑नं वि॒दुर॒मृता॑स्ते भ॑वन्ति, इति ।
कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदूर्ध्वाकारमुपरिस्थितका(शा)लावंशव-
त्तिर्यगाकारं वा गृहान्तर्वर्तिदेवदत्तवत्क्वचिन्मध्ये वा स्थितं न परिजग्रभत्, [न परि-
गृह्णाति ] ऊर्ध्वत्वाद्याकाराणां तस्मिन्नभावात् । किंच तस्य परमात्मनः कश्चन कोऽपि
पुरुषो नेशे नेष्टे नामग्रहणे सौकर्यार्थमीदृग्भवेति नियन्तुं न समर्थः । अत एव तस्य
परमात्मनो महद्यश इति नाम संपन्नम् । अत्यन्तस्वतन्त्रत्वेन तदीययशोऽभ्यधिक-
त्वात् । किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्ट
हृदयपुण्डरीकमध्यवर्तिना मनीषा लौकिकवस्तुगोचराणि मनांसीष्ट इति मनीट्त्तथा-
विधेन मनसाऽन्तःकरणेनाभिक्लृप्तः सर्वतो निश्चितो भवति । योगयुक्तं हि मनो
लौकिकीर्मनोवृत्तीर्नियमयति । तेन चान्तर्मुखेनै(णे)काग्रेण मनसा परमात्माऽनुभवितुं
शक्यते । "दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति श्रुतेः ये पुरुषा
एनं परमात्मानं मनसा विदुः साक्षात्कुर्वन्ति ते पुरुषा अमृता मरणरहिता भवन्ति ।
देहात्प्राणानामुत्क्रान्तिमरणं तच्च तत्त्वविदां नास्ति "न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते" इति श्रुतेः ।
उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति—
अ॒द्भ्यः संभू॑तो हिर॑ण्यगर्भ॒ इत्यष्टौ, इति ।
अद्भ्यः संभूतः पृथिव्यै रसाच्चेत्ययमनुवाकश्चातुर्होत्रि(त्री)यचयनमन्त्रप्रकरणे
समाम्नातः, तस्यानुवाकस्य [प्र]दर्शनार्थमद्भ्यः संभूत इति प्रतीकामिदं पठितम् ।
तस्मिन्ननुवाके तमेवं विद्वानमृत इह भवतीति परमात्मतत्त्वविदो मरणराहित्यमु-
क्तम् । "हिरण्यगर्भः समवर्तताग्रे" इत्येष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके
समाम्नाताः * ।
- एतदग्रेऽधिको ग्रन्थो वर्तते स यथा—
( अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च ।
वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ॥
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑, इति ।
अद्भ्य उदकेभ्यः पृथिव्यै पृथिव्याः । व्यत्ययो बहुलमिति पाणिनीयस्मरणादत्र विभक्तिव्य-
त्ययः । रसशब्दः क्षीराज्याति(दिषु) प्रसिद्धः । आज्यस्य तेजस्त्वं “तेजो वा आज्यम्” इति श्रुतेः ।
अनया रीत्या रसात्तेजस इत्यर्थः संपद्यते । पृथिव्यस्तेजसां ग्रहणं वाय्वाकाशयोरुपलक्षणम् । तथा
चायमर्थः । विश्वकर्मणो विश्वं ब्रह्माण्डं कर्म कार्यं यस्य तस्माद्विश्वकर्मणः पञ्चभूतद्वारा संभूत उत्पन्नः ।
यद्वा रसशब्दः परमात्मनो विशेषणं "रसो वै सः” इति वारुण्युपनिषद्युक्तत्वात् । आब्रह्मस्तम्ब-
पर्यन्तानां देवतिर्यङ्मनुष्याणां पाञ्चभौतिकत्वप्रसिद्धेरादित्यस्यापि पाञ्चभौतिकत्वं प्रसिद्धम् । किंचैवं-
भूत आदित्यश्चन्द्रनक्षत्रग्रहतारकादितेजोस्वदेवताभ्य इन्द्रादीतरदेवताभ्यश्चाध्यक्षिकस्तजसोत्कृष्टः
समवर्तत बभूव । अपि च त्वष्टा देदीप्यमान आदित्यस्तस्य परमात्मनो रूपं तेजो विदधद्धरन्नेत्यु-
देत्युदयाचलमारोहतीत्यर्थः । सूर्यादिषु यत्तेजस्तत्परमात्मसंबन्धीति सर्ववेदान्तडिण्डिमः । य एवं-
विधः सविता तस्य पुरुषस्य पूर्णस्याग्रे दृष्टिपथे तत्प्रसिद्ध्या समन्ताज्जायत इत्याजानं समस्तं विश्वं
वर्तत इति शेषः । निखिलजगत्प्रतिभानं भगवदादित्याधीनमित्यभिप्रायः ।
द्वितीयमन्त्रमाह—
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय, इति ।
: svarita over ब्रा
- ह्म॒णो : anudatta under ह्म
- वि॒द्यात् । : anudatta under वि
- तस्य॑ : svarita over स्य
- दे॒वा : anudatta under दे
- अस॒न्वशे॑ : anudatta under स, svarita over शे
- , इति ।
Line 30:
षष्ठमन्त्रमाह—
Line 31:
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् ।
- ह्रीश्च॑ : svarita over श्च
- ते
- ल॒क्ष्मीश्च॒ : anudatta under ल, anudatta under श्च
- पत्न्यौ॑ । : svarita over त्न्यौ
- अ॒हो॒रा॒त्रे : anudattas under अ, under हो, under रा
- पा॒र्श्वे । : anudatta under पा
- नक्ष॑त्राणि : svarita over क्ष
- रू॒पम् । : anudatta under रू
Line 32:
अ॒श्विनौ॒ व्यात्त॑म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण, इति ।
- अ॒श्विनौ॒ : anudatta under अ, anudatta under नौ
- व्यात्त॑म् । : svar
in root/dhatu:
√महँ पूजायाम् (भ्वादिगण, मह पूजायाम्).
Look at the image:
"मह्" or "महू"?
It has a bar under ह? No, it says:
"मह पूजायामेक" - wait, look at the letter after म:
Is it 'ह'?
Wait! Look at the letter:
It is 'मह्' or 'मह'?
Wait, there is a stroke to the right?
Wait! In Sanskrit root: "मह पूजायाम्" (dhatu patha: मह पूजायाम्).
Wait, look at the character:
"मह्" or "महु" or "महू"?
Wait, look at "मह":
There is a curve at the bottom? No, it's 'मह्' with a virama? Or 'महू'?
Wait, look at 'मह्': the virama is below the right foot of ह.
Wait, let's look at the next words:
"इदक एव राजा बभूव"
Wait! In the mantra: "महित्वैक इद्राजा जगतो बभूव"
"महित्वैक इत् राजा":
"इदक एव" -> wait, is it "इदित्येव" or "इदक एव"?
Wait, let's zoom in on that word:
Look at: "इदक एव" or "इदेक एव"?
Wait, "इद् एक एव" -> "इदे
pha)! And the letter is भा!
Wait, does it have वि? Look: वि with i-matra!
Wait, let's look at:
निरवर्तत [space? no] त्य?
Wait! Let's re-examine:
Letter after निरवर्तत:
It has ल or त with something below.
Wait, let's look at the transcription of this very text (Taittiriya Aranyaka / Rigveda Sayana Bhashya परिशिष्ट):
This is from Taittiriya Samhita / Aranyaka, the hymn "हिरण्यगर्भः समवर्तताग्रे" (RV 10.121), which is given as an appendix (परिशिष्टत्वेन संगृहीतः).
The verses are:
Verse 5 (अथ पञ्चमी): यं क्रन्दसी अवसा तस्तभाने...
Verse 6 (अथ षष्ठी): येन द्यौरुग्रा पृथिवी च दृढा/दृढे...
Verse 7 (अथ सप्तमी): आपो ह यन्महतीर्विश्वमायन्...
Verse 8 (अथाष्टमी): यश्चिदापो महिना पर्यपश्यत्...
Let's find the exact commentary text for verse 7!
In Sāyaṇa on RV 10.121.7 or Taittiriya Aranyaka / Samhita:
Mantra 7: "ततो देवाना