तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 794, कुल 914 में से
संदर्भ में पढ़ेंहृदयपुण्डरीकमध्यवर्तिना मनीषा लौकिकवस्तुगोचराणि मनांसीष्ट इति मनीट्त्तथा-
विधेन मनसाऽन्तःकरणेनाभिक्लृप्तः सर्वतो निश्चितो भवति । योगयुक्तं हि मनो
लौकिकीर्मनोवृत्तीर्नियमयति । तेन चान्तर्मुखेनै(णे)काग्रेण मनसा परमात्माऽनुभवितुं
शक्यते । "दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति श्रुतेः ये पुरुषा
एनं परमात्मानं मनसा विदुः साक्षात्कुर्वन्ति ते पुरुषा अमृता मरणरहिता भवन्ति ।
देहात्प्राणानामुत्क्रान्तिमरणं तच्च तत्त्वविदां नास्ति "न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते" इति श्रुतेः ।
उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति—
अ॒द्भ्यः संभू॑तो हिर॑ण्यगर्भ॒ इत्यष्टौ, इति ।
अद्भ्यः संभूतः पृथिव्यै रसाच्चेत्ययमनुवाकश्चातुर्होत्रि(त्री)यचयनमन्त्रप्रकरणे
समाम्नातः, तस्यानुवाकस्य [प्र]दर्शनार्थमद्भ्यः संभूत इति प्रतीकामिदं पठितम् ।
तस्मिन्ननुवाके तमेवं विद्वानमृत इह भवतीति परमात्मतत्त्वविदो मरणराहित्यमु-
क्तम् । "हिरण्यगर्भः समवर्तताग्रे" इत्येष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके
समाम्नाताः * ।
- एतदग्रेऽधिको ग्रन्थो वर्तते स यथा—
( अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च ।
वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ॥
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑, इति ।
अद्भ्य उदकेभ्यः पृथिव्यै पृथिव्याः । व्यत्ययो बहुलमिति पाणिनीयस्मरणादत्र विभक्तिव्य-
त्ययः । रसशब्दः क्षीराज्याति(दिषु) प्रसिद्धः । आज्यस्य तेजस्त्वं “तेजो वा आज्यम्” इति श्रुतेः ।
अनया रीत्या रसात्तेजस इत्यर्थः संपद्यते । पृथिव्यस्तेजसां ग्रहणं वाय्वाकाशयोरुपलक्षणम् । तथा
चायमर्थः । विश्वकर्मणो विश्वं ब्रह्माण्डं कर्म कार्यं यस्य तस्माद्विश्वकर्मणः पञ्चभूतद्वारा संभूत उत्पन्नः ।
यद्वा रसशब्दः परमात्मनो विशेषणं "रसो वै सः” इति वारुण्युपनिषद्युक्तत्वात् । आब्रह्मस्तम्ब-
पर्यन्तानां देवतिर्यङ्मनुष्याणां पाञ्चभौतिकत्वप्रसिद्धेरादित्यस्यापि पाञ्चभौतिकत्वं प्रसिद्धम् । किंचैवं-
भूत आदित्यश्चन्द्रनक्षत्रग्रहतारकादितेजोस्वदेवताभ्य इन्द्रादीतरदेवताभ्यश्चाध्यक्षिकस्तजसोत्कृष्टः
समवर्तत बभूव । अपि च त्वष्टा देदीप्यमान आदित्यस्तस्य परमात्मनो रूपं तेजो विदधद्धरन्नेत्यु-
देत्युदयाचलमारोहतीत्यर्थः । सूर्यादिषु यत्तेजस्तत्परमात्मसंबन्धीति सर्ववेदान्तडिण्डिमः । य एवं-
विधः सविता तस्य पुरुषस्य पूर्णस्याग्रे दृष्टिपथे तत्प्रसिद्ध्या समन्ताज्जायत इत्याजानं समस्तं विश्वं
वर्तत इति शेषः । निखिलजगत्प्रतिभानं भगवदादित्याधीनमित्यभिप्रायः ।
द्वितीयमन्त्रमाह—
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय, इति ।