तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 789, कुल 914 में से
संदर्भ में पढ़ें७८४ परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
यणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा, तल्लक्षणोपेतत्वात् । कर्मोपासनाब्रह्मत-
त्त्वज्ञानेषु किंचिदवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णरूपत्वं खिलत्वम् । बृहदारण्यके
सप्तमाध्याये—“पूर्णमदः पूर्णम्” इत्यादिना ब्रह्मतत्त्वमभिहितम् । “ॐ खं ब्रह्म” इत्या-
दिभिरष्टमाध्यायगतैश्च “ यो ह वै ज्येष्ठं(ज्येष्ठ) च श्रेष्ठं(श्रेष्ठ) च वेद” इत्यादि-
भिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि । “ अथ यः कामयेत महत्प्राप्नुयाम्” इत्या-
दिना मन्थाख्यं कर्माभिहितम् । तथा पुत्रविशेषादिकामनायुक्तानां तु तत्तत्कर्माप्यभिहि-
तानि । एवमत्रापि “अम्भस्य पारे” इत्यादिना ब्रह्मतत्त्वमभिहितम् । “आदित्यो वा एष
एतन्मण्डलम्” इत्यादिनापासनमभिहितम् । “भूरन्नमग्नये पृथिव्यै स्वाहा” इत्यादिना
कर्माप्यभिहितानि । तत्र कर्मणां बाहुल्याद्याज्ञिकीत्युच्यते । उपक्रमे ब्रह्मतत्त्वाभिधाना-
[*दुपसंहारे च तत्साधनानां सत्यादीनां संन्यासान्तानामभिधाना]दुपनिषदित्यु-
च्यते । तदीयपाठसंप्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते । तत्र यद्यपि
शाखाभेदः कारणं तथाऽपि तैत्तिरीयशाखाध्यायकैस्तत्तद्देशनिवासिभिः शिष्टैरादृ-
तत्वान्सर्वोऽपि पाठ उपादेय एव । तत्र द्राविडानां चतुःषष्ट्यनुवाकक्रमपाठः । कर्णा-
टकेषु केषांचिच्चतुःसप्ततिः(ति) पाठः । अपरेषां चाशीतिपाठः । तत्र वयं पाठान्तराणि
सूचयन्तश्चतुःषष्ट्य(न्तोऽशीत्य)नुवाकपाठं प्राधान्येन व्याख्यास्यामः । [तत्र] प्रथमानु-
वाकस्याऽऽदौ काश्चिदृचो ब्रह्मतत्त्वं प्रतिपादयन्ति, तासु प्रथमामृचमाह—
ॐ अ॒म्भस्य॑ पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो म॑हीया॑न् ।
शु॒क्रेण॒ ज्योती॑ꣳषि॒ समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः, इति॑ ।
अम्भस्य बहुविधसमुद्रवर्तिजलस्य पारे परतीरे यो महान्प्रौढो लोकालोकपर्व-
तादिस्ततोऽपि महीयान्महत्तरोऽयं महे(परमे)श्वरः । तथा भुवनस्य भूगोलस्य मध्ये
महान्मेर्वादिस्ततोऽपि महत्तरः । नाकस्य पृष्ठे स्वर्गस्योपरि यो महान्ब्रह्मलोकादि-
स्ततोऽपि महत्तरः । तथा च च्छन्दोगा आमनन्ति—“ ज्यायान्पृथिव्या ज्यायान-
न्तरिक्षाज्ज्यायान्दिवो ज्यायानन्भ्यो लोकेभ्यः ” इति । “ स एवाधस्तात्स उपरि-
ष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्” इति(च) । स परमे-
श्वरः शुक्रेण जीवचैतन्यरूपेण भासकेन ज्योतींषि निर्मलत्वेन भास्कान्यन्तःकरणानि
सम्यगनुप्रविष्टः । “ तत्सृष्ट्वा तदेवानुप्राविशत् ” इति श्रुतेः । गर्भे ब्रह्माण्डरूपेऽ-
न्तर्मध्ये प्रजापतिर्विराड्रूपो भूत्वा चरति प्रवर्तते । विराड्रूपमाथर्वणिका आम-
नन्ति—“अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः
प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ” इत्यादि । अग्निः प्रकाशयुक्तो द्युलोकः ।
- त्रुटितमिदं चतुःषष्ट्यनुवाकानुरोधिभाष्यासंगृहीतम् । प्रकृते तस्यास्य च तौल्यात् ।