सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 793, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 793

७८८ परिशिष्टत्वेन संगृहीतः— [ अनु० १ ]
चकारावनुक्तसमुच्चयार्थौ । सर्वेऽपि कालविशेषाः समुत्पन्ना इत्यर्थः । लवत्रुट्यादि-
स्वरूपं पूर्वाचार्यैरुक्तम्—
“ नलिनीपत्रसंहत्याः सूक्ष्मसूच्यभिभेदने ।
दले दले तु यः कालः स कालो लववाचकः ॥
लवैस्त्रुटिः स्यात्त्रिंशद्भिः ” इति ।
अर्धमासाः शुक्लकृष्णरूपा मासाश्चैत्रवैशाखाद्या ऋतवो वसन्तग्रीष्माद्याः सर्वेऽपि
परमेश्वरादधिजज्ञिरे । तथा संवत्सरश्च प्रभवादिरूपः कल्पन्तां परमेश्वरादुत्पन्नः * ।
अत एव स्वप्रयोजनसमर्थो भवति । कल्पन्तामिति + बहुवचनपाठे कालविशेषाः स्वस्व-
प्रयोजनयोग्या इति योज्यम् । [ स ] परमेश्वरः स्वनिर्मितेन कालविशेषेणोपलक्षितः
संस्ततः कालौचित्येनाऽऽपः प्रदुघे जलोपलक्षितां पृथिवीं दुग्धवान् । प्राणिनामपेक्षितं
भोग्यजातं पृथिव्यां संपादितवानित्यर्थः । तथैवान्तरिक्षमेकं स्थानमथो अपि च सुवः
स्वर्गोऽपरं स्थानमिमे उभे अपि स्थाने प्रदुघे, तयोरपि स्थानयोर्योग्यं वस्तु संपादित-
वानित्यर्थः ।
ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्याश-
ङ्क्यैतस्य परमात्मन ऊर्ध्वाद्याकारविशेषाभावाद्ग्राह्यभावाच्चेति मन्त्रद्वयेन दर्शयति--
नै॒नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् ।
न तस्येशे कश्चन त॒स्य नाम मह॒द्यशः॑ ( २ )॥
न सं॒दृशे॑ तिष्ठति रू॒पम॒स्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ऽभिकॢ॑प्तो॒ य ए॑नं वि॒दुर॒मृता॑स्ते भ॑वन्ति, इति ।
कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदूर्ध्वाकारमुपरिस्थितका(शा)लावंशव-
त्तिर्यगाकारं वा गृहान्तर्वर्तिदेवदत्तवत्क्वचिन्मध्ये वा स्थितं न परिजग्रभत्, [न परि-
गृह्णाति ] ऊर्ध्वत्वाद्याकाराणां तस्मिन्नभावात् । किंच तस्य परमात्मनः कश्चन कोऽपि
पुरुषो नेशे नेष्टे नामग्रहणे सौकर्यार्थमीदृग्भवेति नियन्तुं न समर्थः । अत एव तस्य
परमात्मनो महद्यश इति नाम संपन्नम् । अत्यन्तस्वतन्त्रत्वेन तदीययशोऽभ्यधिक-
त्वात् । किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्ट