सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 788, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 788

*अथ परिशिष्टम् ।
कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमः प्रपाठकः।
नारायणोपनिषत् ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ ।
+सह॒ नाव॑वतु । सह॒ नौ॑ भुनक्तु । सह॒ वी॒र्यं॑ करवा-
वहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति शान्तिः ।
विचार्य सर्ववेदान्तैः संचार्य हृदयाम्बुजे ।
प्रचार्य सर्वलोकेषु आचार्य शंकरं भजे ॥ १ ॥
पद्मपादो विश्वरूपो हस्तामलकत्रोटकौ ।
अद्वैतदीक्षागुरवः साचार्याः पञ्च पान्तु माम् ॥ २ ॥
एतानि पद्मपत्राणि चत्वारि हृदयाम्बुजे ।
मामकीने प्रकाशन्तां भक्तिमुक्तिप्रसिद्धये ॥ ३ ॥
नमो नमः कारणकारणत्मने नमो नमो मङ्गलमङ्गलात्मने ॥
नमो नमो वेदविदां मनीषिणामुपासनीयाय नमो नमस्ते ॥ ४ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ॥
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ ५ ॥
वारुण्युपनिषद्युक्ता ब्रह्मविद्या सनातना ॥
याज्ञिक्यां फ(खि)लरूपायां सर्वशेषोऽभिधीयते ॥ ६ ॥
यथा बृहदारण्यके सप्तमाष्टमाध्यायौ खिलकाण्डत्वेनाऽऽचार्यैरुदाहृतौ तथेयं नारा-

  • परिशिष्टसंगृहीतमेतन्नारायणोपनिषद्भाष्यं केन प्रणीतमिति न जानिमः, परं चास्य
    पुस्तकद्वयमुपलब्धम् । भाष्यं चैतदशीत्यनुवाकात्मकैतद्देशीयवैदिकपाठप्रसिद्धमूलानुरोध्यस्त्यतोऽत्र परि-
    शिष्टरूपेण समूलं संगृहीतम् । अस्मिंश्च भाष्य उपक्रमे प्रायः सायणाचार्यकृतभाष्यस्यैवोल्लेखो दृश्यते ।
    अग्रेऽपि यत्र सायणाचार्यभाष्यानुरोधि मूलं वर्तते तत्र प्रायः सायणाचार्यकृतभाष्योल्लेखो दृश्यते ।
    × अत्र ङ. पुस्तके मूले ॐ शं नो मित्रः शं वरुणः । ०अवतु वक्तारम् । ॐ शान्तिः ॥ ३ ॥
    इत्यधिकम् ।