तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
[प्रपा० १० अनु० १३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२३
मं॒ण्डलं॑५ स ऋ॒चां लो॒कोऽथ॑ य ए॒ष ए॒तस्मि॑न्मण्ड॒लेऽर्चिर्दी-
प्यते॒ तानि॒ सामा॑नि॒ स साम्नां॑ लो॒कोऽथ॑ य ए॒ष ए॒त-
स्मिन्मण्डलेऽर्चिषि॒ पुरु॑षस्तानि॒ यजूं॑षि॒ स यजु॑षा
मण्डल५ स यजु॑षां लो॒कः सैषा त्रय्येव॑ वि॒द्या तप॑ति॒
य ए॒षोऽन्त॑रादि॒त्ये हिर॑ण्मयः॒ पुरु॑षः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रयोदशोऽनुवाकः ॥ १३ ॥
नारायणशब्दवाच्यो यः परमेश्वरः पूर्वानुवाकेऽभिहितः स एष आदित्यो वै
सोपाधिकः सन्नादित्यरूपेणैव वर्तते । तस्य चाऽऽदित्यस्यैतदस्माभिर्दृश्यमानं मण्डलं
वर्तुलाकारमुष्णं तेजस्तपति संतापं करोति । तत्र तस्मिन्मण्डले ता अध्यापकप्रसिद्धा
“अग्निमीळे” इत्यादिका ऋचो वर्तन्ते । तत्तस्मात्कारणान्मण्डलमृचा निष्पादितमिति
शेषः२ । स मण्डलभाग ऋग्भिर्निष्पादित ऋचामृगभिमानिदेवतानां लोको निवास-
स्थानम् । एवमृगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वं तत्र ध्यातव्यम् ।
कथमिति तदुच्यते—एतस्मिन्मण्डले य एष यदेतदर्चिर्दीप्यते भास्वरं तेजः प्रका-
शते तान्यर्चिःस्वरूपाणि बृहद्रथंतरादिसामानीति ध्यायेत् । सोऽर्चिर्भागः साम्नां
सामाभिमानिदेवतानां लोको निवासस्थानम् । अथ सामध्यानानन्तरं यजुरात्मकं
ध्यातव्यम् । कथमिति तदुच्यते—य एष शास्त्रप्रसिद्ध एतस्मिन्दृश्यमाने मण्डले
तदीयेऽर्चिषि३ च पुरुषो देवतात्मा वर्तते । तानि देवतास्वरूपाणि यजूंषि “इषे त्वोर्जे
त्वा” इत्यादीनि ध्यायेत् । स यजुरात्मकः पुरुषो यजुषा निष्पादितं मण्डलमिति
ध्यायेत् । स यजुर्भागो यजुषां यजुरभिमानिदेवतानां लोको निवासस्थानम् । सैषा
मण्डलतदर्चिस्तद्गत्यपुरुषरूपा ऋय्येवर्ऋग्यजुःसामात्मिकैव विद्या तपति प्रकाशते ।
यः पुरुषोऽत्राभिहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो वर्तते । हिर-
ण्मयत्वं चं शाखान्तरे प्रपञ्चितम्—४“अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः” ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि त्रयोदशोऽनुवाकः ॥ १३ ॥
१ झ. ॰रमूतं ते° । २ ग. म. ॰षः । म । ३ ग. ॰वि पुं । ४ ग. झ. घ श्रुत्यन्त° ।
५ ख. घ ॰ण्डलम्ना° ।
or a sign?
No, it's just the Vedic accent or text: तत्स॒त्यमन्न॑मायु॑रमृ॒तो जी॒वो विश्वः॑
Wait, let's look at विश्वः॑:
In line 6: जी॒वो विश्वः॑ -> under जी is anudatta जी॒.
Over विश्वः: svarita over श्वः (विश्वः॑).
Line 7:
क॒तमः स्व॑य॒म्भूः *प्र॒जाप॑तिरिति संवत्स॒रोऽसा॑वादि॒त्यो
Wait, look at स्व॑य॒म्भूः:
स्व॑: svarita over स्व.
य॒: anudatta under य.
म्भूः: nothing.
Then *प्र॒जाप॑तिरिति:
*: asterisk.
प्र॒: anudatta under प्र.
जा: nothing.
प॑: svarita over प.
तिरिति: nothing.
संवत्स॒रोऽसा॑वादि॒त्यो:
संवत्स॒रो: anudatta underत्स (त्स॒).
ऽसा॑: svarita over सा (सा॑).
वा: nothing.
दि॒: anudatta under दि (दि॒).
त्यो: nothing.
Line 8:
य ए॒ष पुरु
[प्रपा० १० अनु० १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३५
भावनामान्द्ये सलोकतां हिरण्यगर्भेण सहैकलोकनिवासं प्राप्नोति । देवतोपास्तावपि
भावनाधिक्ये सत्येतासामेवेन्द्रादीनां देवतानां सायुज्यं प्राप्नोति । भावनाया मध्यमत्वे
सति सार्ष्टितां समानैश्वर्यतां प्राप्नोति । मान्द्ये तु समानलोकतां प्राप्नोति ।
उत्तरमन्त्रजपविवक्षयोपास्तिप्रकारमुपसंहरति—
इत्युप॒निष॑त् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुर्दशोऽनुवाकः ॥ १४ ॥
इत्येवं पूर्वोक्तैरनुवाकैरूक्तोपनिषद्रहस्यभूता विद्या समाप्तेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुर्दशोऽनुवाकः ॥ १४ ॥
अथ पञ्चदशोऽनुवाकः
उपासनायामसमर्थस्याऽऽदित्यदेवताविषयं जप्यं मन्त्रमाह—
घृणि॒ः सूर्य॑ आदि॒त्यो(त्यस्त?)मर्चयन्ति *तप॒ः
सत्यं॒ मधु॑ क्षरन्ति॒ तद्ब्रह्म॒ तदाप॒ आपो॒ ज्योती॒
रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒ः सुव॒रोम् , इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चदशोऽनुवाकः ॥ १५ ॥
घृणिर्दीप्तिमान्सूर्य एतन्नामक आदित्योऽदितिदेवतायाः पुत्रः । एतादृशोऽ-
हमस्मि । ईदृशमादित्यं फलार्थिनः सर्वेऽप्यर्चयन्ति । तथा तमादित्यमुद्दिश्यं तपः
क्षरन्तीति शेषः । सत्यमनृतवर्जनम् । अनुतिष्ठन्तीति शेषः । मधु क्षरन्ति मधुरं
क्षीरादिकं नैवेद्यरूपेण समर्पयन्ति । तदादित्यरूपं ब्रह्म वेदात्मकं परं ब्रह्म वा ।
तथा तदादित्यरूपमपः, आपो जलरूपं वृष्टिनिष्पादकत्वात् । तथा समुद्रादिगता या
- एतदादि तदाप इत्यन्तमन्विश्चितस्वरकम् ।
१ झ. °मेव दे° । २ ग. °त्यो न प्रभांवात्यक्षरम् । मधु क्षरन्ति तद्रसम् ।
सत्यं वै तद्ब्रह्मापो ।
७३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १५-१७]
आपो यच्चाग्न्यादिकं ज्योतिर्योऽपि मधुरादिरसो यच्च देवैः पातव्यममृतं यदपि ब्रह्म
मन्त्रजातं ये च भूर्भुवः सुवस्त्रयो लोकास्तत्सर्वमोमादित्यरूपं भवतीत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ षोडशोऽनुवाकः ।
───
रुद्रदेवताकं मन्त्रमाह—
सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः
सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑-
मानं च॒ यत् । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षोडशोऽनुवाकः ॥ १६ ॥
यो रुद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः स एव सर्वो जीवरूपेण सर्वशरीरेषु प्रवि-
ष्टत्वात्तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु । प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिम-
पोह्य चिदात्मकः पुरुषो यो विद्यते स एव भक्तानुग्रहाय रुद्रमूर्त्तिरूपेणावभासते ।
तस्मादुक्तः स रुद्रः सन्महः “ सदेव सोम्येदमग्र आसीत् ” इत्यादिप्रतिपाद्यमवा-
धितं सद्रूपं तेजः । तादृशाय रुद्राय पुनः पुनर्नमस्कारोऽस्तु । यज्जडं विश्वमस्ति यच्च
भूतं चेतनं प्राणिजातमस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यद्भुवनं जगत्तत्रापि यज्ज-
गज्जातं पूर्वमेवोत्पन्नं यच्चेदानीं जायमानं स सर्वोऽपि प्रपञ्च एष रुद्रो हि तद्व्यति-
रेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात् । तादृशाय सर्वात्मकाय रुद्राय नम-
स्कारोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः ॥ १६ ॥
अथ सप्तदशोऽनुवाकः ।
───
रुद्रदेवताकं द्वितीयं मन्त्रमाह—
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वोचे॑म॒ शंत॑मं*
[प्रपा० १० अनु० १८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३७
हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु , इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तदशोऽनुवाकः ॥ १७ ॥
कत्थ श्लाघायामितिधातोरुत्पन्नः कच्छब्दः प्रशंसामाह । ततः कद्रुद्रः प्रशस्तो
रुद्रः, तस्मै । प्रचेतसे प्रकृष्टज्ञानयुक्ताय मीढुष्टमाय मिह सेचन इति धातुः । अभी-
ष्टानां कामानामतिशयेन सेक्त्रे, कामप्रदायेत्यर्थः । तव्यसेऽत्राऽऽदौ सकारस्य च्छान्दसो
लोपः । स्तव्याय स्तोतुं योग्यायेत्यर्थः । हृदे हृदयवर्तित्वेने तद्रूपाय । शंतममतिशयेन
सुखकरं स्तुतिरूपवाक्यं वोचेम कथयाम । सर्वो हीति पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि सप्तदशोऽनुवाकः ॥ १७ ॥
अथाष्टादशोऽनुवाकः ।
पुनरपि तद्देवताकं मन्त्रान्तरमाह—
नमो *हिर॑ण्यबाहवे हिर॑ण्यपतयेऽम्बिका-
पत॑य॒ उमाप॑तये॒ नमो॒ नमः॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदष्टादशोऽनुवाकः ॥ १८ ॥
बाहुशब्दस्य सर्वावयवोपलक्षणत्वाद्विरण्यवादवे भक्तानुग्रहाय सुवर्णमयकृत्स्नश-
रीरयुक्ताय । हिरण्यपतयेऽस्मदीयहिरण्यपालकाय । अम्बिका जगन्माता पार्वती
तस्याः +पतये भर्त्रे । तस्या एवाम्बिकाया ब्रह्मविद्यात्मको देह उमाशब्देनोच्यते ।
तादृश्या उमायाः पतये स्वामिने रुद्राय पुनः पुनर्नमत्कारोऽस्तु । अनेनानुवाकत्रयेणो-
क्तानां मन्त्राणां त्वरितरुद्राख्या मङ्गलकल्पेषु प्रसिद्धा । तद्विनियोगस्तु रुद्राध्यायजपैशो-
षत्वेन कल्पेषु द्रष्टव्यः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदष्टादशोऽनुवाकः ॥ १८ ॥
* ख. पुस्तक एतदग्रे—हिरण्यवर्णायेति ग. पुस्तके—हिरण्यवर्णाय हिरण्यरूपायेति चाधिकं भाष्यसंमतम् । + अत्राग्रे च पत्न इति युक्तं पठितुम् ।
१ ग. झ. ॅन कल्पवृक्षेष्व = क॑० . . . २ ख. ॅष्याऽऽयने न॑० । ३ ख. ॅजपे ऽवे॑० ।
७१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १९-२०
अथैकोनविंशोऽनुवाकः ।
अथाग्निहोत्रकर्मणि होमसाधनद्रव्यस्य कारणभूतं वृक्षविशेषं विधत्ते--
यस्य॒ वैक॑ङ्कत्य॒ग्निहो॑त्रहव॒णी भव॑ति॒ *प्रति॑ष्ठिताः ।
प्रत्ये॒वास्याऽऽहु॑तयस्तिष्ठन्त्यथो॒ प्रति॑ष्ठित्यै, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्येकोनविंशोऽनुवाकः ॥ १९ ॥
अग्निहोत्रे हविर्हूयते यया दर्व्या सेयमग्निहोत्रहवणी । सा च वैकङ्कती विकङ्कता-
ख्येन वृक्षेण निष्पादिता यस्याग्निहोत्रिणो भवति, अस्याग्निहोत्रिण आहुतयः प्रति-
ष्ठितास्तयाऽग्निहोत्रहवण्या प्रक्षिप्ताः सत्यः प्रतितिष्ठन्त्येव फलप्रदा भवन्त्येव । अथो
अपि च प्रतिष्ठित्या अनुष्ठातुश्चित्तशुद्धिद्वारा तत्त्वज्ञानप्रतिष्ठार्थं संपद्यन्ते । मुमुक्षोश्चि-
त्तशुद्धिद्वारा वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुमुपलक्षणत्वेन कर्माङ्गभूतो
विकङ्कतवृक्षोऽत्र ³विहितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकोनविंशोऽनुवाकः ॥ १९ ॥
अथ विंशोऽनुवाकः ।
────
अथ चित्तशुद्धिहेतूनां कर्मणां संग्रहणोपयोगमस्मिन्मोक्षप्रकरणे सूचयित्वा प्रतिब-
न्धकनिवारकान्रक्षोघ्नमन्त्रानङ्गप्रत्यत्वेन विधत्ते--
कृ॒णु॒ष्व पाज॒ इति॑ प॒ञ्च॑, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि विंशोऽनुवाकः ॥ २० ॥
संहितायाः प्रथमकाण्डे द्वितीयप्रपाठकस्यान्तिमानुवाके समाम्नाताः “कृणुष्व
पाजः” इत्याद्या ऋचः पञ्च जपितव्या इति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि विंशोऽनुवाकः ॥ २० ॥
────
- एतत्पदमनिचितस्वरकम् ।
... विभक्तिः ।
[प्रपा० १० अनु० २१-२२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३९
अथैकविंशोऽनुवाकः ।
जीवनहेतुक्षेत्रलाभद्वारा मुक्तिहेतुं पृथिवीदेवताकं मन्त्रमाह—
अदि॑तिर्देवा ग॑न्ध॒र्वा म॑नु॒ष्या॑: पितरोऽसु॑रास्तेषाँ॑
सर्व॑भूता॒नां मा॒ता मे॑दिनी मे॑हती म॒ही सा॑वि॒त्री
गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता
क॑त॒मा का॒या सा स॒त्येत्य॒मृतेति॑ वसिष्ठः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कविंशोऽनुवाकः ॥ २१ ॥
अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे । अत एव निघण्टुकारेण पृथिवी-
नामसु पठितः । देवादयः पञ्च जातिविशेषा अदितिरूपाः । एते च सर्वप्राणिदेहानामु-
पलक्षकाः । अतस्तेषां सर्वभूतानां देहोपादानत्वादियमदितिर्माता जननी । मेदिनी
मधुकैटभमेदसा जाता । अथवा मेदस्विनी कठिनेत्यर्थः । महती गुणाधिका, तच्च सर्वप्रा-
णिकृतोपद्रवसहिष्णुत्वेनावगन्तव्यम् । मही पूज्या । सावित्री सवितुः प्रेरकस्यान्तर्या-
मिणः संबन्धिनी । गायत्री गायकान्स्वोपासकांस्त्रायते रक्षतीत्यर्थः । जगती जगदाश्र-
यभूता । उर्व्यनेकस्सस्याढ्या । पृथ्व्यनेकविस्तारवती । बहुला निबिडावयवा । विश्वा
सर्वात्मिका । भूता प्राणिदेहोत्पत्तेः पूर्वमेव विद्यमाना । कतमाऽतिशयेन सुखरूपा ।
काया सर्वप्राणिदेहरूपेण परिणता । सा प्रसिद्धा । सत्या व्यवहारदशायां बाधर-
हिता । इत्येवं वसिष्ठो महामुनिराह । तथैवामृता मरणरहिता चतुर्युगपर्यावर्तनेऽप्य-
वस्थितेत्येतमप्यर्थं वसिष्ठ एवाऽऽह । अतोऽस्य मन्त्रस्य वसिष्ठ ऋषिरित्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकविंशोऽनुवाकः ॥ २१ ॥
अथ द्वाविंशोऽनुवाकः ।
वृष्ट्यभावकृतोपद्रवपरि²हारेणोप³कारिणमब्देवताकं मन्त्रमाह—
आपो॒ वा इ॒दँ सर्वं विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा
वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑: स॒म्रा-
१ ख. महता । २ झ 'हारि° । ३ ग °णहारि° ।
डापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ꣳस्यापो॒
ज्योती॒ꣳष्यापो॒ यजू॒ꣳष्याप॑: स॒त्यमाप॒: सर्वा॒
देव॒ता आपो॒ भूर्भुव॒: सुव॒राप॒ ओम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वाविंशोऽनुवाकः ॥ २२ ॥
यदिदं जगदस्ति तत्सर्वमापो वै जलमेव । कथमिति तदेव प्रपञ्च्यते—विश्वा
भूतानि सर्वाणि प्राणिशरीराण्यापो जलं रेतोरूपेण तदुत्पादकत्वात् । प्राणा वै
शरीरवर्तिवायवोऽप्यापः, उदकपानेन प्राणानामाप्यायनात् । अत एव च्छन्दोगा
आमनन्ति—“आपोमयः प्राणो न पिबतो विच्छेत्स्यते” इति । पशवो गवाद्योऽ
प्यापः क्षीरस्वरूपेण तत्र परिणतत्वात् । * अन्नं व्रीहियवादिकमापः । जलस्यान्नहे-
तुत्वं प्रसिद्धम् । अमृतं देवैरुपजीव्यं वस्त्वापः । तद्रूपेणापि परिणतत्वात् । सम्यग्रा-
जत इति सूत्रात्मा हिरण्यगर्भः सम्राट् । विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरुषो
विराट् । इन्द्रियादिनिरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीश्वरः स्वराट्।
छन्दांसि गायत्र्यादीनि । ज्योतींष्यादित्यादीनि । यजूंष्यनियताक्षरा मन्त्राः । सत्यं
यथार्थकथनम् । सर्वा देवता इन्द्रादयः । भूर्भुवः स्वस्त्रयो लोकाः । सम्राडादिलो-
कत्रयान्तपदार्थरूपेणाऽऽपः स्तूयन्ते । एताश्चाऽऽपो मूलकारणं परमात्मरूपेण प्रणवप्र-
तिपाद्या इति वक्तुमोंकारः पठितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि द्वाविंशोऽनुवाकः ॥ २२ ॥
अथ त्रयोविंशोऽनुवाकः ।
माध्याह्निकसंध्यानुष्ठानेऽभिमन्त्रितजलपानार्थे मन्त्रमाह—
आप॑: पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम् ।
यदुच्छि॑ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु
---------------------------------- व्यत्यासो वर्तते ।
'प्रपा० १० अनु० २४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४१
मामापो॑ऽस॒तां च॑ प्रति॒ग्रहं॑५ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रयोविंशोऽनुवाकः ॥ २३ ॥
या आपः सन्ति ताः पृथिवीं पुनन्तु प्रक्षालनेन शोधयन्तु । सा च पृथिवी पूता
शुद्धा सती मामनुष्ठातारं पुनातु शोधयतु । तथा ब्रह्मणो वेदस्य पतिः पतिं प्रति-
पालकमाचार्यमेता आपः पुनन्तु । तेनाऽऽचार्येणोपदिष्टं ब्रह्म वेदस्वरूपं पूता स्वयं
पूतं सन्मां पुनातु । अन्यभुक्तावशिष्टरूपमुच्छिष्टं यदस्ति यच्चाभोज्यं भोक्तुमयोग्यं
तादृशं कदाचिन्मया भुक्तं यद्वा दुश्चरितमन्यदपि प्रतिषिद्धाचरणरूपं मम किंचित्सं-
लग्नं तत्सर्वं परिहृत्येति शेषः । ततो मामापः पुनन्तु । तथाऽसतां शूद्रादीनां प्रति-
ग्रहं च मया कृतं पुनन्तु । तदर्थमिदमभिमन्त्रितमुदकं स्वाहा मदीयवक्त्राग्नौ स्वाहु-
तमस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रयोविंशोऽनुवाकः ॥ २३ ॥
अथ चतुर्विंशोऽनुवाकः ।
——————
सायंसंध्याकाले जलपानार्थं मन्त्रमाह--
अ॒ग्निश्च॑ मा म॒न्युश्च॑ मन्यु॒पत॑यश्च मन्यु॒कृते॑भ्यः । पापेभ्यो॑
रक्ष॑न्ताम् । यदह्ना॒ पाप॑मका॒र्षम् । मन॑सा वा॒चा हस्ता॑-
भ्याम् । प॒द्भ्यामु॒दरे॑ण शि॒श्ना । अह॒स्तद॑वलु-
म्पतु । यत्किंच॑ दु॒रितं मयि॑ । इ॒दम॒हं माम॒मृत॑-
योनौ । स॒त्ये ज्योति॑षि जुहोमि॒ स्वाहा॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चतुर्विंशोऽनुवाकः ॥ २४ ॥
योऽयमग्निरस्ति यश्च मन्युः क्रोधाभिमानी देवः, ये च मन्युपतयः क्रोधस्वामि-
नस्तन्नियामका देवाः सन्ति ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपोत्पादितेभ्यः
पापेभ्यो मा मां रक्षन्तां पापिनं मां तत्पापविनाशनेन पालयन्त । किं चातीते-
७४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० २५]
नाहा तस्मिन्नहनि यत्पापमकार्षं कृतवानस्मि । केन साधनेन मनआदिभिः शिश्ना-
न्तैरवयवैः । तत्सर्वं पापमहरवलुम्पतु, अहराभिमानी देवो विनाशयतु । परहिंसा-
दिचिन्तनं मानसं पापम् । अप्रियानृतादिभाषणं वाचिकम् । अभिचारमोहा(होमा)दिकं
हस्तकृतम् । पादेन गोब्राह्मणस्पर्शादिकं पादकृतम् । अभोज्यभोजनमुदरकृतम् ।
अगम्यागमनं शिश्नकृतम् । अथवा किमनेन परिमितगणनेन यत्किञ्चापि दुरितं मयि
निष्पन्नमिदं पापजातं सर्वं तत्कर्तारं मां च लिङ्गशरीररूपममृतयोनौ मरणरहि-
जगत्कारणे सत्ये बाधरहिते ज्योतिषि स्वयंप्रकाशे वस्तुनि जुहोमि प्रक्षिपामि
अहम् । अनेन होमेन तत्सर्वं भस्मी करोमीत्यर्थः । तदर्थमिदमभिमन्त्रितं जलं स्वाहा
[L
[प्रप० १० अनु० २६-२७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४६
अथ षड्विंशोऽनुवाकः ।
संध्यात्रये मार्जनादूर्ध्वं गायत्र्या आवाहनमन्त्रमाह—
आया॑तु॒ वर॑दा दे॒वी अ॒क्षरं॑ ब्रह्म॒ संमि॑तम् । गाय॒त्रीं छन्द॑सां
मा॒ता इदं ब्रह्म॑ जु॒षस्व॑ नः । ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑-
मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धामनामा॑ऽसि॒ विश्व॑मसि
वि॒श्वायुः सर्व॑मसि सर्वा॒युरभि॒भूरों गाय॒त्रीमावा॑हया॒मि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि षड्विंशोऽनुवाकः ॥ २६ ॥
वरदाऽस्मदभीष्टवरप्रदा देवी गायत्रीच्छन्दोभिमानिनी देवताऽक्षरं विनाशरहितं
संमितं सम्यग्वेदान्तप्रमाणेन निश्चितं ब्रह्म जगत्कारणं परतत्त्वमुद्दिश्याऽऽयात्वागच्छ-
त्त्वस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः । अयमेवार्थ उत्तरार्धेन स्पष्टी क्रियते--
छन्दसां गायत्रीत्रिष्टुभादीनां वेदानां वा माता जननी देवता गायत्री गायत्रीशब्दा-
भिधेया नोऽस्मानिदं ब्रह्म वेदान्तप्रतिपाद्यं तत्त्वं जुषस्व जोषयतु, उपदिशत्वित्यर्थः ।
हे गायत्रि देवि त्वमोजोऽसि बलहेतुभूताष्टमधातुरूपाऽसि । सहोऽसि शत्रूणामभि-
भवनशक्तिरसि । बलमसि शरीरगतव्यवहारसामर्थ्यरूपाऽसि । भ्राजोऽसि दीप्तिरू-
पाऽसि । देवानांमग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव तव नामेत्यर्थः ।
विश्वं सर्वजगद्रूपं त्वमेवासि । विश्वायुः संपूर्णायुःस्वरूपाऽसि । उक्तस्यैव व्याख्यानं
सर्वमसि सर्वा॒युरिति । अभिभूः सर्वस्य पापस्य तिरस्कारहेतुरों प्रणवप्रतिपाद्यः
परमात्माऽसि । तादृशीं गायत्रीं मदीये मनस्यावाहयामि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामु-
पनिषदि षड्विंशोऽनुवाकः ॥ २६ ॥
अथ सप्तविंशोऽनुवाकः ।
गायत्र्या आवाहनादूर्ध्वं प्राणायामार्थं मन्त्रमाह—
ओं भूः॑ । ओं भुवः॑ । ओग्ं॒ सुवः॑ । ओं महः॑ । ओं
जनः॑ । ओं तपः॑ । ओग्ं॒ सत्यम् । ओं तत्स॑वि॒तुर्वरे॑ण्यं॒
१ id. ता. ॰त्रीं नः । २ ख. ग. मातेदं । ३ ख. घ. मे । ४ ग. ॰ष्ठम॑ ।
७४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०१०अनु०२८]
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तविंशोऽनुवाकः ॥ २७ ॥
भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहृतयः । तेषां च लोकानां प्रणवप्र-
तिपाद्यब्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारणम् । तत्सवितुरित्यादिको गायत्री-
मन्त्रः । तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया तदादौ प्रणवोच्चारणम् । मन्त्रस्य चायमर्थः--
सवितुः प्रेरकस्यान्तर्यामिणो देवस्य वरेण्यं वरणीयं श्रेष्ठं तद्भर्गस्तेजो धीमहि
ध्यायेम । यः सविता परमेश्वरो नोऽस्मदीया धियो बुद्धिवृत्तीः प्रचोदयात्प्रकर्षेण
तत्त्वबोधे प्रेरयतु । तस्य तेजो ध्यायेमेति पूर्वत्रान्वयः । आपो ज्योतिरित्यादिको
गायत्र्याः शिरोमन्त्रः, तस्याऽऽद्यन्तयोः प्रणवद्वयं पूर्ववदुच्चार्यते । या आपो नदीस-
मुद्रादिगताः सन्ति । यच्च ज्योतिरादित्यादिकमस्ति । योऽपि रसो मधुराम्लादिः
षड्विधोऽस्ति । यदपि अमृतं देवैः पातव्यमस्ति । तत्सर्वमों प्रणवप्रतिपाद्यं ब्रह्म । किं
च भूर्भुवः सुवरित्यभिहिता ये त्रयो लोकाः सन्ति तेऽप्यों प्रणवप्रतिपाद्यं ब्रह्म । अस्य
च मन्त्रस्य प्राणायामाङ्गत्वममृतनादोपनिषदि प्रतिपाद्यते--
“सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते” ॥ इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि सप्तविंशोऽनुवाकः ॥ २७ ॥
अथाष्टाविंशोऽनुवाकः ।
तस्मिन्नेव प्राणायामे विकल्पितं मन्त्रान्तरमाह--
ॐ भूर्भुवः॒ सुवर्मह॒र्जन॒स्तपः॑ स॒त्यं तद्ब्रह्म॒ तदाप॒ आपो॑
ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष-
द्यष्टाविंशोऽनुवाकः ॥ २८ ॥
[प्रपा० १० अनु० २९-३०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४५
पूर्ववद्व्याचख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया-
रण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्यष्टाविंशोऽनुवाकः ॥ २८ ॥
अथैकोनत्रिंशोऽनुवाकः ।
पुनरपि विकल्पितं मन्त्रान्तरमाह—
ओं तद्ब्रह्म॑ । ओं तद्वा॒युः । ओं तदा॒त्मा* ।
ओं तत्सर्व॑म् । ओं तत्पु॑रो॒र्नमः, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्येकोनत्रिंशोऽनुवाकः ॥ २९ ॥
ओं प्रणवप्रतिपाद्यं तत्सर्ववेदान्तप्रसिद्धं ब्रह्म तत्त्वम् । तथा वायुः सूत्रात्मरूपो
हिरण्यगर्भ ओं तत्प्रणवप्रतिपाद्यं वेदान्तप्रसिद्धं ब्रह्मैव । तथैवाऽऽत्मा जीवोऽपि । ओं
तदिति पूर्ववत् । सर्वं जगदों तदिति पूर्ववत् । पुरः पुराणि स्थूलसूक्ष्मकारणशरी-
राणि । ओं तदिति पूर्ववत् । तादृशाय ब्रह्मणे नमोऽस्तु । प्राणायामे शक्तितारतम्य-
मनुसृत्य विकल्पितं मन्त्रत्रयमुक्तम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकोनत्रिंशोऽनुवाकः ॥ २९ ॥
अथ त्रिंशोऽनुवाकः ।
जपादूर्ध्वं गायत्रीदेवताया विसर्जनमन्त्रमाह—
उ॒त्त॒मे शि॑खरे ⁕दे॒वी भू॒म्यां पर्व॑तमूर्ध॒नि ।
ब्रा॒ह्म॒णेभ्यो॒ऽभ्य॑नुज्ञा
७४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३१-३२]
भूम्यामवस्थितो यः पर्वतो मेरुनामकस्तस्य मूर्धन्युपरिभागे यदुत्तमं शिखरमस्ति
तस्मिन्नियं गायत्री देवी तिष्ठति । तस्मात्कारणाद्धे देवि ब्राह्मणेभ्यस्त्वदुपासकेभ्य-
स्त्वदनुग्रहेण परितुष्टेभ्योऽनुज्ञामभिव्याप्य यथासुखं स्वकीयसुखमनातिक्रम्यं स्वस्थाने
तस्मिन्नुत्तमशिखरे गच्छ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया-
रण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रिंशोऽनुवाकः ॥ ३० ॥
अथैकत्रिंशोऽनुवाकः ।
गायत्रीदेव्या विसर्जनादूर्ध्वं तत्त्वानुस्मरणभूतस्य ब्रह्मण उपस्थानमन्त्रमाह—
ओ॒मन्तश्च॑रति॒ भूते॑षु गुहायां वि॒श्वमू॑र्तिषु ।
त्वं य॒ज्ञस्त्वं विष्णु॒स्त्वं वषट्का॒रस्त्वं
रु॒द्रस्त्वं ब्रह्मा॒ त्वं प्र॒जाप॑तिः, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येक-
त्रिंशोऽनुवाकः ॥ ३१ ॥
विश्वमूर्तिषु देवमनुष्यगन्धर्वादिनानाशरीरयुक्तेषु भूतेषु प्राणिषु गुहायां बुद्ध्याव-
न्तर्मध्य ओं प्रणवप्रतिपाद्यः परमात्मा चरति वर्तते । हे परमात्मन्यो यज्ञो ज्योतिष्टो-
मादिः स त्वमेव । यश्च विष्णुर्जगत्पालको योऽपि वषट्कारो हविःप्रदानमन्त्रो यश्च
रुद्रः संहर्ता यश्च ब्रह्मा जगत्स्रष्टा यश्च प्रजापतिर्दक्षादिः प्रजापालकः स सर्वोऽपि
त्वमेव ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषद्येकत्रिंशोऽनुवाकः ॥ ३१ ॥
अथ द्वात्रिंशोऽनुवाकः ।
अथ भोजनादावपां प्राशने मन्त्रमाह--
अ॒मृ॒तो॒प॒स्तर॑णमसि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
[प्रपा० १० अनु० ३२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५७
पीयमान हे जल त्वममृतं विनाशरहितं प्राणदेवताया उपस्तरणमसि । यथा
शयानस्य पुंसो मञ्चकस्योपरितनं पटादिकमुपस्तीर्यते तद्वत्प्राणदेवताया इदमुपस्तरणम् ।
तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवतायो जलवस्त्रत्वमामनन्ति—" तस्माद्-
शिष्यन्नाचामेदशित्वाऽऽचामेदेतमेव तदनमनग्नं कुरुते " इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽनुवाकः ।
जलप्राशनादूर्ध्वं प्राणाहुतिमन्त्रान्दर्शयति—
प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । प्रा॒णाय॒ स्वाहा॑ ।
अ॒पा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । अ॒पा॒नाय॒ स्वाहा॑ ।
व्या॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । व्या॒नाय॒ स्वाहा॑ ।
उ॒दा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । उ॒दा॒नाय॒ स्वाहा॑ ।
स॒मा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । स॒मा॒नाय॒ स्वाहा॑ ।
ब्रह्म॑णि म आ॒त्माऽमृत॑त्वाय॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥
पञ्चसु शरीरगतवायुभेदेषु मध्ये प्रथमे प्राणनामके वायौ निविष्ट आदरयुक्तोऽह-
ममृतं स्वादुभूतामिदं हविर्जुहोमि प्रक्षिपामि । तच्च प्राणदेवतायै स्वाहा स्वाहुतमस्तु ।
एवमपानादिषु योज्यम् । एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्षाय मे मदीय आत्मा
जीवो ब्रह्मणि परमात्मनि एकी भवत्विति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥
१ झ. ॰ या ब्रह्मणस्तत्त्वमा' । २ ख. 'तद्' । ३ ख. कुर्वन्ति ।
७४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३४-३५]
अथ चतुस्त्रिंशोऽनुवाकः ।
प्राणाहुतिष्वेव विकल्पितानि मन्त्रान्तराणि दर्शयति--
प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाम॑दाहाय ।
प्रा॒णाय॒ स्वाहा॑ । अपा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो
मा॑ वि॒शाप्र॑दाहाय । अपा॒नाय॒ स्वाहा॑ । व्या॒ने निवि॑-
ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒
स्वाहा॑ । उदा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑
वि॒शाप्र॑दाहाय । उदा॒नाय॒ स्वाहा॑ । समा॒ने निवि॑-
ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । समा॒नाय॒
स्वाहा॑ । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥
हूयमान हे द्रव्यविशेष त्वं शिवः शान्तो भूत्वा मां प्रविश। किमर्थम्। अप्रदाहाय
क्षुत्संपादितदाहशान्त्यर्थम् । अन्यत्पूर्ववद्व्याख्येयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुस्त्रिंशोऽनुवाकः ॥ ३४ ॥
अथ पञ्चत्रिंशोऽनुवाकः ।
भोजनादूर्ध्वमपां प्राशने मन्त्रमाह—
अ॒मृतापि॒धान॑मसि, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥
पीयमान हे जल त्वममृतमविनश्वरमपिधानमाच्छादकमसि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥
[प्रपा० १० अनु० ३६-३७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४९
अथ षट्त्रिंशोऽनुवाकः ।
भुक्तस्यानुमन्त्रणे मन्त्रमाह—
श्र॒द्धायां प्रा॒णे निवि॑श्या॒मृतꣳ॑ हु॒तम् । प्रा॒णमन्ने॑नाऽऽ-
प्यायस्व । अ॒पा॒ने निवि॑श्या॒मृ॒तꣳ॑ हु॒तम् । अ॒पा॒नमन्ने॑-
नाऽऽप्यायस्व । व्या॒ने निवि॑श्या॒मृतꣳ॑हुतम् । व्या॒न-
मन्ने॑नाऽऽप्यायस्व । उ॒दा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । उ॒दा॒-
नमन्ने॑नाऽऽप्यायस्व । समा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् ।
समा॒नमन्ने॑नाऽऽप्यायस्व । ब्रह्म॑णि म आ॒त्माऽमृ॑तत्त्वाय॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षट्त्रिंशोऽनुवाकः ॥ ३६ ॥
वैदिके कर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निविश्याऽऽदरा-
तिशयं कृत्वाऽमृतमविनश्वरं स्वादुभूतमिदं हविर्मया हुतम् । हे प्राणाभिमानिदेव हुते-
नाभ्नेनाऽऽप्यायस्व वर्धयस्व । स्पष्टमन्यत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि षट्त्रिंशोऽनुवाकः ॥ ३६ ॥
अथ सप्तत्रिंशोऽनुवाकः ।
अनुमन्त्रणादूर्ध्वं हृदयाभिमर्शने मन्त्रमाह—
प्रा॒णानां ग्रन्थिरसि रु॒द्रो मा॑ विशा॒-
न्तकः। तेनान्नेना॑ऽऽप्याय॒स्व, इति॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनि-
षदि सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
हे हृदयवर्तिन्नहंकार त्वं वायुरूपाणामिन्द्रियरूपाणां च प्राणानां ग्रन्थिरसि पर-
स्परमविश्लेषाय ग्रथनहेतुरसि । तादृशस्त्वं रुद्रस्त्वदभिमानिदेवतारूपोऽन्तको दुःखस्य
७५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० ३८-३९]
विनाशको भूत्वा मा मां विश मच्छरीरे प्रविष्टो भव । तेन मद्भुक्तेनान्नेनाऽऽप्या-
यस्व मामभिवर्धय ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥
अथाष्टात्रिंशोऽनुवाकः ।
――――――――――
क्षुधादिजनितचित्तविक्षेपशान्तेरूर्ध्वं भोक्तुर्जीवस्य परमेश्वररूपत्वानुसंधाने हेतुभूतं
मन्त्रं दर्शयति—
अ॒ङ्गुष्ठमा॒त्रः पुरु॑षोऽङ्गु॒ष्ठं च॑ समा॒श्रितः॑ ।
ईशः॒ सर्व॑स्य॒ जग॑तः प्रभुः ²प्रीणातु॑ वि॒श्व॒भुक्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषद्यष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
हृदयमध्यगत आकाशः स्वाङ्गुष्ठपरिमितः । तत्र वर्तमाना बुद्धिरपि तावती
तयाऽवच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः । स च स्वकीयया ज्ञानक्रियाशक्त्याऽ
ङ्गुष्ठं समाश्रितः । चकारान्मस्तकं चाऽऽश्रितः । आपादमस्तकव्यापीत्यर्थः । स चोपा
धिसंबन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सर्वस्य जगत ईशो नियन्ता । अत एव
विश्वभुक्सर्वं जगद्भुङ्क्ते । तादृशः स प्रभुरीश्वरः प्रीणातु, अनेन भोजनेन प्री³तो भवतु ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्यष्टात्रिंशोऽनुवाकः ॥ ३८ ॥
अथैकोनचत्वारिंशोऽनुवाकः ।
जीवात्मन ईश्वरेणाभेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनमतं
मेधाभिमानिदेवतां प्रार्थयितुमेकामृचमाह—
मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॒द्विश्वा॑ची भ॒द्रा
सु॒मन॒स्यमा॑ना । त्वया॒ जुष्टा॒ जुष॑माणा दु॒रु-
――――――――――――――――――――――――
१ ग. ॰धाने हेतुं म॰ । २ ग. झ. प्रीणाति । ३ ग. प्रसन्नो ।
[प्रपा० १० अनु० ४०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५१
क्तांन्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑:, इति ।
ग्रन्थतदर्थयोर्धारणशक्तिर्मेधा, तदभिमानिनी देवी जुषमाणा प्रीयमाणा सती
नोऽस्मान्प्रत्यागादागच्छतु । कीदृशी देवी । विश्वमश्नुत इति विश्वाची सर्वावगाहनक्ष-
मेत्यर्थः । अत एव भद्रा कल्याणी । सुमनस्यमाना शोभनं मनोऽस्मदनुग्राहकामि-
च्छन्ती । हे देवि त्वया जुष्टाऽनुगृहीता वयं दुरुक्ताञ्जुषमाणाः पुरुषार्थानुपयोगिनो
वेदबाह्याञ्शब्दान्सेवमाना वेदैकनिष्ठाः सुवीराः शोभनपुत्रशिष्यादिरूपा विदथे यज्ञेऽ-
नुष्ठिते सति शुद्धान्तःकरणा भूत्वा बृहद्वदेम परब्रह्मतत्त्वं कथयाम ।
तत्रैव द्वितीयामृचमाह—
त्वया॑ जु॒ष्ट ऋ॒षि॑र्भवति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒-
तश्री॑रु॒त त्वया॑ । त्वया॒ जु॒ष्टश्चि॒त्रं वि॑न्दते
वसु॒ नो॑ जुषस्व॒ द्रवि॑णेन मेधे, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
हे देवि मेधाख्ये त्वया जुष्टः सेवितोऽनुगृहीतः पुरुष ऋषिरतीन्द्रियदर्शी भवति ।
तथा त्वया जुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवति । उतापि च त्वया जुष्टः पुरुष
आगतश्रीः प्राप्तसंपद्भवति । अत एव त्वया जुष्टः पुरुषश्चित्रं गवाश्वभूहिरण्यधा-
न्यादिकं विविधं वसु धनं विन्दते लभते । हे मेधे देवि सा तादृशी त्वं नोऽस्मान्द्र-
विणेन धनेन जुषस्व सेवस्वानुगृहाणेत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥
अथ चत्वारिंशोऽनुवाकः ।
――――
मेधाप्रदानिन्द्रादीन्प्रार्थयते—
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां
मे॑ अ॒श्विना॑वु॒भौ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजौ, इतिः॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि चत्वारिंशोऽनुवाकः ॥ ४० ॥
७५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १०अनु०४१-४२]
योऽयमिन्द्रो देवो या च सरस्वती देवी यौ च पुष्करस्रजौ पद्ममालायुक्तावुभा-
वश्विनौ देवौ ते सर्वे मे मह्यं मेधां प्रयच्छन्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चत्वारिंशोऽनुवाकः ॥ ४० ॥
अथैकचत्वारिंशोऽनुवाकः ।
मेधाप्रदं मन्त्रान्तरं दर्शयति—
अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मन॑: । दैवी॓ मे॒धा
*मनुष्यजा सा मां मे॒धा सु॒रभि॑र्जुष॑ताम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येक-
चत्वारिंशोऽनुवाकः ॥ ४१ ॥
अप्सरासु देवस्त्रीषु या मेधा प्रसिद्धा वर्तते गन्धर्वेषु च देवगायकेषु यन्मनो
मेधात्मकमस्ति दैवी हिरण्यगर्भादिदेवेषु स्थिता या मेधा विद्यते मनुष्यजां मनु-
ष्येषु वेदशास्त्रवित्सु या मेधाऽस्ति सा सर्वा मेधा सुरभिः शोभनगन्धा सर्वकामदुघा
वा भूत्वा मां जुषतां सेवेताम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषद्येकचत्वारिंशोऽनुवाकः ॥ ४१ ॥
अथ द्विचत्वारिंशोऽनुवाकः ।
पुनरपि मेधार्थं मन्त्रान्तरमाह--
आ मां॑ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां मे॒धा सु॒प्रती॑का जु॒षताम्, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि द्विचत्वारिंशोऽनुवाकः ॥ ४२ ॥
- एतत्पदमनिष्टितस्वरकम् ।
... ३ ग. जुषन्ताम् ।