तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 744, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 744[प्रपा० १० अनु० २१-२२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३९
[प्रपा० १० अनु० २१-२२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३९
अथैकविंशोऽनुवाकः ।
जीवनहेतुक्षेत्रलाभद्वारा मुक्तिहेतुं पृथिवीदेवताकं मन्त्रमाह—
अदि॑तिर्देवा ग॑न्ध॒र्वा म॑नु॒ष्या॑: पितरोऽसु॑रास्तेषाँ॑
सर्व॑भूता॒नां मा॒ता मे॑दिनी मे॑हती म॒ही सा॑वि॒त्री
गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता
क॑त॒मा का॒या सा स॒त्येत्य॒मृतेति॑ वसिष्ठः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कविंशोऽनुवाकः ॥ २१ ॥
अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे । अत एव निघण्टुकारेण पृथिवी-
नामसु पठितः । देवादयः पञ्च जातिविशेषा अदितिरूपाः । एते च सर्वप्राणिदेहानामु-
पलक्षकाः । अतस्तेषां सर्वभूतानां देहोपादानत्वादियमदितिर्माता जननी । मेदिनी
मधुकैटभमेदसा जाता । अथवा मेदस्विनी कठिनेत्यर्थः । महती गुणाधिका, तच्च सर्वप्रा-
णिकृतोपद्रवसहिष्णुत्वेनावगन्तव्यम् । मही पूज्या । सावित्री सवितुः प्रेरकस्यान्तर्या-
मिणः संबन्धिनी । गायत्री गायकान्स्वोपासकांस्त्रायते रक्षतीत्यर्थः । जगती जगदाश्र-
यभूता । उर्व्यनेकस्सस्याढ्या । पृथ्व्यनेकविस्तारवती । बहुला निबिडावयवा । विश्वा
सर्वात्मिका । भूता प्राणिदेहोत्पत्तेः पूर्वमेव विद्यमाना । कतमाऽतिशयेन सुखरूपा ।
काया सर्वप्राणिदेहरूपेण परिणता । सा प्रसिद्धा । सत्या व्यवहारदशायां बाधर-
हिता । इत्येवं वसिष्ठो महामुनिराह । तथैवामृता मरणरहिता चतुर्युगपर्यावर्तनेऽप्य-
वस्थितेत्येतमप्यर्थं वसिष्ठ एवाऽऽह । अतोऽस्य मन्त्रस्य वसिष्ठ ऋषिरित्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकविंशोऽनुवाकः ॥ २१ ॥
अथ द्वाविंशोऽनुवाकः ।
वृष्ट्यभावकृतोपद्रवपरि²हारेणोप³कारिणमब्देवताकं मन्त्रमाह—
आपो॒ वा इ॒दँ सर्वं विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा
वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑: स॒म्रा-
१ ख. महता । २ झ 'हारि° । ३ ग °णहारि° ।