तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 749, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 749७४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०१०अनु०२८]
७४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०१०अनु०२८]
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तविंशोऽनुवाकः ॥ २७ ॥
भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहृतयः । तेषां च लोकानां प्रणवप्र-
तिपाद्यब्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारणम् । तत्सवितुरित्यादिको गायत्री-
मन्त्रः । तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया तदादौ प्रणवोच्चारणम् । मन्त्रस्य चायमर्थः--
सवितुः प्रेरकस्यान्तर्यामिणो देवस्य वरेण्यं वरणीयं श्रेष्ठं तद्भर्गस्तेजो धीमहि
ध्यायेम । यः सविता परमेश्वरो नोऽस्मदीया धियो बुद्धिवृत्तीः प्रचोदयात्प्रकर्षेण
तत्त्वबोधे प्रेरयतु । तस्य तेजो ध्यायेमेति पूर्वत्रान्वयः । आपो ज्योतिरित्यादिको
गायत्र्याः शिरोमन्त्रः, तस्याऽऽद्यन्तयोः प्रणवद्वयं पूर्ववदुच्चार्यते । या आपो नदीस-
मुद्रादिगताः सन्ति । यच्च ज्योतिरादित्यादिकमस्ति । योऽपि रसो मधुराम्लादिः
षड्विधोऽस्ति । यदपि अमृतं देवैः पातव्यमस्ति । तत्सर्वमों प्रणवप्रतिपाद्यं ब्रह्म । किं
च भूर्भुवः सुवरित्यभिहिता ये त्रयो लोकाः सन्ति तेऽप्यों प्रणवप्रतिपाद्यं ब्रह्म । अस्य
च मन्त्रस्य प्राणायामाङ्गत्वममृतनादोपनिषदि प्रतिपाद्यते--
“सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते” ॥ इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि सप्तविंशोऽनुवाकः ॥ २७ ॥
अथाष्टाविंशोऽनुवाकः ।
तस्मिन्नेव प्राणायामे विकल्पितं मन्त्रान्तरमाह--
ॐ भूर्भुवः॒ सुवर्मह॒र्जन॒स्तपः॑ स॒त्यं तद्ब्रह्म॒ तदाप॒ आपो॑
ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष-
द्यष्टाविंशोऽनुवाकः ॥ २८ ॥