सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 748, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 748

[प्रप० १० अनु० २६-२७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७४६
अथ षड्विंशोऽनुवाकः ।
संध्यात्रये मार्जनादूर्ध्वं गायत्र्या आवाहनमन्त्रमाह—
आया॑तु॒ वर॑दा दे॒वी अ॒क्षरं॑ ब्रह्म॒ संमि॑तम् । गाय॒त्रीं छन्द॑सां
मा॒ता इदं ब्रह्म॑ जु॒षस्व॑ नः । ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑-
मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धामनामा॑ऽसि॒ विश्व॑मसि
वि॒श्वायुः सर्व॑मसि सर्वा॒युरभि॒भूरों गाय॒त्रीमावा॑हया॒मि, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि षड्विंशोऽनुवाकः ॥ २६ ॥
वरदाऽस्मदभीष्टवरप्रदा देवी गायत्रीच्छन्दोभिमानिनी देवताऽक्षरं विनाशरहितं
संमितं सम्यग्वेदान्तप्रमाणेन निश्चितं ब्रह्म जगत्कारणं परतत्त्वमुद्दिश्याऽऽयात्वागच्छ-
त्त्वस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः । अयमेवार्थ उत्तरार्धेन स्पष्टी क्रियते--
छन्दसां गायत्रीत्रिष्टुभादीनां वेदानां वा माता जननी देवता गायत्री गायत्रीशब्दा-
भिधेया नोऽस्मानिदं ब्रह्म वेदान्तप्रतिपाद्यं तत्त्वं जुषस्व जोषयतु, उपदिशत्वित्यर्थः ।
हे गायत्रि देवि त्वमोजोऽसि बलहेतुभूताष्टमधातुरूपाऽसि । सहोऽसि शत्रूणामभि-
भवनशक्तिरसि । बलमसि शरीरगतव्यवहारसामर्थ्यरूपाऽसि । भ्राजोऽसि दीप्तिरू-
पाऽसि । देवानांमग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव तव नामेत्यर्थः ।
विश्वं सर्वजगद्रूपं त्वमेवासि । विश्वायुः संपूर्णायुःस्वरूपाऽसि । उक्तस्यैव व्याख्यानं
सर्वमसि सर्वा॒युरिति । अभिभूः सर्वस्य पापस्य तिरस्कारहेतुरों प्रणवप्रतिपाद्यः
परमात्माऽसि । तादृशीं गायत्रीं मदीये मनस्यावाहयामि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामु-
पनिषदि षड्विंशोऽनुवाकः ॥ २६ ॥

अथ सप्तविंशोऽनुवाकः ।
गायत्र्या आवाहनादूर्ध्वं प्राणायामार्थं मन्त्रमाह—
ओं भूः॑ । ओं भुवः॑ । ओग्ं॒ सुवः॑ । ओं महः॑ । ओं
जनः॑ । ओं तपः॑ । ओग्ं॒ सत्यम् । ओं तत्स॑वि॒तुर्वरे॑ण्यं॒
१ id. ता. ॰त्रीं नः । २ ख. ग. मातेदं । ३ ख. घ. मे । ४ ग. ॰ष्ठम॑ ।