सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 745, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 745

डापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ꣳस्यापो॒
ज्योती॒ꣳष्यापो॒ यजू॒ꣳष्याप॑: स॒त्यमाप॒: सर्वा॒
देव॒ता आपो॒ भूर्भुव॒: सुव॒राप॒ ओम्, इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वाविंशोऽनुवाकः ॥ २२ ॥
यदिदं जगदस्ति तत्सर्वमापो वै जलमेव । कथमिति तदेव प्रपञ्च्यते—विश्वा
भूतानि सर्वाणि प्राणिशरीराण्यापो जलं रेतोरूपेण तदुत्पादकत्वात् । प्राणा वै
शरीरवर्तिवायवोऽप्यापः, उदकपानेन प्राणानामाप्यायनात् । अत एव च्छन्दोगा
आमनन्ति—“आपोमयः प्राणो न पिबतो विच्छेत्स्यते” इति । पशवो गवाद्योऽ
प्यापः क्षीरस्वरूपेण तत्र परिणतत्वात् । * अन्नं व्रीहियवादिकमापः । जलस्यान्नहे-
तुत्वं प्रसिद्धम् । अमृतं देवैरुपजीव्यं वस्त्वापः । तद्रूपेणापि परिणतत्वात् । सम्यग्रा-
जत इति सूत्रात्मा हिरण्यगर्भः सम्राट् । विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरुषो
विराट् । इन्द्रियादिनिरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीश्वरः स्वराट्।
छन्दांसि गायत्र्यादीनि । ज्योतींष्यादित्यादीनि । यजूंष्यनियताक्षरा मन्त्राः । सत्यं
यथार्थकथनम् । सर्वा देवता इन्द्रादयः । भूर्भुवः स्वस्त्रयो लोकाः । सम्राडादिलो-
कत्रयान्तपदार्थरूपेणाऽऽपः स्तूयन्ते । एताश्चाऽऽपो मूलकारणं परमात्मरूपेण प्रणवप्र-
तिपाद्या इति वक्तुमोंकारः पठितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि द्वाविंशोऽनुवाकः ॥ २२ ॥

अथ त्रयोविंशोऽनुवाकः ।
माध्याह्निकसंध्यानुष्ठानेऽभिमन्त्रितजलपानार्थे मन्त्रमाह—
आप॑: पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम् ।
यदुच्छि॑ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु
---------------------------------- व्यत्यासो वर्तते ।