सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 742, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 742

[प्रपा० १० अनु० १८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३७

हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु , इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
सप्तदशोऽनुवाकः ॥ १७ ॥
कत्थ श्लाघायामितिधातोरुत्पन्नः कच्छब्दः प्रशंसामाह । ततः कद्रुद्रः प्रशस्तो
रुद्रः, तस्मै । प्रचेतसे प्रकृष्टज्ञानयुक्ताय मीढुष्टमाय मिह सेचन इति धातुः । अभी-
ष्टानां कामानामतिशयेन सेक्त्रे, कामप्रदायेत्यर्थः । तव्यसेऽत्राऽऽदौ सकारस्य च्छान्दसो
लोपः । स्तव्याय स्तोतुं योग्यायेत्यर्थः । हृदे हृदयवर्तित्वेने तद्रूपाय । शंतममतिशयेन
सुखकरं स्तुतिरूपवाक्यं वोचेम कथयाम । सर्वो हीति पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि सप्तदशोऽनुवाकः ॥ १७ ॥
अथाष्टादशोऽनुवाकः ।
पुनरपि तद्देवताकं मन्त्रान्तरमाह—
नमो *हिर॑ण्यबाहवे हिर॑ण्यपतयेऽम्बिका-
पत॑य॒ उमाप॑तये॒ नमो॒ नमः॑, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदष्टादशोऽनुवाकः ॥ १८ ॥
बाहुशब्दस्य सर्वावयवोपलक्षणत्वाद्विरण्यवादवे भक्तानुग्रहाय सुवर्णमयकृत्स्नश-
रीरयुक्ताय । हिरण्यपतयेऽस्मदीयहिरण्यपालकाय । अम्बिका जगन्माता पार्वती
तस्याः +पतये भर्त्रे । तस्या एवाम्बिकाया ब्रह्मविद्यात्मको देह उमाशब्देनोच्यते ।
तादृश्या उमायाः पतये स्वामिने रुद्राय पुनः पुनर्नमत्कारोऽस्तु । अनेनानुवाकत्रयेणो-
क्तानां मन्त्राणां त्वरितरुद्राख्या मङ्गलकल्पेषु प्रसिद्धा । तद्विनियोगस्तु रुद्राध्यायजपैशो-
षत्वेन कल्पेषु द्रष्टव्यः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदष्टादशोऽनुवाकः ॥ १८ ॥


* ख. पुस्तक एतदग्रे—हिरण्यवर्णायेति ग. पुस्तके—हिरण्यवर्णाय हिरण्यरूपायेति चाधिकं भाष्यसंमतम् । + अत्राग्रे च पत्न इति युक्तं पठितुम् ।
१ ग. झ. ॅन कल्पवृक्षेष्व = क॑० . . . २ ख. ॅष्याऽऽयने न॑० । ३ ख. ॅजपे ऽवे॑० ।