तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७७
जीवनोपादस्य मनसा विचार्य संपादितत्वान्मनसो जीवनहेतुत्वम् । उक्तरीत्या मनसाऽ-
भिमानपरित्यागेन मरणाल्लयहेतुत्वं च । तस्माल्लक्षणसद्भावान्मनसो ब्रह्मत्वं निश्चितम् ।
तद्वि॒ज्ञाय॑ । पुन॑रेव वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि
भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञा-
सस्व॑ । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
वि॒ज्ञानं॒ ब्रह्मेति॑ । व्य॑जानात् । वि॒ज्ञाना॒द्धये॑व खल्वि॒-
मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न जा॒तानि॑
जी॒वन्ति॑ । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
अथ चतुर्थपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना । मनसश्चक्षुरादि-
वत्करणत्वेन कर्तृपरतन्त्रत्वाच्च ब्रह्मत्वं युक्तम् । विज्ञानस्य तु कर्तृत्वं "विज्ञानं यज्ञं
तनुते" इति स्पष्टमेवाऽऽम्नातम् । तल्लक्षणं च तत्र सुलभम् । कर्मद्वारा देहोत्पत्तिहेतु-
त्वात् । "यत्कर्म कुरुते तदभिसंपद्यते । पुण्यो वै पुण्येन कर्मणा पापः पापेन "
इत्यादिश्रुतेः । लौकिककृष्यादेः कर्तृत्वेन जीवनहेतुत्वं मरणकारणयुद्धादिप्रवृत्त्या लय-
हेतुत्वं च । तस्माल्लक्षणलक्षितस्य विज्ञानस्य ब्रह्मत्वं युक्तम् ।
तद्वि॒ज्ञाय॑ । पुन॑रेव वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो
ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म विजि॑ज्ञासस्व । तपो॒
ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
आ॒न॒न्दो ब्रह्मेति॑ व्य॑जानात् । आ॒न॒न्दाद्धये॑व
खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि
जी॒वन्ति॑ । आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
अथ पञ्चमपर्याये संपन्नं निश्चयं दर्शयति---तद्विज्ञायेत्यादिना । कर्तृत्वस्य क्लेशा-
१ घ. ॰क्तनीत्या । २ ग. 'नत्या' । ३ क. ग. 'र्यादसं' ।
६७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]
त्मकत्वान्न विज्ञानस्य ब्रह्मत्वं युक्तम् । किंचान्नादिविज्ञानान्तानां चतुर्णामपि न सर्वभू-
तोत्पत्तिहेतुत्वमस्ति । आकाशादिभूतानामन्नादिभ्यो भौतिकेभ्यो जन्मासंभवात् । आन-
न्दस्य तु क्लेशरहितत्वात्स्वरूपेण सर्वाभीष्टतया परमपुरुषार्थत्वादाकाशादिसर्वभूतकार-
णत्वाच्च ब्रह्मत्वं मुख्यमेव संभवति । तस्याऽऽनन्दस्य स्वरूपं छन्दोगा आम्नन्ति—
“यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्” इति । द्वौ हि पदार्थौ
भूमाऽल्पं चेति । तत्र बहूर्भावो भूमेति व्युत्पत्तेर्बाहुल्यात्मको यः पदार्थस्तदेव सुखं न
तु भूम्न उपरितनेऽल्पपदार्थे सुखमस्ति । भूमा तु सुखं भवत्येव । तयोर्भूमाल्पयोर्लक्ष-
णभेदस्तत्रैवाऽऽम्नात. -- “यत्र नान्यत्पश्यति स. भूमा । अथ यत्रान्यत्पश्यति तद-
ल्पम्” इति । अन्यो द्रष्टा स्वातिरिक्तमन्यद्दृष्टव्यं पश्यतीत्यादयस्त्रिपुट्यो यस्मिन्नद्वै-
तपदाथै न संन्ति सोऽयमद्वैतपदार्थो भूमा । त्रिपुटीरूपं द्वैतं यस्मिञ्जगत्यस्ति तज्जग-
दल्पम् । तयोर्भूमाल्पयोर्नित्यत्वानित्यत्वे च तत्रैवाऽऽम्नायेते-- “यो वै भूमा
तदमृतमथ यदल्पं तन्मर्त्यम्” इति । द्वैतावस्थयोर्जाग्रत्स्वप्नरूपयोर्दुःखमेव प्रायेणानुभू-
यते । यदि क्वचित्कदाचित्सुखं स्यात्तदपि साधनप्रयासतारतम्यविनाशित्वदोषैरुपेतत्वा-
द्दुःखमेव ।
तदुक्तं श्रेयोमार्गकारैः--
“इह बत दुर्लभलाभाः सुखलेशा भङ्गिनो यतः शरीरभृताम् ।
तेऽपि च दुःखायत्तो दुःखानि पुनस्ततोऽपि दुःखानि” ॥ इति।
अनेनाभिप्रायेण नाल्पे सुखमस्तीत्युक्तम् । अद्वैतावस्थयोस्तु सुषुप्तिसमाध्योः सुख-
मेव स्वप्रकाशमवतिष्ठते । न च तस्य दुःखाभावत्वं शङ्कनीयम् । अभावस्य स्वप्रकाश-
त्वासंभवात् । प्रमाणेन विना भासमानत्वात्स्वप्रकाशत्वम् । न खल्वद्वैतं प्रमाणेन तदा
प्रमीयते । तथा सति द्वैतापत्त्या सुषुप्तिभङ्गप्रसङ्गात् । भासमानत्वं विप्रतिपत्त्यभावादव-
गन्तव्यम् । यद्वा जाग्रत्स्वप्नौ विप्रतिपत्तिमृत्वा जनोऽभ्युपगच्छति तदा सुषुप्तिसमाधी
अप्यविप्रतिपत्त्याऽभ्युपसंगच्छत्येव । तस्मात्साधनमन्तरेण भासमानतया स्वप्रकाशत्वा-
दद्वैतस्य न दुःखाभावत्वम् । + विषयलाभवत्सुषुप्तिसमाध्योः प्रीतिविषयत्वादद्वैतं
सुखरूपम् । सर्वे जना असति कर्तव्यान्तरे सौषुप्तं सुखं काङ्क्षन्तः शेरते । तत्त्वज्ञा-
निनश्च सुखाभिलाषेणैव निर्विकल्पं समाधिं कुर्वन्ति । उभयेऽप्युत्तरकाले सुखमहम-
स्वाप्सं सुखमहं समाहितवानस्मीति तत्सुखमनुस्मरन्ति । आभ्यां सुषुप्तिसमाध्यवस्था-
न्ताभ्यां द्वैतसृष्टेः प्राचीनमप्यद्वैतं सुखमित्यवगन्तव्यम् । तस्मादद्वैतरूपादानन्दादेवैमा-
न्याकाशादीनि हिरण्यगर्भादीनि च द्वैतरूपाणि भूतान्युत्पद्यन्ते । ननु द्वैताद्वैतरूपौ
- किं तर्हीत्यादिः ।
१ ग संभवान्ति , २ ग. च. ० लेशभं ।
: there is a vertical tick!
Wait, why does it look like:
Wait, let's look at the danda after विद्या: "वि॒द्या ।"
Then: "पर॒मे व्योम॑न्प्र॒तिष्ठि॑ता, इति ।"
Wait, what is after प्रतिष्ठिता?
A comma: ", इति ।"
Yes, exactly!
Let's read all lines carefully from L1 to the end:
L1:
[प्रपा० ९ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। ६७९
L2:
सृष्टिप्रलयावहोऱात्रवत्क्रमेण पुनः पुनः पर्यावर्तेते । तथा सत्येकस्य वस्तुनः परस्परवि-
Wait, is it "सृष्टिप्रलयावहोऱात्रवत्क्रमेण" or "सृष्टिप्रलयावहोरात्रवत्क्रमेण"?
"सृष्टिप्रलयावहोरात्रवत्क्रमेण" - standard Sanskrit: सृष्टिप्रलयौ + अहोरात्रवत् -> सृष्टिप्रलयावहोरात्रवत्.
Yes, "सृष्टिप्रलयावहोरात्रवत्क्रमेण".
Then: "पुनः पुनः पर्यावर्तेते । तथा सत्येकस्य वस्तुनः परस्परवि-"
L3:
"रुद्धरूपद्वयासंभवादेकस्य स्वाभाविकत्वमितरस्याऽऽगन्तुकत्वं च वक्तव्यम् ।
॑न्भवति । प्र॒जया॑ प॒शुभि॑र्ब्रह्मव॒र्चसे॑न । म॒हान्की॒र्त्या ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम्, इति ।
एवंशब्दः प्रकृतं परामृशति । अन्नं ब्रह्मेत्यारभ्याऽऽनन्दो ब्रह्मेत्येतदन्तं प्रकृ-
तम् । तत्र ब्रह्मज्ञानं प्रत्यन्नस्य प्रथमद्वारत्वात्तस्मिन्प्रतीके ब्रह्मदृष्टिं विधत्ते—यः
पुमानन्नं ब्रह्मेत्युपास्ते स पुमान्मनश्चाञ्चल्यरहित्येन प्रतिष्ठितो भवति । किंच प्रभूतान्न-
युक्तस्तदन्नमत्तुं समर्थो रोगादिरहितो भवति । पुत्रपौत्रादिप्रजया गवाश्वादिपशुभिर्वे-
वेदशास्त्राभ्यासरूपेण ब्रह्मवर्चसेन तत्तद्विषयजनितकीर्त्या च समृद्धो भवति ।
यस्मादन्नेन द्वारभूतेनोपासितेन ब्रह्मज्ञानं लभते तस्मादयमुपासको गुरुमिवान्नं न
निन्द्यात् । तद्व्रतमिति तदेतदनिन्दनमस्योपासकस्य व्रतं नियमेन संपादनीयम् ।
तदतिक्रमे सत्युपासनमङ्गविकलं स्यात् ।
अथोपासनान्तरं विधातुमुपास्यं दर्शयति—
प्रा॒णो वा अन्न॑म् । शरी॑रमन्ना॒दम् । प्रा॒णे
शरी॑रं प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑-
ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् , इति ।
यथा शरीरस्यान्तरे भुक्तमन्नं भवति तथा शरीरमध्येऽवस्थानात्प्राण एवान्नम् ।
मध्यवर्तिनस्तस्य प्राणरूपस्यान्रस्य धारणाच्छरीरमन्नादं भोक्तृरूपं गृहमध्यवर्तिस्त-
म्भवद्देहमध्यवर्तिप्राणस्य देहधारित्वात्प्राणे शरीरं प्रतिष्ठितं भवति । प्राणस्य देह-
धारकत्वं प्राणसंवादे श्रूयते—“ अहमेवैतत्पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य
विधारयामि ” इति । शरीरस्य च प्राणधारकत्वं प्रत्यक्षम् । तदेतत्प्राणशरीरयोरन्यो-
न्याधारकत्वं चिन्तनीयम् । किंच प्राणस्यान्तरवस्थानेनान्नत्वं पूर्वमुक्तम् । देहस्यान्न-
कार्यत्वादन्नत्वम् । तथा सत्युभयोरन्नत्वात्पूर्वोक्तरीत्या परस्पराधारत्वाच्चान्नमेवान्ने
प्रतिष्ठितमित्यपि चिन्तनीयम् ।
उपास्यमभिधाय तदुपासनं विधत्ते —
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो
१ क. ख. ग. ङ. रोगरहितो । २ ख. ॰मे तदुपा॰ । ३ ख. ॰रीरान्त॰ । ४ घ.
॰रूपान्न॰ । ५ घ. ङ. ॰कनीत्या ।
have a vertical stroke in both line 2 and line 15?
Wait, in line 2: म॒हान्भ॑वति - YES! There IS a vertical stroke above भ!
Wait, why is there an underscore under भ in line 15?
Wait, look at line 15: is that an underscore under भ?
Wait, look at line 14:
Above line 15's भ, is the word प्रति॑ष्ठितं॒.
Below line 15's भ, is line 16: प्र॒जया॑.
Above प्र॒ of line 16, there is nothing.
Wait, look at line 15:
ष्ठति । अ॒न्नवा॑नन्ना॒दो भ॑वति । महा॒न्भ॑वति
Wait, under भ of भवति there is a horizontal stroke: भ॒?
Wait, look at अ॒न्नवा॑नन्ना॒दो:
अ॒ has horizontal stroke.
वा॑ has vertical stroke.
न्ना॒ has horizontal stroke.
दो has NO stroke.
भ॑वति: wait, does भ have a horizontal stroke?
Let's zoom in 500% on दो भ॑वति:
Wait! Look at दो: the right descender of दो ends,
६८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]
उपासनं विधत्ते—
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑ति-
ष्ठति । अन्न॑वानन्नादो भ॑वति । म॒हान्भ॑वति
प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्कीर्त्या॑ ॥
इतिकृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः।
न कंचन वसतौ प्रत्या॑चक्षीत । तद्व्र॒तम् , इति ।
निवासार्थं स्वगृहे समागतं कमपि न निवारयेत् ।
यथोक्तव्रतनिर्वाहकमुपायं प्रसङ्गाद्विधत्ते—
तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्, इति ।
यस्मादभ्यागताय निवासे दत्ते सत्यन्नमपि दातव्यमन्यथा प्रत्यवायश्रवणात् ।
“एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे” [ काठ० वल्ली० १ ]
इत्यादातुरैहिकामुष्मिककृत्स्नफलवर्जनमाम्नायते तस्मादन्नं दातुं याजनाध्यापनप्रतिग्रहाणां
मध्ये येन केनापि प्रकारेणान्नसमृद्धिं संपादयेत् ।
अत्र शिष्टाचारं दर्शयति—
अराध्यस्मा अन्नमित्याचक्षते, इति ।
यो गृहे समागच्छति तस्मा आगतायान्नमराधि संपन्नमित्येवान्नवन्तो विद्वांस
आचक्षते, न तु परिहरन्ति ।
बह्वन्नसंपादने फलातिशयाय दानविशेषे फलविशेषं दर्शयति—
ए॒तद्वै मुख॒तोऽन्नꣳ॑ राद्धम् । मुख॒तोऽस्मा॒ अन्नꣳ॑ रा॒ध्यते ।
ए॒तद्वै मध्य॒तोऽन्नꣳ॑ रा॒द्धम् । मध्य॒तोऽस्मा॒ अन्नꣳ॑
रा॒ध्यते । ए॒तद्वा अन्त॒तोऽन्नꣳ॑ रा॒द्धम् । अन्त॒तोऽस्मा॒
अन्नꣳ॑ रा॒ध्यते ( १ ) । य ए॒वं वेद॑, इति ।
यदन्नं संपादितमस्त्येतदेवान्नं मुखतो राद्धं भवति । मुख्ये देशे तीर्थक्षेत्रविशेषे
मुख्यकाले संक्रान्त्यमावास्यादिरूपे मुख्यायाभ्यागताय वेदशास्त्रतदध्ययनानुष्ठानपराय
मुख्यया वृत्त्या श्रद्धाप्रणिपातसत्कारादिरूपया मुख्येन दात्रा सात्त्विकेन दत्तमित्यर्थः
: Wait! क्षिhas the retroflex loop? Wait, let's look atकानिचिद्विधत्ते(L17),रक्षणम्(L18),परिरक्षणम्(L20),विवक्षिताः(L21),क्षत्रियस्य(L21). Look atक्षिinविवक्षिताः(line 21): It isक्षwithि: क्षि. Now look at the word in line 25: स म न्ता त्thenक्षि प्य मा नाः! The character is IDENTICAL to क्षिinविवक्षिताः! Yes, it is literally क्षिप्यमानाः! Wait, why समन्तात्क्षिप्यमानाः? Wait, आ + क्षिप्यमानाः? Look at the preceding words: सम्यगा समन्तात् क्षिप्यमानाः->सम्यगासमन्तात्? There is a space: सम्यगा समन्तात्क्षिप्यमानाः! Wait, could it be सम्यगा समन्तात् क्षिप्यमानाः? Wait, आ-समन्तात्orसम्यक् आ समन्तात्? Yes, सम्यगा समन्तात्क्षिप्यमानाः क्रियाः समाज्ञाः ।
६८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१०]
प्रजातिरमृतमानन्द इत्युप॒स्थे । सर्व॒मित्या॒काशे॑ ।
उपासनान्तराणि विधत्ते—अथ दैवीरित्यादिना । अथ मनुष्यावयवगतपञ्चोपा-
स्तिकथनानन्तरं दैवीर्देवशरीरगता उपासनाः कथ्यन्ते । वृष्ट्यभिमानिदेवतायां तृप्ति-
रूपेणावस्थितं ब्रह्म । विद्युदभिमानिदेवतायां बलरूपेणावस्थितम् । पशुदेवतासु यशो-
रूपेणावस्थितम् । नक्षत्रदेवतासु ज्योतींरूपेणावस्थितम् । प्रजातिः पुत्रोत्पादनम् ।
अमृतं योषिता सह क्रीडा । आनन्दो गुह्येन्द्रियजन्यः परकीयावयवसंयोगरूपो
व्यापारः । अनेन रूपत्रयेणोपस्थाभिमानिदेवतायामवस्थितम् । त्रयस्य गुह्येन्द्रिय-
विषयत्वं कौषीतकिन आमनन्ति—"प्रज्ञयोपस्थं समारुह्योपस्थेनाऽऽनन्दं रतिं प्रजातिं
चाऽऽप्नोति” इति । भूतमौतिकरूपं यज्जगदस्ति तेन सर्वेण रूपेणाऽऽकाशाभिमा-
निदेवतायां ब्रह्मावस्थितम् । एतेषु क्षेम इति वाचीत्यादिषूपासनेषु यथोपासनं फलं द्रष्ट-
व्यम् “ तं यथा यथोपासते तदेव भवति ” इति श्रुतेः ।
तत्प्रति॒ष्ठेत्यु॑पासीत । प्रतिष्ठा॑वान्भवति । तन्मह॑
इत्यु॑पासीत । म॑हान्भवति । तन्मन॒ इत्यु॑पासीत ।
मान॑वान्भवति ( ३) । तन्नम॒ इत्यु॑पासीत । नम्य-
न्ते॑ऽस्मै॒ कामा॑: । तद्ब्रह्मेत्यु॑पासीत । ब्रह्म॑वान्भवति।
तद्ब्रह्मणः परिमर॒ इत्यु॑पासीत । पर्य॑णं म्रियन्ते
द्विषन्त॑: सपत्ना॑:। परि॒ येऽप्रि॑या भ्रातृ॑व्याः, इति ।
एतच्छ्रुत्यर्थमेवाभिप्रेत्य कानिचित्फलसहितान्युपासनान्युदाहरति—तत्प्रतिष्ठेती-
त्यादिना । तद्ब्रह्म प्रतिष्ठा स्थितिरित्युपासीनेऽशनाच्छादनादिजीवनस्थितिहेतुमा-
न्भवति । महो महत्त्वगुणोपेतम् । महान्धनादिभिः समृद्धः । मनो मननशक्त्युपे-
तम् । मानवान्मननशक्तिमान् । नमो नमनं नमनेन वशीकरणेनोपेतम् । अस्मा
उपासकाय कामा नम्यन्ते स्वाधीना भवन्ति । ब्रह्म वेदः । ब्रह्मवान्स्वाधीनवेदः ।
ब्रह्मणो ब्राह्मणस्य परिमरः परितो वर्तमानस्य द्वेष्यस्य मृत्युरूपः । एनं पर्यैतस्यो-
पासकस्य परितो वर्तमाना द्वेषं कुर्वन्तः शत्रवो म्रियन्ते । एते द्वेषमकुर्वन्तोऽप्यप्रिया
भ्रातृव्यास्तथाविधा अपि शत्रवः परितो म्रियन्ते ।
स यश्चायं पु॒रुषे । यश्चासा॑वादित्ये । स एक॑:
( ४) । स य॑ एवंवित् । अस्माल्लोका॑त्प्रेत्य । एत-
१ क. ख. ग. ङ. ॰वेणाऽऽका॰ । २ क. ख. ह. ॰सीताश॰ ।
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६८५
मन्नमयमा॒त्मा॑न॒मुप॑संक्रम्य । एतं प्रा॒णमयमा॒त्मा-
न॒मुप॑संक्रम्य । एतं मनोमयमात्मानमुप॑संक्रम्य ।
एतं वि॒ज्ञानमयमात्मानमुप॑संक्रम्य । एतमान-
न्दमयमात्मानमुप॑संक्रम्य । इमाँल्लो॒कान्कामान्नी
कामरूप्यनु॒संच॑रन् । एतत्साम गा॑य॒न्नास्ते॑ ।
यथोक्तोपासनैरस्मिञ्जन्मनि जन्मान्तरे वा चित्तैकाग्र्यं प्राप्तस्य यद्वेदनीयं यच्च वेद-
नफलं तदुभयं दर्शयति—स यश्चेत्यादिना । स यश्चायं पुरुष इत्यारभ्यैतमानन्दम-
यमात्मानमुपसंक्राम्येत्यन्तस्यार्थः पूर्वानुवाकेऽभिहितोऽप्यत्र नानाविधोपासनसाध्यस्य
चित्तैकाग्र्यरूपस्य तपसः परमपुरुषार्थपर्यवसायित्वं दर्शयितुं पुनरप्यभिहितः । आनन्दम-
यकोशे ब्रह्म पुच्छमित्यभिहितस्याखण्डैकरसस्याऽऽनन्दस्याऽऽत्मत्वेन साक्षात्कृतत्वात्प्रि-
यमोदादिचतुर्षु कोशावयवेषु ततः पूर्वेषु च कोशेषु बन्धहेतुषु सर्वेषु स्वात्मत्वभ्रमस्य
निःशेषेण परित्यक्तत्वादयं मुक्त एव । तथाऽपि जीवत्ययमिति लोकैर्व्यपदिश्यते । देहे-
न्द्रियादीनां लोकैर्दृश्यमानत्वात् । अतो लोकदृष्ट्या जीवन्नात्मदृष्ट्या मुक्तत्वाच्चासौ
जीवन्मुक्तः । स च यथोक्तप्रकारेणाऽऽत्मानमुपसंक्रम्य यावद्देहपातमितरपुरुषवदास्ते ।
किं कुर्वन् । कामान्नी कामरूपी भूत्वा लोकानिमाननुक्रमेण संचरन्कामत इच्छा-
तोऽन्नमत्तीति । भोज्याभोज्यविभागप्रतिपादकविधिनिषेधशास्त्रातिवर्तित्वादस्य कस्यापि
गृहे भुङ्क्ते । तथा च श्रूयते—‘‘सार्ववर्णिकं भैक्षमाचरन्नुदरपात्रेण’’ इति । ‘‘निस्त्रैगुण्ये
पथि विचरतां को विधिः को निषेधः’’ इत्युक्तत्वाच्च । कामत इच्छातो रूपं वेष-
धारणमस्यास्तीति कामरूपी ‘‘ अव्यक्तलिङ्गो ऽव्यक्तचारः’’ इति श्रुतेः । इमे
लोकाः काशीद्वारवत्यादिभूप्रदेशविशेषास्तेषु क्रमेण संचरति । न तु कचिद्गृहं कृत्वा
निवसति ‘‘ अनिकेतवास्यप्रयत्नः ’’ इति श्रुतेः । यद्वा — ‘‘ ब्रह्मादिस्थावरान्ता ये
प्राणिनो मम पूः स्मृताः ’’ इत्येवमुपदेशसाहस्र्यामभिहितेन प्रकारेण सर्वात्मत्वनिश्चये
न पुरुषा येषु येषु लोकेष्वनुसंचरन्ति तत्सर्वं स्वकीयमित्येव परितुष्यन्नवतिष्ठत इत्यर्थः ।
पुनरपि किं कुर्वन्—एतत्साम गायन्नेतदनन्तरमेव वक्ष्यमाणं साम गीत्यात्मकं
मन्त्रम् । यद्वा समत्वप्रतिपादकं मन्त्रम् ‘‘ सर्वेण समस्तेन साम ’’ इति श्रुतेः । सर्वदा
समस्तेन सामेत्यपि श्रुतं गायन्सामवेदोक्तक्रमेण गीतं कुर्वन्शिष्यान्प्रति स्वकीयसर्वात्म-
भावप्रकटनं गानस्य फलम् ।
हा३वु॒ हा३वु॒ हा३वु॑ ( ५ ) । अ॒हमन्न॑म॒हमन्न॑म॒हमन्न॑म् ।
१ ग. घ. गीतिं । २ घ. ॰कार्यं सर्वात्मभाव॰ ।
६८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]
अह॒मन्ना॒दोऽ३॒हम॑न्ना॒दोऽ३॒हम॑न्नादः॑ । अ॒हꣳश्लो॑क-
कृ॒द॒हꣳश्लो॑ककृ॒द॒हꣳश्लो॑ककृत् । अ॒हम॑स्मि
प्र॑थ॒मजा ऋ॒ता३स्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य
ना३भा॑यि । यो मा ददाति स इदेव मा३ऽऽ-
वाः॑ । अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॑ । अ॒हं विश्वं॒
भुव॑न॒मभ्य॑भवा३म् । सुवर्न ज्योतीः॑, इति ।
अथ सामस्वरूपं दर्शयति—हा३वु हा३वु इत्यादिना । अहोशब्दस्याऽऽ-
श्चर्यवाचकस्यात्र गानार्थे वर्णविकारे सति हावुशब्दो निष्पद्यते । अतिशयद्यो-
तनार्थे त्रिरावृत्तिः । पूर्वं देहमात्रवर्तिनो मम गुरुशास्त्रप्रसादलब्धज्ञानमात्रेण
[
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६८७
इत्यादिना कार्यपरम्परामन्नजन्यामाम्नाय— “तस्मादन्नं ददन्सर्वाण्येतानि ददाति ”तीष्ट-
याज्ञिक्यामुपनिषदि वक्ष्यते । बोधायितव्यः परमात्मरूपो दातव्यान्नरूपश्चाहमेवा-
स्मीत्यर्थः । अहमन्नदेवतारूपः सन्दानमन्तरेण स्वयमेवान्नं भक्षयन्तं लोभयुक्तमतिकृ-
पणं पुरुषमद्मि भक्षयामि । महारौरवादिनरकपातेन विनाशयामीत्यर्थः । “ केवलाघो
भवति केवलादी ” इति श्रुतेः । “ भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ”
इतिस्मृतेश्च । अहं विश्वं सर्वं भुवनं लोकजातमभ्यभवमभिभूतवान् । अहमेवेश्वर-
रूपः सन्प्रलयकाले संहृतवानस्मि । सुवःशब्दः स्वर्गस्थमादित्यमुपलक्षयति । नशब्द
उपमानार्थः । आदित्यो यथा प्रकाशान्तरनैरपेक्ष्येण स्वयमेव स्वप्रकाशरूपस्तथैवाहं
चक्षुरादिनिरपेक्षः सन्नेव चैतन्यज्योतिरास्मि ।
अनेन साम्ना प्रतिपादितः सर्वात्मत्वानुभवः कस्य फलमित्याशङ्क्याऽऽह—
य एवं॒ वेद॑ , इति ।
ब्रह्म पुच्छमितिवाक्येनोक्तमखण्डैकरसमानन्दात्मानं१ यः पुमानन्नमयादिद्वारेण
साक्षात्करोति तस्यैतत्फलम् । यद्यपि स य एवंविदिति फलभाग्विद्वान्पूर्वमेव निर्दिष्टस्त-
थाऽपि विदुष एव फलं नेतरस्याविदुषः । विदुषस्त्ववश्यं फलं भवत्येवेति द्विविधनिय-
मार्थं य एवं वेदेति पुनराम्नातम् ।
अनुवाकार्थमुपसंहरति—
इ॒त्युप॑निषत् ( ६ ) , इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
दशमोऽनुवाकः ॥ १० ॥ *
भृगुर्वे वारुणिरित्यारभ्य य एवं वेदेत्यन्तेन ग्रन्थेन प्रतिपादिता येयं विद्या
सेयमितिशब्देन परामृश्यते । सा चोपनिषच्छब्दवाच्या । तच्छब्दनिर्वचनं तु पूर्वमेव
प्रपञ्चितम् । एषोपनिषत्समाप्तेति वाक्यशेषः ॥
- इति नवमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
- एतदग्रे ग. पुस्तके—“ राध्यते विश्रुति मानवान्भवत्येको हा३वु य एवं वेदैकं च ”
इत्याधिकम् । + एतत्प्रपाठकस्याऽऽदौ—प्रपाठकानुवाकयोर्वैपरीत्यकारणस्योल्लेखष्टिप्पण्यां कृतोऽस्ति
स तत्रावलोकनीयः ।
१ ध. ‘नन्दमात्मा’ ।
An exact line-by-line transcription of the page into Devanagari with Vedic accents and formatting:
६८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]
[*भृगुस्तस्मै॑ यतो विश॑न्ति तद्विजि॑ज्ञासस्व॒ त्रयो॑-
दशान्नं॑ प्रा॒णो मनो॑ वि॒ज्ञानं॒ द्वाद॑श द्वादशाऽऽ-
न॒न्दो दशान्नं॒ न नि॑न्द्यादन्नं॒ न प॑रिचक्षीतान्नं॑
ब॒हु कु॑र्वीतैकादशैकादश॑] न कंचनैंकषष्टि॑र्दश॑ ॥
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्ति॒: शान्ति॒: शान्ति॑: + ।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमः प्रपा-
ठकः समाप्तः ॥ ९ ॥
वेदार्थस्य
कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् ।
ॐअथ दशमः प्रपाठकः ।
अथ नारायणोपनिषत् ।
( तत्र प्रथमोऽनुवाकः । )
हरिः ॐ ।
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति शान्तिः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
वारुण्युपनिषद्युक्ता ब्रह्मविद्या ससाधना ।
याज्ञिक्यां खिलरूपायां सर्वशेषोऽभिधीयते ॥ ३ ॥
यथा बृहदारण्यके सप्तमाष्टमाध्यायौ खिलकाण्डत्वेनाऽऽचार्यैरुदाहृतौ, तथेयं
नारायणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा तल्लक्षणोपेतत्वात् । कर्मोपासन-
ब्रह्मकाण्डेषु त्रिष्वपि यद्यद्वक्तव्यमवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णरूपत्वं खिल-
त्वम् । बृहदारण्यके सप्तमाध्याये— “ पूर्णमदः पूर्णमिदम् ” इत्यादिना ब्रह्मतत्त्वम-
भिहितम् । “ ॐ खं ब्रह्म ” इत्यादिभिरष्टमाध्यायगतैश्च “ यो ह वै ज्येष्ठं च श्रेष्ठं च
वेद” इत्यादिभिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि । “ स यः कामयेत महत्प्राप्नु-
याम् ” इत्यादिना मन्थाख्यं कर्माभिहितम् । तथा पुत्रविशेषादिकामनायुक्तानां तत्कर्मा-
ण्याभिहितानि । एवमत्राप्यम्भस्य पार इत्यादिना ब्रह्मतत्त्वमभिहितम् । “ आदित्यो
- अयमेव दशमः प्रपाठक उपनिषत्पञ्चकान्तर्गतनारायणोपनिषदितिनामधेयवान् । इयमेव
याज्ञिक्युपनिषत्खिलकाण्डरूपेति भाष्यकृता स्पष्टीकृतम् ।
१ ङ सनातना । २ ग. णीया व्याख्या ३ ख. च. झ. यद्व°। ४ ख. ग. च. °र्णकरूपं
ति° ५ ख. ॰गतैः स यो । ६ ख. ग. महान्प्राप्नु° । ७ ख. तत्पुत्र° । ८ च. ॰नां तु त° ।
८७
दः" or "शाखामेदः". Let's look at the letter: it has the loop of म: "शाखामे२दः".
Let's check line 10:
"तत्र प्रथमानुवाकस्याऽऽदौ काश्चिदृचो ब्रह्मतत्त्वं प्रतिपाद-"
"यन्ति ।"
Let's check line 16:
"यो महान्मेर्वादिरूस्ततोऽपि महत्तरः ।"
Wait, "महान्मेर्वादिरूस्ततोऽपि" or "महान्मेर्वादिरूपस्ततोऽपि" or "महान्मेर्वादिस्ततोऽपि"?
Look at line 16:
"यो महान्मेर्वादिस्ततोऽपि महत्तरः ।"
Wait, between दि and स्त, what is that?
"महान्मेर्वादिस्ततोऽपि" - wait, is there a letter between दि and स्त?
Look at दि: दि has a curve, then स्त. It is just "महान्मेर्वादिस्ततोऽपि"!
Let's check line 17:
"तथा च च्छन्दोगा आमनन्ति-- “ज्यायान्पृथिव्या ज्यायानन्तरि-"
"क्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः” इति ।"
Line 18-19:
"“स एवाधस्तात्स उपरिष्टात्स
;"
Wait, could it be part of note 4?
"४ ग. ॰र्वा । (स्थानगतं तादृक्) ;"
Wait, why is it on the next line aligned under "४ ग. ॰र्वा ।"?
Wait, it's directly below "१ ग. च."!
Wait! The first column has:
Line 1: "१ ग. च. वा गतमि॰ ।"
Line 2: "(स्थानगतं तादृ॑ ;"
Wait, why would it be under Note 1?
Wait! In the text:
L3: "त्पन्नं सत्संगतमपि भवति ।" (Note 1 is on सत्संगतमपि)
L4: "वा संगतमिति द्रष्टव्यम् ।"
Could Note 1 be: "१ ग. च. वा गतमि॰ । (स्थानगतं तादृक् ;" ?
Wait, what does "स्थानगतं तादृ..." mean?
"स्थानगतं तादृशं"?
Look at: "(स्थानगतं तादृ॑ ;"
Could it be: "(स्थानगतं तादृक् ;)"?
Let's look at the character:
(
स्थानगतं
तादृ
then a hook? It's तादृक् where क् has halanta, or तादृग्? It looks like तादृक् or तादृ’. It's तादृ॑ or
६९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १]
चतुर्थीमृचमाह—
यतः॑ प्रसू॒ता जग॑तः प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज भू॒म्याम् ।
यद्योष॑धीभिः पुरु॑षान्प॒शूꣳश्च॑ वि॒वेश॑ भू॒तानि॑ चराच॒राणि॑, इति ।
पूर्वमन्त्रे जगत्कारणमव्याकृतोपहितं यच्चैतन्यमुक्तं तस्यात्र जगदुपादानत्वं प्रपञ्च्यते ।
“आत्मन आकाशः संभूतः” इत्यारभ्य “अन्नात्पुरुषः” इत्यन्तेन ग्रन्थेन पूर्वमभिहिता
जगतः प्रसूती प्रसूतिः सृष्टिरुत्पत्तिर्यस्मादव्याकृतोपहिताच्चैतन्यात्प्रसूता प्रवृत्ता,
तच्चैतन्यं कारणभूतं तोयेन जलोपलक्षितेन भूतपञ्चकेन जीवान्मनुष्यावादीञ्जीवदेहा-
न्व्य॑चसर्ज भूम्यां जग॑त्यां विशेषेणोत्स(ष्टा)सृजत् । व्य॑ससर्जेति पाठेऽपि तथैव
व्याख्येयम् । तथा यच्चैतन्यरूपं मायाविशिष्टं कारणमोषधीभिर्व्रीहियवादिभिरुपल-
क्षितमन्नं भूत्वा मनुष्यान्पशूंश्च तदुपलक्षितस्थावरजङ्गमशरीराणि सर्वाण्यपि प्रविवेश
वृक्षादिषु स्थावरेषु वृष्टिजलरूपेण प्रवेशः । तेन चैतन्येन सर्वं जगत्कवलितमिति शेषः ।
पञ्चमीमृचमाह--
अतः॑ प॒रं नान्यदणी॑यसꣳ हि परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म् ।
यदेंकमव्य॒क्तमन॑न्तरूपं वि॒श्वं पुरा॒णं तम॑सः प॒रस्ता॑त्, इति ।
पूर्ववाक्योक्तेन जगत्कारणत्वाकारेणोपलक्षितं शुद्धं वस्त्वत्र निरूप्यते । यद्वस्तु
परादुत्कृष्टाद्धिरण्यगर्भादेरपि परमत्यन्तमुत्कृष्टम् । यच्च महत आकाशादेर्महान्तं
महत् । यदप्येकं सजातीयविजातीयस्वगतभेदरहितम् । अव्यक्तमिन्द्रियागम्यम् ।
अनन्तरूपं देशकालवस्तुपरिच्छेदशून्यम् । विश्वं जगदात्मकम् । पुराणमनादिसि-
द्धम् । तमसः परस्तादज्ञानात्पृथग्वर्तते । अतो वस्तुनोऽन्यद्वस्त्वणीयसमत्यन्तदु-
र्लक्ष्यं परमुत्कृष्टं नास्ति ।
विश्वविशेषणेन यत्सर्वजगदात्मकत्वमुक्तं तदेतत्षष्ठीसप्तमीभ्यामृग्भ्यां प्रपञ्चयति-
तदे॒वर्तं तदु॑ स॒त्यमा॑हुस्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् । इ॒ष्टापू॒र्तं
ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य नाभि॑ः ॥
तदे॒वाग्निस्तद्वा॒युस्तत्सूर्यस्तदु॑ च॒न्द्रमा॑ः ।
तदे॒व शु॒क्रम॒मृतं तद्ब्रह्म॒ तदा॑पः स प्र॒जाप॑तिः, इति ।
१ ख. ॰दुत्पादनत्वं च प्र॰ । ग. च. ॰दुत्पादनं च प्र॰ । — ग. ॰सूति । प्रसूतिः सूतिरु॑ ।
३ ख. ग. च. ॰न्यससर्ज । ४ च. झ. ॰गत्याम् । व्य॰ । ५ ख. ग. व्यवस॰ । ६ ख. ॰गत्यादि।
ग. ॰गत्यादिभि॑ि । ७ ख. ॰त्वात्कारणो॰ । ८ ग. च. झ. ॰यर॑ । ९ ग. ॰दरूपम् । १० ख. ॰मं
सर्वं ज॰ । ११ ख. यस्य सर्व॰ । १२ ग. च. ॰त्सर्वं ज॰ । १३ ख देव षष्ठी॑ । १४ ख. ॰भीभ्यां
प्र॰ । १५ ख. ॰द्वा॑स्त॰ ॰जा॰ ।
मनसा यथावस्तुचिन्तनमृतम् । वाचा तदुच्चारणं सत्यम् । एतदुभयमपि तद्देवा-
धिष्ठानरूपं ब्रह्मैव । कवीनां वेदशास्त्रपारं गतानां परममुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं
यद्ब्रह्म वेदरूपं वस्तु तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव । इष्टं दर्शपूर्णमासादि
श्रौतं कर्म । पूर्तं वापीकूपादि स्मार्तं कर्म । तदुभयमपि तदेव ब्रह्म । तथा बहुधा
जातं पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं
सर्वं जगद्भुवनस्य नाभिश्चक्रनाभिवत्सर्वस्य लोकस्याऽऽधारभूतः परमात्मा बिभर्ति ।
अत आधेयं सर्वमधिष्ठानस्वरूपमेव । अग्निर्वायुःसूर्यचन्द्रमसोऽपि तदेव । तथा शुक्लं
दीप्यमानं नक्षत्रादिकममृतं देवैः सेव्यं पीयूषमेतदुभयमपि तद्देवाधिष्ठानरूपमेव ।
यद्ब्रह्म हिरण्यगर्भरूपं तदपि तदधिष्ठानात्मकमेव । या आपो जलोपलक्षिता
६९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० १० अनु० १]
तथा च पूर्वग्रन्थकारैरुक्तम्—
“ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ।
तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ॥
ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ” ॥ इति ।
चकारादनुक्तसमुच्चयार्थो । तदेव सर्वश इत्यनेन स्पष्टी क्रियते । लवत्रुट्यादिकाः
सर्वे कालविशेषाः समुत्पन्ना इत्यर्थः ।
लवत्रुट्योः स्वरूपं पूर्वाचार्यैरुक्तम्—
“ नलिनीपत्रसंहत्यां सूक्ष्मसूच्याऽभिभेदने ।
दले दले तु यः कालः स कालो लववाचकः ॥
लवैस्त्रुटिः स्यात्रिंशद्भिः ” इति ।
अर्धमासाः शुक्लकृष्णपक्षरूपाः । मासाश्चैत्रवैशाखाद्याः । ऋतवो वसन्तग्री-
ष्माद्याः । ते सर्वेऽपि परमेश्वरादधिजज्ञिरे । तथा संवत्सरश्च प्रभवविभवादिरूपः
कल्पतां परमेश्वरादुत्पन्नः । अत एव स्वप्रयोजनसमर्थो भवति । कल्पन्तामिति बहुव-
चनपाठे सर्वेऽपि कालविशेषाः स्वस्वप्रयोजनसमर्था इति योज्यम् । स परमेश्वरः स्वनि-
र्मितेन कालविशेषेणोपहितः संस्तत्तत्कालोचित्येनाऽऽपः प्रदुघे । जलोपलक्षितां पृथिवीं
दुग्धवान् । प्राणिनामपेक्षितं भोग्यजातं पृथिव्यां संपादितवानित्यर्थः । तथैवान्तरिक्ष-
मेकं स्थानमथो अपि च सुवः स्वर्गोऽपरं स्थानमिमे उभे स्थाने प्रदुघे । तयोरपि
स्थानयोर्भोग्यवस्तूनि संपादितवानित्यर्थः ।
ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्या-
शङ्क्य तस्य परमात्मन ऊर्ध्वत्वाद्याकारविशेषाभावाद्रूपाद्यभावाच्चेति मन्त्रद्वयेन
दर्शयति—
नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥
न सं॒दृशे॑ तिष्ठति रू॒पम॑स्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म् ।
हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो य ए॑नं वि॒दुर॒मृता॑स्ते भ॑वन्ति, इति ।
कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदूर्ध्वाकारमुपरिस्थितशाँलावंशवत्तिर्यगा-
कारं वा गृहान्तर्वर्तिदेवदत्तवत्कचिन्मध्येऽवस्थितं वा न परिजग्रभत् । नैव परिगृ-
ह्णाति । ऊर्ध्वाद्याकाराणां तस्मिन्नभावात् । किंन्च तस्य परमात्मनः कश्चन कोऽपि
१ च. झ. ॰सूच्यभिभेदने २ ग. ॰ष्णरूपाः पक्षा. । मा० । ३ ग. ॰शालीँ ।’
पुरुषो नेशे नेष्टे मम ग्रहणसौकर्यार्थमीदृग्रूपो भवेति नियन्तुं न समर्थः । अत एव तस्य
परमात्मनो महद्यश इति नाम संपन्नम् । अत्यन्तस्वतन्त्रत्वेन तदीययशोऽभ्यधि-
कत्वात् । किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्टिविषये न
तिष्ठति । “अशब्दमस्पर्शमरूपम्” इत्यादिश्रुतेः । अतः कश्चन कुशलोऽपि पुमानत्यन्तप-
टुना चक्षुषैनं न पश्यति । कथं तर्हि गुरुशास्त्रोपदेशयुक्तो गृह्णातीति चेत् ।
उच्यते । हृदा हृदयपुण्डरीकमध्यवर्तिना मनीषाँ भौतिकवस्तुगोचराणि मैनांसीष्ट इति
मनीट् तथाविधेन मनसाऽन्तःकरणेनाभिक्लृप्तः सर्वतो निश्चितो भवति । योगयुक्तं हि
मनो लौकिकीर्मनोवृत्तीर्नियमयति । तेन चान्तर्मुखेनै(णे)काग्रेण मनसा परमात्माऽनु-
भवितुं शक्यते । “ दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ” इति श्रुतेः । ये
पुरुषा एनं परमात्मानमेकाग्रेण मनसा विदुः साक्षात्कुर्वन्ति, ते पुरुषा अमृता मरण-
रहिता भवन्ति । देहात्प्राणानामुत्क्रान्तिर्मरणं तच्च तत्त्वविदां नास्ति । “न तस्य प्राणा
उत्क्रामन्त्यत्रैव समवलीयन्ते” इति श्रुतेः ।
उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति—
अ॒द्भ्यः संभू॑तो हिर॑ण्यगर्भ इत्य॒ष्टौ, इति ।
“अद्भ्यः संभूतः पृथिव्यै रसाच्च” इत्ययमनुवाकश्चातुर्होत्रीयचयनमन्त्रप्रकरणे समा-
म्नातः । तस्यानुवाकस्य प्रदर्शनार्थमद्भ्यः संभूत इति प्रतीकमिदं पठितम् । तस्मि-
न्नुवाके “तमेवं विद्वानमृत इह भवति” इति परमात्मतत्त्वविदो मरणराहित्यमुक्तम् ।
हिरण्यगर्भः समवर्तताग्रे” इत्याद्या अष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके
समाम्नाताः । ता अपि वेदितव्यस्य परमात्मन उपलक्षकत्वेन हिरण्यगर्भाद्यभिधाना-
द्रोपयुक्ताः ।
यथा हिरण्यगर्भादयः परमात्मोपलक्षकास्तथा परमात्मना सृष्टं दिगादिकं जगद्धि-
मूर्तिश्च परमात्मानमुपलक्षयतीति मन्त्रद्वयेन दर्शयति—
ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानः स ज॑नि॒ष्यमा॑णः प्रत्यङ्मु॒खास्ति॑ष्ठति वि॒श्वतो॑मुखः ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्देव॒ एकः॑, इति ।
१ ख. च. झ. 'यस्य य' । २ ख. 'देशो गृ' । ३ ख. झ. 'ण लौकिक' । ४ ग.
। ५ ख. ॰किविषयान्निवृत्तं भवति । ६ झ. ॰वनीय' । ७ ग 'ठितत्वान्म' । ८ च.
त्या' । ९ ख घ झ. 'तायां चतु' । १० ग 'द्धिरण्यमूर्ति' ।
६९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १]
एष विद्वद्भिरनुभूयमानो देवः स्वप्रकाशः परमात्मा प्रदिशः प्रकृष्टाः प्राच्याद्या
दिश आग्नेय्याद्याँ विदिशश्च सर्वा अनुप्रविश्यावस्थितः । प्रवेशस्य श्रुत्यन्तरप्रसि-
द्ध्यर्थो हिशब्दः । तथा पूर्वो जातो हिरण्यगर्भस्वरूपत्वेनायमेव प्रथममुत्पन्नः । हिश-
ब्देन “हिरण्यगर्भः समवर्तत” इति मन्त्रप्रसिद्धिः सूच्यते। स उ स एव परमेश्वरो गर्भे
अन्तःब्रह्माण्डरूपस्य गर्भस्य मध्ये वर्तते । स एव विजायमानो देवातिर्यगादिरूपेणे-
दानीं जायते । इतः परमपि जनिष्यमाणः स एव । स च प्रत्यङ्, अन्नमयादिको-
शेभ्य आन्तरः । मुखा देहेन्द्रियाध्यक्षत्वेन मुख्यः । विश्वतः सर्वतो मुखानि रूपाद्यु-
पलब्धिद्वाराणि चक्षुरादीनि यस्यासौ विश्वतोमुखः । तादृशोऽयं जगदधिष्ठानत्वेन
तिष्ठति । स च ब्रह्माण्डरूपं देहं धृत्वा सर्वप्राणिदेहस्वरूपत्वात्तदीयैः सर्वैश्चक्षुरा-
दिभिर्युक्त इति विश्वतश्चक्षुरित्यादिपदैरभिधीयते । तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि
तत्र तत्र स्थितान्येवैतदीयानि भवन्ति । अतोऽस्य सर्वत्र चक्षुष्मत्त्वम् । एवं विश्वतो-
मुखत्वादिकमपि द्रष्टव्यम् स च परमेश्वरो बाहुभ्यां संनमति बाहुसदृशाभ्यां
धर्माधर्माभ्यां निमित्तकारणाभ्यां सर्वं जगद्वशी करोति । तथा पतत्रैः पतनशीलैः
पञ्चीकृतपञ्चमहाभूतैः संनमति सर्वं जगदुत्पादयति । एवमयं देवो द्यावापृथिव्या-
दिकं कृत्स्नं जगदुत्पाद्यैनेक एवावतिष्ठते ।
उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति—
वेन॒स्तत्पश्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् ।
यस्मि॑न्नि॒दꣳ सं च॒ वि चैक॒ꣳ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥
प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ।
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता संत्, इति ।
वेनो नाम गन्धर्वः सर्वप्राणिनां गुहासु बुद्धिषु निहितममृतं विनाशरहितं तद्वस्तु
स्वानुभवेन विद्वान्प्रवोचे नु शिष्येभ्यः प्रोवाच खलु । कीदृशो वेनः । यत्र यस्मि-
न्परमात्मवस्तुनि विश्वं सर्वं जगदेकनीडं भवत्येकत्वेन विश्वमवस्थितं सत्तादात्म्यं
प्राप्नोति तद्वस्तु गुरुशास्त्रप्रसादेन पश्यन्साक्षात्कुर्वन्विश्वा भुवनानि सर्वाणि लोका-
न्विद्वाँञ्जानन्वर्तते । आत्मसाक्षात्कारे हि सर्वं जगत्तदात्मकमित्यवगतिर्भवति ।
किंच तेन दृष्टे यस्मिन्वस्तुनि परमात्मनीदं जगत्सं च वि च समुत्पद्यते विलीनं च
१ झ ॰त्मा प्रकृ॰ । २ ख. ग. च, 'द्या आ' । ३ ख. ग. ॰द्याश्च वि॰। च. 'द्याश्च
दि॰ । ४ ख. ग 'दिशः सं । ५ ख. ॰हत्वात्सर्वप्र णिनां । ६ ग. ॰त्र चाक्षुष्यत्व॰ । ७ ग.
॰ष्टव्यमु॰ । ८ ग. 'नीडम् । ९ झ. चेत्येकꣳ । १० ग. विभुः । ११ ख. च. ॰नीळं भ॰ ।
१२ ख. ॰द्वान्विजान॰ । १३ ग. ॰गदेकात्म॰ । १४ च. झ. वेनेन । १५ झ. वि चेति सं॰।