तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 698, कुल 914 में से
संदर्भ में पढ़ेंमनसा यथावस्तुचिन्तनमृतम् । वाचा तदुच्चारणं सत्यम् । एतदुभयमपि तद्देवा-
धिष्ठानरूपं ब्रह्मैव । कवीनां वेदशास्त्रपारं गतानां परममुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं
यद्ब्रह्म वेदरूपं वस्तु तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव । इष्टं दर्शपूर्णमासादि
श्रौतं कर्म । पूर्तं वापीकूपादि स्मार्तं कर्म । तदुभयमपि तदेव ब्रह्म । तथा बहुधा
जातं पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं
सर्वं जगद्भुवनस्य नाभिश्चक्रनाभिवत्सर्वस्य लोकस्याऽऽधारभूतः परमात्मा बिभर्ति ।
अत आधेयं सर्वमधिष्ठानस्वरूपमेव । अग्निर्वायुःसूर्यचन्द्रमसोऽपि तदेव । तथा शुक्लं
दीप्यमानं नक्षत्रादिकममृतं देवैः सेव्यं पीयूषमेतदुभयमपि तद्देवाधिष्ठानरूपमेव ।
यद्ब्रह्म हिरण्यगर्भरूपं तदपि तदधिष्ठानात्मकमेव । या आपो जलोपलक्षिता