सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

६६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०८अनु०९
पु॒च्छं द्वावि॑ꣳशति॒रस॑न्ने॒वाष्टावि॑ꣳशति॒रस्त॒षोड॑श भी॒षाऽस्मा॑देक-
प॒ञ्चा॒शद्यतः॑ कु॒तश्चैका॑दश * ।
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः ॐ ।

  • इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमोऽध्यायः
    समाप्तः ॥ ८ ॥
    ब्रह्मविदामोति परमित्यादि य एवं वेदेत्यन्तेन ग्रन्थेन या प्रतिपादिता से-
    मितिशब्देन परामृश्यते । सा चोपनिषद्रहस्यविद्या । उपनिषण्णमस्यां परं श्रेय इ-
    त्युत्पत्तेः । तादृशी विद्याऽभिहितेति शेषः ॥
    इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमेश्र्व

*अथ तैत्तिरीयारण्यके नवमप्रपाठकस्याऽऽरम्भः ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ ।
सह नौ॑ववतु । स॒ह नौ॑ भुनक्तु । सह वी॒र्यं॑ कर-
वावहै । ते॒ज॒स्वि नाव॑धीतमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः शान्तिः॑ ।
भृगु॒र्वै वारु॑णिः । वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ।
द्वितीयानुवाके ब्रह्मविद्या निरूपिता । अथ तृतीयानुवाके तत्साधनानि निरू-
प्यन्ते । यद्यपि सांहित्युपनिषदि बहिरङ्गसाधनानि कर्माण्युपासनानि चाभिहितानि
तथाऽपि विचाररूपमन्तरङ्गसाधनं नोक्तमिति तदत्राभिधीयते । तस्मिन्नभिहिते तद-
ङ्गानि मननादीन्यप्यभिहितानि भविष्यन्ति । तत्राऽऽदौ विद्यास्तुत्यर्थमुपाख्यानमाह—
भृगुरित्यादिना । अस्ति कश्चिन्महर्षिर्भृगुर्नाम गोत्रप्रवर्तकः । वैशब्देन मन्त्रब्राह्मणगता
तत्प्रसिद्धिः स्मर्यते । “भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामि” इति “भृग्वङ्गि-
रसामादध्यात्” इति हि मन्त्रब्राह्मणे आम्नायते । स च भृगुर्वरुणस्य पुत्रः पितरं
वरुणं गुरुत्वेनोपसन्नवान् । गुरूपसत्तिश्च श्रुत्यन्तरेऽभिहिता—“तद्विज्ञानार्थं स
गुरुमेवाभिगच्छेत्” इति । अधीहीत्यादिगुरूपसत्तिमन्त्रः । हे भगवो भगवन्पूज्यस्वरूप
गुरो ब्रह्माधीहि अधिकं स्मर चित्तेन स्मृत्वोपदिशेत्यर्थः ।
ईदृशानामुपाख्यानानां विद्यास्तुत्यर्थत्वं तृतीयाध्यायस्य चतुर्थपादे+ चिन्तितम्—
“पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिः स्तुतेः ।
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ।
अत्र विद्यैकवाक्यत्वर्भावाद्विद्यास्तुतिर्भवेत् ॥
“अथै ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः” “जनको ह वैदेह आसांचक्रे” इत्या-

  • भाष्यकारमतेनायं नवमप्रपाठको नास्ति किं त्वष्टमस्यैवायं तृतीयोऽनुवाक इतीदमप्यूह्यं
    पूर्वपृष्ठोलिखितटिप्पणात् । +पारिप्लवार्था इति चेन्न विशेषितत्वात्—ब्र० सू०अ० ३ पा० ४अ० ४सू०
    २३ ।
    १ क. ख. ङ. °हित्यामुप° । २ क. ख. ङ. °न्यथो॑दामि° । ३ क. ख. ङ. भवन्ति

६६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
दिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्थं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं
सकुडुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यन्यानि पुण्यान्यध्वर्युणा वक्तव्यानि ।
तदिदं पारिप्लवाख्यं कर्म “ पारिप्लवमाचक्षीत ” इतिवाक्येन विहितम् । तदर्थत्वे सत्यौ-
पनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेस्तस्मात्पारिप्लवार्थमिति
प्राप्ते ब्रूमः—प्रथमेऽहनि मनुर्वैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो राजेत्येवमा-
द्याख्यानानां पारिप्लवार्थानां विशोषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न संभवति ।
संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लभ्यते । तस्माद्विद्यास्तावकमाख्यानम्” ।
ब्रह्मबोधद्वारोपदेशं दर्शयति—
तस्मा॑ एत॒त्प्रो॑वाच । अन्नं॑ प्रा॒णं
चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑, इति ।
तस्मै समन्त्रकमुपसन्नाय भृगव एतदन्नादिकं बोधद्वारमुक्तवान् । अन्नमयप्राणमयम-
नोमयानां कोशानामुपादानकारणान्यन्नप्राणमनांसि चक्षुःश्रोत्रवाचोऽपि मनोवद्द्वार-
भूताः । इतिशब्दोऽनुक्तानां त्वगादिज्ञानेन्द्रियाणां पाणिपादादिकर्मेन्द्रियाणां च प्रदर्श-
नार्थः । शाखाग्रे चन्द्र इत्यत्र यथा चन्द्रदर्शने समीपवर्तिनी वृक्षशाखा लक्षकत्वेन द्वारं
तथा गुहाहितब्रह्मदर्शने तदुपलक्षणान्यन्नप्राणादीनि द्वाराणि । तद्द्वारत्वं च बृहदार-
ण्यके विस्पष्टमाम्नातम्—“ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं
मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ” इति । प्राणादिकल्पना-
धिष्ठानतया प्राणादिरूपं ब्रह्म प्राणादिद्वारेण वेदितुं सुशकम् । अहंबुद्धिगम्येष्वन्नप्राणा-
दिषु मध्ये ब्रह्मान्वेष्णीयमित्यभिप्रायः ।
तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि
जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒-
भि॒संवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
अथ ब्रह्मलक्षणस्य तद्बोधहेतोर्विचारस्य चोपदेशं दर्शयति—तꣳ हेत्यादिना ।
द्वारं श्रुत्वाँ तदवबोधायात्यन्तमुत्सुकं तं भृगुमवेक्ष्याऽऽसत्त्वातिशयेन तदीयं४ प्रश्नं विना
स्वयमेव वरुणः पुनरप्युवाच । हशब्द औत्सुक्यप्रसिद्धिद्योतनार्थः । इमान्याकाशादीनि
पञ्च महाभूतानि भौतिकदेहोपेता हिरण्यगर्भादिस्तम्बान्ताः सर्वे प्राणिनश्च यतो वस्तुतो
१ ग. घ. ॰वानां २ ग. घ. ॰क्यैक° । ३ क. ख. छ. ॰र० । १७° । ४ क. ख. ग. छ.
॰दीयप्र० ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६३
जायन्ते । वैशब्दः “ स इमाँल्लोकानसृजत ” इत्यादिश्रुत्यन्तरप्रसिद्धद्योतनार्थः ।
उत्पन्नानि च भूतानि येन वस्तुना जीवन्ति स्थितिं लभन्ते । प्रयान्ति नाशं प्रतिपद्य-
मानानि भूतानि यद्वस्त्वभिसंविशन्ति साकल्येन प्रविशन्ति, यथा फेनतरङ्गबुद्बुदादी-
नामुत्पत्तिस्थितिलयाः समुद्रे भवन्ति तद्वत्, जगदुत्पत्तिस्थितिलयकारणं वस्तु विचारय,
तदेव वस्तु त्वया पृष्टं ब्रह्म । इतिशब्द उत्तरसमाप्त्यर्थः ।
विचारकर्तव्यता च प्रथमाध्यायस्य प्रथमपादे* चिन्तिता—
“ अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ।
असंदेहाफलत्वाभ्यां न विचारं तदर्हति ॥
असाध्योऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ।
संदेहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ” ॥ इति ।
“ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः ” [बृह० २ । ४ । ५] इत्यत्राऽऽत्मदर्शनं
फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि
तात्पर्यं निर्णतुमनुकूलो न्यायविचारः । तदेतद्विचाराविधायकं वाक्यं विषयः । न चायं
विषयः श्लोकेन संगृहीतः । संदेहसंग्रहेणैवार्थात्तत्संग्रहप्रतीतेः । ब्रह्मविचारात्मकन्या-
यनिर्णायकं शास्त्रमनारभ्यमारभ्यं वेति संदेहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहे
बीजमुन्नेयम् । तत्रानारम्भ्यमिति तावत्प्राप्तम् । विषयप्रयोजनयोरभावात् । संदिग्धं
हि विचारस्य विषयो भवति । ब्रह्म त्वसंदिग्धम् । तथा हि तत्किं ब्रह्माकारेण संदि-
ग्धं आत्माकारेण वा । नाऽऽद्यः । “ सत्यं ज्ञानमनन्तं ब्रह्म ” [तैत्ति० २ । १ । १ ]
त्यादिवाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः । अहंप्रत्ययेनाऽऽकारस्यापि
निश्चयात् । अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्यय इति चेन्न, अध्यासानिरूपणात् ।
तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्या-
ध्यासो न निरूपयितुं शक्यते । तस्माद्भ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदि-
ग्धत्वान्न विचारस्य विषयोऽस्ति । नापि प्रयोजनं पश्यामः । उक्तप्रकारेण ब्रह्मा-
त्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्माद्ब्रह्म न विचारमर्हतीति शास्त्रमनारम्भणीय-
मिति पूर्वपक्षः । अत्रोच्यते—शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् । श्रुत्यहंप्र-
त्ययोर्विप्रतिपत्त्या संदिग्धं ब्रह्मात्मवस्तु । “ अयमात्मा ब्रह्म ” [बृह० २ । ५ ।
१९ ] इति श्रुतिरस्सङ्गं ब्रह्माऽऽत्मत्वेनोपदिशति । अहं मनुष्य इत्याद्यहंबुद्धिर्देहा-
दितादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपत्वमलंकाराय ।

  • अथातो ब्रह्मजिज्ञासा—ब्र० सू० अ० १ पा० १ अ० १ सू० १ ।

६६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् [प्रपा०९अनु०१]
तस्मात्संदिग्धं वस्तु विषयः । तन्निश्चयेन च मुक्तिलक्षणं प्रयोजनं श्रुत्या विद्वदनुभवेन
च प्रसिद्धम् । तस्माद्वेदान्तवाक्यविचारमुखेन(ण) ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीय-
मिति सिद्धान्तः ।
विचारो हि लक्षणप्रमाणाभ्यां वस्तुतत्त्वनिर्णयावधिकः । लक्षणं च तत्रैव*
चिन्तितम्—
“लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति नहि विद्यते ।
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजंगवत् ।
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥
“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति” [ तैत्ति० ३ । १ । १ ] इति । “सत्यं ज्ञानम-
नन्तं ब्रह्म” [ तैत्ति० २ । १ । १ ] इति च वाक्यद्वयं विषयः । प्रयन्ति म्रियमा-
णानीत्यर्थः । अत्र श्रूयमाणं ब्रह्मलक्षणं घटते न घटते वेति संशये न घटते । तथा
हि किं जन्मादिकं ब्रह्मलक्षणमुत सत्यादिकम् । नाऽऽद्यः । तस्य जगन्निष्ठत्वेन ब्रह्म-
संबन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म-
न सिध्येत् । अप्रसिद्धार्थे तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात्तटस्थलक्षणं स्वरूपल-
क्षणं च न विद्यते । अत्रोच्यते—जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्प-
नया संबद्धं तटस्थलक्षणं भविष्यति । यो भुजंगः सा स्रगितिवत् । यज्जगत्का-
रणं तद्ब्रह्मेति कल्पितेनापि वस्तुना लक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुत-
भ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभि-
न्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिरित्युभयमुपपन्नम्”।
तल्लक्षणोपपादनाय वेदकर्तृत्वं तत्रैव+चिन्तितम्—
“न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ न कर्तृ तत् ।
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥
कर्तुर्निःश्वसिताद्युक्तैर्नित्यत्वं पूर्वसाम्यतः ।
सर्वावभासिवेदस्य कर्तृत्वात्सर्वविद्भवेत् ॥

  • जन्माद्यस्य यतः—ब्र० सू० अ० १ पा० १ अ० २ सू० २ । + शास्त्रयोनित्वात्—ब्र०
    सू० अ० १ पा० १ अ० ३ सू० ३ वर्णकम् १ ।
    १ क. ख. ड. स्सिद्धम् । २ घ. ङ. ति वा० । ३ ख ॰शयो न । ४ क. ग. घ. ड.
    ॰स्य तं ।

उपनिषद्वेद्यत्वं (upaniṣad-vedyatvaṁ) vs उपनिषदेकवेद्यत्वं vs उपनिषद्ध्येयत्वं:
Look at line 19: "तं त्वौपनिषदित्यादौ प्रोक्ता वेदैकमेयता ॥"
Line 21: "पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते" - wait, could the letters be:
उ - प - नि - ष - द्ध्ये - य - त्वं?
Wait, look at the letter:
It's द् (da) combined with ध (dha) = द्ध (ddha), with े (e) = द्धे, then य (ya), then त्वं (tvaṁ).
Wait, द्ध्येयत्वं? Yes, double d: d-dhye-ya-tvaṁ!
Wait, or is it:
द् (d) + घे (ghe)?
Wait, let's look at the letter again:
It has:
ष (ṣa)
then a consonant: it has a round top (द), a bottom loop with a horizontal bar... wait, that's 'द्ये' (dye)!
Wait, if it's 'द्ये' (dye), what is next?
Next is 'य' (ya) with an anusvara? No, next is 'त्वं'!
Wait! Is it "उपनिषद्द्येयत्वं" or "उपनिषद्ध्येयत्व

६६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ९ अनु०१
वेदस्य तु ब्रह्मप्रमाणत्वं तत्रैव* चिन्तितम्-
"वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ।
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥
भिन्नप्रकरणालिङ्गषट्काच्च ब्रह्मबोधकाः ।
सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥
स्पष्टौ विषयसंदेहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि ब्रह्मप्रकाशकवाक्यानि दे-
तापराणि सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगि
भविष्यति । ब्रह्मपरत्वे त्वनुष्ठानासंभवान्निष्प्रयोजनत्वं स्यात् । तस्माद्वेदान्ताः कर्तृदेव-
साधनप्रतिपादकाः । अत्रोच्यते—ब्रह्मपरा वेदान्ताः । कुतः । भिन्नप्रकरणपठितानां ते
कर्त्रादिप्रतिपादकतया कर्मशेषत्वासंभवात्तात्पर्यनिर्णयहेतुलिङ्गषट्केन ब्रह्मपरत्वसंभवाच्च
लिङ्गषट्कं च पूर्वाचार्यैर्निरूपितम्-
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये " ॥ इति ।
" सदेव सोम्येदमग्र आसीत् " इत्युपक्रमः । " ऐतदात्म्यमिदं सर्वं तत्सत्यं
आत्मा तत्त्वमसि " इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम् । असकृ-
त्त्वमसीत्युक्तिरभ्यासः । मानान्तरानवगम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्ववि-
फलम् । सृष्टिस्थितिमलयप्रवेशनियमनानि पञ्चार्थावादाः । मृदादिदृष्टान्ता उपपत्तय
एतैर्लिङ्गैर्ब्रह्मपरत्त्वं निश्चेयम् ३ । न चानुष्ठानमन्तरेण प्रयोजनाभावः । नायं सर्प इ-
दाविव बोधादनर्थनिवृत्तेः संभवात् ।
वेदान्तानां विधिपरत्वाभावस्तत्रैव + चिन्तितः-
"प्रतिपत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ।
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥
नाकर्तृ तन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ४ ।
मननाँदिः ५ पुरा बोधाद्ब्रह्मण्यवसितास्ततः ।
एकदेशी मन्यते—ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं

  • तत्तु समन्वयात्—ब्र० सू० अ० १ पा० १ अ० ४ सू० ४ प्रथमं वर्णकम् १ । + अ०
    पा० १ अ० ४ सू० ४ द्वितीयं वर्णकम् ।
    १ व. °र्येहे° । २ ग. घ. °राग° । ३ ख. निर्णयम् । ४ घ. शासनादपि । ५ ख. °नादिः !

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६७
पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा सति वेदान्तानां
शासनाच्छास्त्रत्वमुपपद्यते । किंच “श्रोतव्यः” इति श्रवणं शाब्दज्ञानात्मकं विधाय
“मन्तव्यो निदिध्यासितव्यः” इत्यनुभवात्मकं मननादिकं स्पष्टमेव विधीयते ।
तस्मात्प्रतिपत्तेर्विधातारो वेदान्ता इति प्राप्ते ब्रूमः—न प्रतिपत्तेर्विधिः संभवति । कर्तु-
मकर्तुमन्यथा कर्तुमशक्यत्वेनापुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव निय-
तम् । सिद्धवस्तुशंसनेनापि तदुपपत्तेः । न चै शाब्दज्ञाने जाते पश्चादनुभवात्मकं मन-
नादिकं विधीयत इति वक्तुं युक्तम् । दशमस्त्वमसीतिवच्छब्दस्यैवापरोक्षानुभवजनक-
त्वेन शाब्दबोधात्पुरैवासंभावनाविपरीतभावनानिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मन-
नादेर्विधानात् । तस्मात्तत्त्वमसीत्यादयो वेदान्ता ब्रह्मण्यवसिताः” इति ।
योऽयं वेदान्तमुखेन ब्रह्मतत्त्वनिर्णयफलको विचारः सोऽयं तद्विजिज्ञासस्वेत्यनेन
वाक्येन विहितः । शाखान्तरेऽप्ययं विधिः श्रूयते—“श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः” इति । तदर्थ एवं स्मर्यते—
“श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।
मत्वा च सततं ध्येय एते दर्शनहेतवः” ॥ इति ।
पुराणेऽपि पठ्यते—
“तत्र तावन्मुनिश्रेष्ठाः श्रवणं नाम केवलम् ।
उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः ॥
सर्ववेदान्तवाक्यानामाचार्यमुखतः प्रियात् ।
वाक्यानुग्राहकन्यायशीलनं मननं भवेत् ॥
निदिध्यासनमैकाग्र्यं श्रवणे मननेऽपि च ।
उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः ॥
तटस्थमन्यद्व्यावृत्त्या मननं चिन्तनं तथा ।
इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयस्तथा” ॥ इति ।
एतान्येव श्रवणमनननिदिध्यासनानि कहोलब्राह्मणे पाण्डित्यबाल्यमौनशब्दैर्व्यव-
हृत्य विहितानि—“ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं
च निर्विद्याथ मुनिर्मौनं च मौनं च निर्विद्याथ ब्राह्मणः” इति । निर्विद्य निःशेषेण
संपाद्यार्थं त्रितयानुष्ठानादूर्ध्वं ब्रह्मस्वरूपत्वाविर्भावान्मुख्यब्राह्मणो भवतीत्यर्थः । अत्र
मननोपयुक्तधीशुद्धिपरेण बाल्यशब्देन मननमुपलक्ष्यते ।
१ ग. 'णं शब्द्' । २ क. तु । ३ क. घ. ङ. शब्दज्ञाने । ४ ख. ॰थ तृतीया॰ ।

६६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
धीशुद्धिपरत्वं च तृतीयाध्यायस्य चतुर्थपादे* चिन्तितम्—
“बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ।
वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत् ॥
मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ।
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥
“ बाल्येन तिष्ठासेत् ” इत्यत्र बालस्य भावो बाल्यमिति प्रसिद्ध्या वयो भवेत् ।
अथ तस्य विध्यनर्हत्वम् । तर्हि बालस्य कर्मेति व्युत्पत्त्या कामचारवादादिकमस्तु ।
सर्वथाऽपि न धीशुद्धिर्बाल्यमिति प्राप्ते ब्रूमः—पाण्डित्यमौनाख्ययोः श्रवणनिदिध्या-
सनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता । रागद्वे-
षमानावमानादिदोषग्रस्तत्वेन बहिष्प्रवृत्ति मपरित्यज्य मन्तुमशक्यत्वात् । बालस्य कर्मेति
व्युत्पत्तिस्तु बालेच्छाचारे भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तम-
नुपयुक्तौ प्रत्युत विरोधिनौ मूढस्य बहिष्प्रवृत्तस्य वा मनसो मननविनाशकत्वात् ।
तस्माद्भावशुद्धिरेव बाल्यं नेतरदुभयम् ” ।
मुनित्वस्य विधिकल्पनं तत्रैव+ चिन्तितम्—
“अविधेयं विधेयं वा मौनं किं न विधीयते ।
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ।
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥
कहोलब्राह्मणे श्रूयते—“तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ” इति । अस्यायमर्थः । यस्माद्ब्रह्मभावः परमः
पुरुषार्थस्तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण संपाद्य बालव-
त्त्रीरागद्वेषत्वेन युक्तोऽसंभावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् । ततः
पाण्डित्यबाल्ये निःशेषेण संपाद्याथ मुनिरिति । तत्र भवेदिति विध्यश्रवणान्मुनित्वं न
विधेयम् । न च विधिः कल्पयितुं शक्यः । पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थ-
त्वाभात् । पण्डितस्य विदुषो भावः । पाण्डित्यमिति ज्ञानवाचकोऽयं शब्दः । तथा
मुनिशब्दोऽपि मन ज्ञान इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात्प्राप्तस्य मौनस्य न विधि-

  • अनाविष्कुर्वन्नन्वयात्—ब्र०सू० अ० ३ पा० ४ अ० १५ सू० ५० । + सहकार्यन्तरविधिः
    पक्षेण तृतीयं तद्वतो विद्यादिवत्—ब्र० सू० अ० ३ पा० ४ अ० १४ सू० ४७ ।
    १ ग. ˚त्त्वं तृ॑ । २ ग. ˚ध्याये च॑ । ३ ख. ˚था न॑ । ४ ख. ˚योर्मन॑ । ५ ग. घ.
    ˚वृत्तिं प॑ । ६ ग. घ ˚स्तु भा॑ । ७ ख तन्न । ८ ग. घ. बःह्येष्वं ।

[प्रपा० ९ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६९

ल्पनमिति प्राप्ते ब्रूमः-पूर्वोक्तस्य पाण्डित्यस्य पुनर्मु्निशब्देनाभिधाने प्रयोजनाभा-
वन्निरन्तरज्ञानानिष्ठापूर्वीर्थो मुनिशब्देन विवक्षितः । ततस्तिष्ठासेदितिपदानुवृत्त्या विधि-
र्गम्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् । प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थ-
वात् । तस्मान्निदिध्यासनात्मकं मौनं विधेयम् ”।
यथोक्तश्रवणाद्यावृत्तिश्चतुर्थाध्यायस्य प्रथमपादे* चिन्तिता-
“श्रवणाद्याः सकृत्कार्या आवृत्त्या वा सकृद्यतः ।
शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृते ॥
आवृत्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत् ।
दृष्टेऽत्र संभवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥
“सकृत्कृते कृतः शास्त्रार्थः” इतिन्यायेन श्रवणादीनां प्रयाजादिवत्सकृदेवा-
नुष्ठानमिति प्राप्ते ब्रूमः-उक्तन्यायस्यादृष्टफलविषयत्वादत्र ब्रह्मसाक्षात्कारलक्षणस्य
दृष्टफलस्य संभवात् । “दृष्टे संभवत्यदृष्टं न कल्पनीयम्” इतिन्यायेनावघातवत्फल-
सिद्धिपर्यन्तं श्रवणाद्या आवर्तनीयाः” ।
आवृत्तेन विचारादिना यतो वा इत्यादि लक्षणलक्षितं ब्रह्म साक्षात्क्रियते । तस्मिंश्च
लक्षणवाक्ये यत इत्येतस्मिन्पदे यदिध्येततत्प्रातिपदिकं सर्वनामत्वेऽपि जन्मादिसंनिधि-
बलात्तदपेक्षितं कारणत्वं ब्रूते । तत्र पञ्चम्यौ उपादानार्थत्वे निमित्तं ब्रह्मव्यतिरिक्तम-
पेक्षेत । तन्निमित्तार्थत्वे चोपादानापेक्षेति चेन्न । उपादानार्थत्वात् “जनिकर्तुः प्रकृतिः”
“x हेतौ च” इति सूत्रद्वयेनोभयत्र पञ्चमीविधानात् । ननु यतो जायन्ते तद्ब्रह्मेत्येतावत्तैव
लक्षणसिद्धौ स्थितिप्रलयश्रवणं व्यर्थमिति चेन्मैवम् । =कुविन्दवत्केवलं निमित्तत्वं
व्युदासितुं स्थितिहेतुत्वम् । तन्तुसंयोगवत्केवलमसमवायित्वं व्युदासितुं लयहेतुत्वम् ।
ततो जन्मस्थितिलयैर्निमित्तासमवाय्युपादानत्वानि सिध्यन्ति । ननु भूतानामुत्पत्त्यदर्श-
नाद्भौतिकानां भूतकार्यत्वान्न ब्रह्मोपादानमिति चेन्न । भूतोत्पत्तेरागमसिद्धत्वात् ।
अस्ति पृथिवी सन्त्याप इत्येवं भूतानां सदनुरक्तत्वेन प्रतिभासात्सद्वस्तु भूतोपादानम् ।
तच्च वस्तु ब्रह्म । भौतिकोत्पत्तौ भूतानि मृदः पिण्ड इव सतोऽवान्तरावस्थारूपाणि ।
उपादानं तु मृदिव सद्वस्त्वेव । सन्घटः सच्छरीरमित्येवं सदनुरक्तत्वेनैव भौतिकानां
प्रतिभासात् । यथा प्राकृतानां पामराणां दग्भतन्तवनुरक्तस्य पटस्य तन्तव उपादानं
तद्वत् । आकाशाकालादय उत्पद्यन्ते विभक्तत्वादघटशरावादिवत् । इत्येवं तन्नित्यत्व-

  • आवृत्तिरसकृदुपदेशात्- ब्र० सू० अ० ४ पा० १ अ० १ सू० १ । × इदं चिन्त्यम् ।
    ष्टाध्याय्यां हेतौ चेतिसूत्राद्यनुपलब्धेः । अथवा हेतौ चेतिशब्देन हेतावितिसप्तम्यन्तपदानुवृत्तिमुक्तं
    विभाषा गुणेऽस्त्रियामितिसूत्रमुपलक्षणीयम् । = पटकारवत् ।
    १ ख. ॰नं दबलम् । भे॰ । २ ग. घ. ॰म्यौ अयो । ३ ग. घ. ॰पेक्षेते ।

६७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
वादिनं प्रति प्रयोक्तव्यम् । सृज्यस्य सर्वजगतो विचित्रत्वात् । तदन्यथानुपपत्त्या
स्रष्टुर्ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च सिध्यति । न हि विचित्रप्रासादादिविषयज्ञानश-
क्तिभ्यां विना तन्निर्मातृत्वं कस्यचिदृष्टम् । यद्यपि निरिन्द्रियब्रह्मणः सर्ववस्तुज्ञानका-
रणानि प्रत्यक्षप्रमाणानि न सन्ति तथाऽपि श्रुतियुक्तिभ्यां सर्वज्ञत्वमभ्युपेयम् । “ यः
सर्वज्ञः सर्ववित् ” इति श्रुतिः । युक्तिश्चैवं द्रष्टव्या- सर्वविषयाकारधारिषु मायाप-
रिणामेषु प्रतिबिम्बितं चैतन्यं सर्वानुभव इत्युच्यते । तस्य च विषयैरध्यासिकसंबन्धा-
द्वर्तमानसर्वज्ञानं तावत्सिद्धम् । अतीताविषयाणां तदवच्छिन्नमायावृत्तीनां च निवृत्तौ
तत्संस्कारा अस्मदादिवदतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति । तत्प्र-
तिबिम्बितानुभवेनातीतसर्वज्ञानमपि सिध्यति । तथा सृष्टेः प्रागपि स्रक्ष्यमाणपदार्थविष-
रगस्य कुलालादिषु दृष्टत्वादागामि सर्वज्ञानमपि स्वमायापरिणामवशात्सिध्यति । तस्मा-
युक्तं सर्वज्ञत्वम् । सर्वशक्तयश्च श्रुतिस्मृतिप्रसिद्धाः । “ पराऽस्य शक्तिर्विविधा ”
इति श्रुतिः ।
“शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतो हि ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ” ॥ इति स्मृतिः।
ईदृशस्य सर्वशक्तेर्ब्रह्मणे जगज्जन्मादिकारणत्वं लक्षणम् । जन्मादेर्जगन्निष्ठत्वेऽपि
तत्प्रतियोगिकस्य कारणत्वस्य ब्रह्मणि वर्तमानतया लक्षणत्वं संभवति । न च
क्रियावेशात्मकत्वरूपस्य कारणतया लक्षणतया प्रकृष्टप्रकाशश्चन्द्र इत्यादाविव लक्ष्य-
स्वरूपान्तर्भावे ब्रह्मणः कूटस्थत्वस्य हीयेतेति वाच्यम् । काकाश्रयत्ववदौपाधिकत्वेन तट-
स्थत्वात् । काकवन्तो देवदत्तस्य गृहा इत्यत्र काकाधिकरणत्वं न गृहेऽन्तर्भवति ।
काकाविगमेऽपि गृहैकदेशभङ्गबुद्ध्यभावात् । अतो गृहस्य काकावस्थानौपाधिकधर्मत्वा-
त्काकाधिकरणत्वं यथा तटस्थलक्षणं तथा जन्माद्युपाधिकधर्मकारणत्वं तटस्थलक्ष-
णम् । तस्य च लक्षणस्य मिथ्यात्वान्नाद्वैतहानिः । यः सर्पः स रज्जुर्र्दददं रजतं सा
शुक्तिरित्यत्र मिथ्याभूतोऽपि सर्पो रजतं चाऽऽध्यासिकसंबन्धवशाद्यथा रज्जोलर्क्षणं तथा
कारणत्वमपि लक्षणं भविष्यति । कारणत्वेऽपि ब्रह्मणोऽधिष्ठानमात्रत्वाद्विकारांशे मायाया
एव प्रयोजकत्वान्नासङ्गत्वहानिः । सर्वस्मिञ्जगति सत्तास्फूर्त्याकारे ब्रह्मणोऽनुगत-
त्वाद्विक्रियमाणत्वाकारेण मायाया अप्यनुगतत्वादुभयं मिलित्वोपादानम् । तत्र
गुणप्राधान्यविवेके विवक्षानुसारण द्विसूत्रन्यायो वा शक्तिशक्तिमन्न्यायो वाऽधिष्ठा-
नारोप्यन्यायो वा योजनीयः । यथा सूत्रद्वयनिर्मितरज्जुवा संयुक्तं सूत्रद्वयं समप्रधा-
नभावेनोपादानं तथा जगतो ब्रह्म माया चेत्युभयप्राधान्यं केचिदाहुः । अन्ये त्वेवं
मन्यन्ते--यथा शक्तिमानग्निर्दहतीत्यत्र शक्तेर्दाहनिर्वाहकत्वेऽपि शक्तिमत्पारतन्त्र्या-
१ ख. श्रुतेः । २ ख. ॰धारिषु । ३ ग ॰क्तिम' । ४ ख. 'मत. स्वातं' ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७१
द्वयोः प्राधान्यं तथा मायायाः शक्तित्वेनोपसर्जनत्वाच्छक्तिमतो ब्रह्मण एव प्राधान्य-
मिति । अपरे त्वेवमाहुः—यथा रज्जुव्यतिरेकेण सर्पस्य शरीराभावेऽपि भ्रान्तिकाल
रज्जुतिरस्कारेण व्यवह्रियमाणतया सर्पप्राधान्यं तथा मायायाः प्राधान्यमिति ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
अथ द्वितीयोऽनुवाकः ।
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अन्ना॒द्ध्ये॑व खल्वि॒-
मानि॑ भू॒तानि॒ जाय॑न्ते । अन्ने॑न जा॒तानि॑
जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भिसंवि॑शन्तीति॑ ।
सर्वथाऽपि श्रूयमाणं जगत्कारणत्वं मायाविशिष्टस्य ब्रह्मण उपपन्नम् । जगत्का-
रणत्वरूपेण तटस्थलक्षणेनोपलक्षितस्य ब्रह्मणो विज्ञाने विचारः साधनमित्येवं श्रुतवतो
भृगोः प्रथमपर्याये संपन्नं निश्चयं दर्शयति—स तप इत्यादिना । तपःशब्देनाऽऽ-
श्रमचतुष्टयधर्मो विवक्षितः । तस्य ब्रह्मज्ञानहेतुत्वात् । अनाश्रमिधर्मस्य जपादेरपि
तद्धेतुत्वं यद्यपि निर्णीतं तथाऽप्याश्रमिणां धर्मोऽतिप्रशस्तः । तथा च बादरायणेन
सूत्रितम्--“ अतस्त्वितरज्ज्यायो लिङ्गाच्च ” ( ब्र० सू० अ० ३ पा० ४ सू० ३९)
इति । आश्रमधर्मेऽपि तपःशब्दः श्रुतिस्मृत्योः प्रयुज्यते । “ तपो हि स्वाध्यायः ”
इति ब्रह्मचारिधर्मः । “ एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति ” इति गृहस्थधर्मः ।
“ तपो नानशनात्परम् ” इति वानस्थधर्मः ।
“मनसश्चेन्द्रियाणां च ह्येकाग्र्यं परमं तपः ।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते” ॥ इति यतिधर्मः ।
तत्र स्वाध्यायेन ब्रह्मावबोधे प्रमाणं संपादितं भवति । दानेन विविदिषोत्पद्यते ।
“विविदिषन्ति यज्ञेन दानेन ” इति श्रुतेः । अनशनस्येन्द्रियदर्पनिवारकत्वं प्रसि-
द्धम् । एकाग्र्यस्य साक्षादेव ज्ञानहेतुत्वं “ दृश्यते त्वग्र्यया बुद्ध्या ” इत्याम्नातम् ।
अतः स भृगुः स्वाध्यायपूर्वकमेकाग्र्यरूपं तपः कृतवान् । तेनैकाग्र्येण युक्तो विचार्य
जगज्जन्मस्थितिलयहेतुत्वलक्षणयोजनेनान्नस्य ब्रह्मत्वं निश्चितवान् । भूतशब्देन स्थूल-
देहा विवक्षिताः । तेषामन्नादुत्पत्तौ लोकप्रसिद्ध्योतनाय हिशब्दः । गर्भाशयस्थिता-
न्नरसात्मकत्वेन शुक्रशोणितव्यतिरिक्तं कारणं व्यावर्तयितुमेवकारः । “ अन्नात्पुरुषः ”
इत्यादिश्रौतप्रसिद्धयर्थः खलुशब्दः । यद्यप्याकाशादिभूतानि स्वरूपेणान्नान्नोत्पद्यन्ते
१

तथाऽपि देहाकारपरिणतानां तेषां जन्मान्नाधीनामित्यन्नस्य जगद्धेतुत्वमभिप्रेतम् । अत्र
तपःशब्देनोर्ध्वरेतसामाश्रमाणां धर्मो विवक्षितः ।
तेषां सद्भावस्तृतीयाध्यायस्य चतुर्थपादे*चिन्तितः—
“नास्त्यूर्ध्वरेताः किंवाऽस्ति नास्त्यसावविधानतः ।
वीरघातो विधेः कॢप्तावन्धपङ्ग्वादिगा स्मृतिः ॥
अस्त्यपूर्वेविधेः कॢप्तेर्वीरहाऽनाग्निको गृही ।
अन्धादेः पृथगुक्तत्वात्संस्थानां श्रूयते विधिः ॥
पूर्वाधिकरणे स्वतन्त्रमात्मविज्ञानमित्युक्तम् । तस्य चाऽऽत्मज्ञानस्योर्ध्वरेतः-
स्वाश्रमेषु सुलभत्वादाश्रमसद्भावश्चिन्त्यते । तत्र नास्त्यूर्ध्वरेता इति प्राप्तम् । कुतः ।
विध्यभावात् । छान्दोग्ये—“ त्रयो धर्मस्कन्धाः । यज्ञोऽध्ययनं दानमिति प्रथमः ।
तप एव द्वितीयः । ब्रह्मचार्याचार्यकुलवासी तृतीयः ” इत्यत्र यज्ञाद्युपलक्षितगार्ह-
स्थ्यस्य तपःशब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकब्रह्मचर्यस्य च परामर्शमात्रं गम्यते ।
न तु विधिरुपलभ्यते । न चापूर्वार्थत्वेन विधिः कल्पयितुं शक्यः । “ वीरहा वा एष
देवानां योऽग्निमुद्वासयते ” इत्यग्न्युद्वासनलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात् ।
“ चत्वार आश्रमाः ” इति स्मृतिस्तु गार्हस्थ्यधर्मानधिकृतानन्धपङ्ग्वादिविषया भवि-
ष्यति । न ह्यन्धस्याऽऽज्यावेक्षणाद्युपेते कर्मण्यधिकारोऽस्ति । नापि पङ्गोर्विष्णुकमणा-
द्युपेते कर्मण्यधिकारः । तस्माच्चक्षुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त ऊर्ध्वरेता
आश्रमो नास्तीति प्राप्ते ब्रूमः—अस्त्यूर्ध्वरेता आश्रमः । विध्यश्रवणेऽप्यपूर्वार्थत्वेन
कल्पयितुं शक्यत्वात् । न च वीरघातदोषः । उत्सन्नाग्निकगृहिविषयत्वाद्धीरहत्यायाः ।
यत्त्वन्धादिविषयत्वं स्मृतेरुक्तम् । तदसत् । “ अथ पुनरव्रती वा व्रती वा स्नातको
वाऽस्नातको वोत्सन्ना×ग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ” इति विर-
क्तानां गार्हस्थ्यनधिकृतानां पृथक्संन्यासविधानात् । न च चक्षुरादिपाटववतामाश्र-
मान्तरविधिः कल्पनीयः । जाबालश्रुतौ प्रत्यक्षविध्युपलम्भात्—“ ब्रह्मचर्यं समाप्य
गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ” इति । तस्मादस्त्याश्रमन्तरम् ” ।
आश्रमानामवरोहाभावस्तत्रैव= चिन्तितः—
“ अवरोहोऽस्त्याश्रमाणां न वा रागात्स विद्यते ।
पूर्वधर्मश्रद्धया वा यथाऽऽरोहस्तथैच्छिकः ॥

  • परामर्शं जैमिनिरचोदनां चापवदति हि—ब्र० सू० अ० ३ पा० ४ अ० २ सू० १८ वर्ण-
    कम् १। x जायामरणेन नष्टाग्निरुत्सन्नाग्निः । पूर्वमेवाऽपरिग्रहरहितोऽनग्निः । = तद्भूतस्य तु नात-
    द्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः—ब्र० सू० अ० ३ पा० ४ अ० १० सू० ४० ।
    १ व. इति ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७३
रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मता ।
आरोहनियमोक्त्यादेर्नावरोहोऽस्ति शास्त्रतः ॥
“ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ” इत्याश्रमाणामारोह इच्छा-
धीनो यथा भवति तथा पारिव्राज्याद्वानप्रस्थ इत्याद्यवरोहोऽपि कचिद्रागवशात्क्वचित्पूर्वा-
श्रमश्रद्धावशाच्च युक्त इति प्राप्ते ब्रूमः—रागस्तावन्मिथ्याज्ञानमूलत्वान्निषिद्धः । न च
पूर्वाश्रमधर्मश्रद्धा युज्यते । उत्तराश्रमं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि यो
येनानुष्ठातुं शक्यते श्रद्धीयते च स तस्य धर्मो भवति । किं तर्हि यो यं प्रति विहितः
स तस्य धर्मः । किंच “ ततो न पुनरेयात् ” इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न
चाऽऽरोहवदवरोहे शिष्टाचारो दृश्यते । तस्मान्नास्त्यवरोहः ” ।
आश्रमभ्रंशे प्रायश्चित्तं तत्रैव*चिन्तितम्—
“भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ।
अदर्शनोक्तेर्नास्त्येतद्व्रतिनो गर्दभः पशुः ॥
उपपातकमेवैतद्व्रतिनो मधुमांसवत् ।
प्रायश्चित्ताच्च संस्काराच्छुद्धियत्नपरं वचः ।
नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्य पुनः स्त्रीप्रसङ्गेन भ्रष्टस्य प्रायश्चित्तं नास्ति ।
“आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा” ॥
इति प्रायश्चित्तादर्शनवचनात् । “अथ यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमाल-
भेत” इत्यस्ति प्रायश्चित्तमित्युच्येत । तन्न । तस्य व्रतिविषयत्वात् । उपकुर्वाणाख्यो
यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मादूर्ध्व-
रेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चित्तमिति प्राप्ते ब्रूमः—यथोपकुर्वाणस्य मधुमांसभक्षणमुप-
पातकमिति प्रायश्चित्तपुनःसंस्कारौ विद्येते तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्ति-
रूपपातकमेवै तत् । न तु महापातकम् । ततः प्रायश्चित्तात्पुनःसंस्काराच्च शुद्धिर्भवति ।
यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत तर्ह्यदर्शनवचनस्य
का गतिरिति चेद्यत्नपरं तद्वाक्यामिति ब्रूमः । अत एव प्रायश्चित्तं न पश्यामीत्याह ।
न तु नास्तीति । प्रायश्चित्तं तु गर्दभपशुरेव ब्रह्मचारित्वस्य संमत्वात् । तथा वनस्थप-
रिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते—“वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा

  • न चाऽऽधिकारिकमपि पतनानुमात्तदयोगात्—ब्र० सू० अ० ३ पा० ४ अ० ११ सू० ४१ ।
    १ क. ख. ग. ङ. °त्तमाश्र° । २ क. ख. ङ. येन स्वगु° । ३ घ. °स्त्येव व्रति°। ४ क.
    ख. ग ड. °व- । न । ५ क. ग. ङ. °द्धिरिति । ६ घ. त्वेन तदुप° । ७ घ. समानत्वा° ।
    ८५

An exact line-by-line transcription in Unicode Devanagari:

६७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]
महाकक्षं वर्धयेत् । भिक्षुर्वानप्रस्थवत्सोमवृद्धिवर्जम्” इति । कक्षवृद्धिवर्नावापः सोमवृद्धि-
रपि स एव” ।
प्रायश्चित्तेनाऽऽमुष्मिकमात्रशुद्धिस्तत्रैव* दर्शिता—
“शुद्धः शिष्टैरुपादेयस्त्याज्यो वा दोषहानितः ।
उपादेयोऽन्यथा शुद्धिः प्रायश्चित्तकृता वृथा ॥
आमुष्मिक्येव शुद्धिः स्यात्ततः शिष्टास्त्यजन्त्यमुम् ।
प्रायश्चित्तादृष्टिवाक्यादशुद्धिस्त्वैहिकीष्यते ॥
पूर्वोक्तप्रायश्चित्तापपादितशुद्ध्यन्यथानुपपत्त्या कृतप्रायश्चित्तस्य शिष्टैः सह व्यवहारोऽ-
स्तीति प्राप्ते ब्रूमः—आमुष्मिकशुद्धिसद्भावेऽपि प्रायश्चित्तादर्शनवचनादैहिकशुद्ध्यभावा-
च्छिष्टैरेष न व्यवहार्यः” ।
एतेष्वाश्रमेषु लोकविशेषप्राप्तिहेतोः प्रवृत्तिलक्षणस्य तपसो ज्ञानसाधनत्वाभावान्नि-
वृत्तिलक्षणस्यैकाग्र्यादिरूपस्य तपसो ज्ञानहेतुत्वं तत्रैव+ चिन्तितम्--
“लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा न वा ।
यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥
अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मठे कथम् ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः ॥
“त्रयो धर्मस्कन्धाः” इत्याश्रमानधिकृत्य “सर्व एते पुण्यलोका भवन्ति” इत्याश्र-
मानुष्ठायिनां पुण्यलोकफलमभिधाय “ ब्रह्मसंस्थोऽमृतत्वमेति ” इति मोक्षसाधनत्वेन
ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्र-
मकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं सुशक्यत्वात् । न हि लोककामी ब्रह्म न
जानीयादिति निषेधोऽस्ति । तस्मात्सर्वस्याऽऽश्रमिणोऽस्ति ब्रह्मनिष्ठेति प्राप्ते ब्रूमः--
ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाधिः । न चासौ कर्म-
शूरे संभवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यागिन एव ब्रह्म-
निष्ठा ” ।
तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि
भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व ।
तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके द्वितीयोग्नुवाकः ॥ २ ॥

  • बहिश्चोभयथाऽपि स्मृतेराचाराच्च—ब्र० सू० अ० ३ पा० ४ अ० १२ सू० ४३ । + अ०
    ३ पा० ४ द्वितीयाधिकरणस्य द्वितीयं वर्णकम् ।
    १ ख. ॰सारं त्रि° ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७५
अथ तृतीयोऽनुवाकः ।
प्राणो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व ख॒ल्वि-
मा॑नि भू॒तानि॒ जाय॑न्ते । प्रा॒णेन॑ जा॒तानि॑
जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भिसंवि॑शन्तीति॑ ।
अथ भृगोर्द्वितीयपर्याये संपन्नं निश्चयं दर्शयति-तद्विज्ञायेत्यादिना । तत्पूर्वोक्तमन्त्रस्य
ब्रह्मत्वं विज्ञाय लक्षणसद्भावाद्विशेषेण निश्चित्य तस्मिन्नपरितुष्टो बुभुत्सति संशयवशात्।
पुनरपि मन्त्रपुरःसरं गुरुमुपससारैव न त्वालस्यं कृतवान् । अपरितुष्टस्य भृगोरयमा-
शयः । वाजसनेयिनस्तावदेवमामनन्ति-- “ अन्नं ब्रह्मेत्येवमाहुः । तन्न तथा पूयति
वा अन्नमृते प्राणात् ” इति । अन्नस्य पूतिगन्धस्तत्कार्ये देहे स्पष्टमुपलभ्यते ।
विष्णुपुराणेऽप्यसौ दर्शितः--
“ स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
विरागकारणं तस्य किमन्यदुपदिश्यते” ।। इति ।
तस्माद्देहोत्पत्तिस्थितिलयकारणस्याप्यन्नस्य ब्रह्मत्वमयुक्तमिति । तस्योपसन्नस्य भृगो-
र्वरुणः पूर्वोक्तमैकाग्र्यरूपं तप एव साधनत्वेनोपदिदेश । तस्य च तपसो ब्रह्मसाक्षात्कारं
प्रत्यन्तरङ्गत्वविवक्षया तपो ब्रह्मेत्यभेद उपचारितः । सत्यज्ञानादिस्वरूपलक्षणवाक्येन
ब्रह्मण्युपदिष्टे सत्यागमप्रमेयत्वेन धर्माधर्मवत्परोक्षमेव ब्रह्मावगम्येत । एकाग्र्यबुद्ध्या
द्रष्टुं शक्यमित्यभिप्रेत्य ब्रह्मस्वरूपमनुक्त्वा वरुणस्तप एवोक्तवान् । भृगुश्चैकाग्र्यचित्तेन
पूर्वोक्तं जगत्कारणत्वलक्षणं योजयित्वा प्राणस्य ब्रह्मत्वं निश्चितवान् । ऐतरेयिणः
प्राणस्य देहोत्पत्तिनिमित्तत्वं व्यतिरेकमुखेनाऽऽमनन्ति-- “ न ह वा ऋते प्राणाद्रेतः
सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत् ” इति । कश्चिज्जीवो लिङ्गदे-
हयुक्तः स्वर्गान्निरकाङ्क्षो वृष्टिद्वारेणाऽऽगत्यान्नेन सह पुरुषं प्रविश्य रेतसा सह योषि-
द्गर्भे यदा प्रविशति तदा तद्रेतस्त्वन्तःप्रविष्टेन प्राणवायुना शोषं प्राप्य पिण्डादिक्रमेण
देहमुत्पादयति । प्राणाभावे तु देहं नोत्पादयतीत्यर्थः । यथोत्पत्तिहेतुत्वं तथा जीवन-
हेतुत्वमपि कौषीतकिभिराम्नायते--“ यावदस्मिञ्शरीरे प्राणो वसति तावदायुः ”
इति । प्राणोत्क्रान्तौ देहस्य मरणं प्रसिद्धम् । तस्मादुपादानत्वाभावेऽपि जन्मादित्रित-
यनिमित्तत्वात्प्राणो ब्रह्मेति भृगोर्निश्चयः ।
तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो
ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒
१ क. ख. ङ. ॰पपन्न॰ ।

६७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०३]
ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
अथ चतुर्थोऽनुवाकः ।
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो ह्येव खल्वि॒-
मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा जा॒तानि॒
जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसंवि॑शन्तीति॑ ॥
अथ तृतीयपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना । प्राणस्य जड-
त्वाद्व्रह्मत्वमयुक्तम् । “प्रज्ञानं ब्रह्म विज्ञानमानन्दं ब्रह्म” इत्यादौ ब्रह्मणश्चेतनत्वं
प्रतीयते । मनश्च ज्ञानशक्तित्वाच्चेतनम् । जन्मादिकारणत्वं लक्षणं च मनसि विद्यते ।
यथा पूर्वत्र गर्भे प्राणप्रवेशस्य देहोत्पत्तिनिमित्तत्वमुक्तम्, तथा प्राणप्रवेशोऽपि
मनोधीनतयो तत्प्रश्नोत्तरवाक्ययोराथर्वणिकैराम्नायते—'कथमायात्यस्मिञ्शरीरे'
इति गार्ग्यस्य प्रश्नः । “मनोकृतेनाऽऽयात्यस्मिञ्शरीरे” इति पिप्पलादस्योत्तरम्।
मनोकृतो मनःकृत ईदृशं देहं प्राप्स्यामीत्येवंविधो मरणकालीनः कर्मप्रेरिते मनसि
जायमानः संकल्पः । तेन संकल्पेन पूर्वदेहावसानजनितेन तत्रत्यः प्राणोऽस्मिञ्छ-
रीरे समायाति । अयमर्थस्तस्यामेव श्रुतौ विस्पष्टमाम्नायते—“इन्द्रियैर्मनसि
संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहाऽऽत्मना यथासंकल्पितं
लोकं नयति” इति । मरणकाले मनसि वृत्तिलयं प्राप्नुवद्भिरर्वागादीन्द्रियैः सहितो
जीवो यस्मिन्भाविदेहोचितवृत्तियुक्तो भवति तेन भाविदेहविषयज्ञानेन सहितं
जीवः प्राणमायाति प्राणप्रधानो भवति । स च प्राणस्तेजसा भाविदेहध्यानलक्षणेन
युक्तो लिङ्गदेहं सर्वं जीवात्मना सह संकल्पानुसारिणं लोकं प्रापयति । तत्र
दृष्टान्तो बृहदारण्यके समाम्नातः—“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्य-
माक्रममाक्रम्याऽऽत्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याऽविद्यां गमयित्वाऽन्य-
माक्रममाक्रम्याऽऽत्मानमुपसंहरति” इति । [यथा] तृणेषु संचरन्ती जलूका तृणान्तं
प्राप्य प्रथमं मुखेन तृणान्तरमवलम्ब्य ततः पृष्ठभागं तृणान्तरं नयति तथा
जीवात्मा मरणकाले स्वकीयत्वाभिमानपरित्यागेनेदं वर्तमानशरीरमविद्यां गमयित्वा
चैतन्यरहित्यमापाद्य मनसा देहान्तरं भावयित्वा कृत्स्नदेहं लिङ्गविशिष्टं स्वात्मानं
देहान्तरं नयति । तस्माद्देहविशिष्टाः प्राणिनो मनसो जायन्ते । कृषिवणिज्यादे-
१ क. ख. ग. ङ. 'या प्रश्नो' । २ घ. 'देहे चित्तस्तु' ।

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७७
जीवनोपादस्य मनसा विचार्य संपादितत्वान्मनसो जीवनहेतुत्वम् । उक्तरीत्या मनसाऽ-
भिमानपरित्यागेन मरणाल्लयहेतुत्वं च । तस्माल्लक्षणसद्भावान्मनसो ब्रह्मत्वं निश्चितम् ।
तद्वि॒ज्ञाय॑ । पुन॑रेव वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि
भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञा-
सस्व॑ । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
वि॒ज्ञानं॒ ब्रह्मेति॑ । व्य॑जानात् । वि॒ज्ञाना॒द्धये॑व खल्वि॒-
मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न जा॒तानि॑
जी॒वन्ति॑ । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
अथ चतुर्थपर्याये संपन्नं निश्चयं दर्शयति—तद्विज्ञायेत्यादिना । मनसश्चक्षुरादि-
वत्करणत्वेन कर्तृपरतन्त्रत्वाच्च ब्रह्मत्वं युक्तम् । विज्ञानस्य तु कर्तृत्वं "विज्ञानं यज्ञं
तनुते" इति स्पष्टमेवाऽऽम्नातम् । तल्लक्षणं च तत्र सुलभम् । कर्मद्वारा देहोत्पत्तिहेतु-
त्वात् । "यत्कर्म कुरुते तदभिसंपद्यते । पुण्यो वै पुण्येन कर्मणा पापः पापेन "
इत्यादिश्रुतेः । लौकिककृष्यादेः कर्तृत्वेन जीवनहेतुत्वं मरणकारणयुद्धादिप्रवृत्त्या लय-
हेतुत्वं च । तस्माल्लक्षणलक्षितस्य विज्ञानस्य ब्रह्मत्वं युक्तम् ।
तद्वि॒ज्ञाय॑ । पुन॑रेव वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो
ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म विजि॑ज्ञासस्व । तपो॒
ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
आ॒न॒न्दो ब्रह्मेति॑ व्य॑जानात् । आ॒न॒न्दाद्धये॑व
खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि
जी॒वन्ति॑ । आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
अथ पञ्चमपर्याये संपन्नं निश्चयं दर्शयति---तद्विज्ञायेत्यादिना । कर्तृत्वस्य क्लेशा-
१ घ. ॰क्तनीत्या । २ ग. 'नत्या' । ३ क. ग. 'र्यादसं' ।

६७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०९अनु०१]

त्मकत्वान्न विज्ञानस्य ब्रह्मत्वं युक्तम् । किंचान्नादिविज्ञानान्तानां चतुर्णामपि न सर्वभू-
तोत्पत्तिहेतुत्वमस्ति । आकाशादिभूतानामन्नादिभ्यो भौतिकेभ्यो जन्मासंभवात् । आन-
न्दस्य तु क्लेशरहितत्वात्स्वरूपेण सर्वाभीष्टतया परमपुरुषार्थत्वादाकाशादिसर्वभूतकार-
णत्वाच्च ब्रह्मत्वं मुख्यमेव संभवति । तस्याऽऽनन्दस्य स्वरूपं छन्दोगा आम्नन्ति—
“यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्” इति । द्वौ हि पदार्थौ
भूमाऽल्पं चेति । तत्र बहूर्भावो भूमेति व्युत्पत्तेर्बाहुल्यात्मको यः पदार्थस्तदेव सुखं न
तु भूम्न उपरितनेऽल्पपदार्थे सुखमस्ति । भूमा तु सुखं भवत्येव । तयोर्भूमाल्पयोर्लक्ष-
णभेदस्तत्रैवाऽऽम्नात. -- “यत्र नान्यत्पश्यति स. भूमा । अथ यत्रान्यत्पश्यति तद-
ल्पम्” इति । अन्यो द्रष्टा स्वातिरिक्तमन्यद्दृष्टव्यं पश्यतीत्यादयस्त्रिपुट्यो यस्मिन्नद्वै-
तपदाथै न संन्ति सोऽयमद्वैतपदार्थो भूमा । त्रिपुटीरूपं द्वैतं यस्मिञ्जगत्यस्ति तज्जग-
दल्पम् । तयोर्भूमाल्पयोर्नित्यत्वानित्यत्वे च तत्रैवाऽऽम्नायेते-- “यो वै भूमा
तदमृतमथ यदल्पं तन्मर्त्यम्” इति । द्वैतावस्थयोर्जाग्रत्स्वप्नरूपयोर्दुःखमेव प्रायेणानुभू-
यते । यदि क्वचित्कदाचित्सुखं स्यात्तदपि साधनप्रयासतारतम्यविनाशित्वदोषैरुपेतत्वा-
द्दुःखमेव ।
तदुक्तं श्रेयोमार्गकारैः--
“इह बत दुर्लभलाभाः सुखलेशा भङ्गिनो यतः शरीरभृताम् ।
तेऽपि च दुःखायत्तो दुःखानि पुनस्ततोऽपि दुःखानि” ॥ इति।
अनेनाभिप्रायेण नाल्पे सुखमस्तीत्युक्तम् । अद्वैतावस्थयोस्तु सुषुप्तिसमाध्योः सुख-
मेव स्वप्रकाशमवतिष्ठते । न च तस्य दुःखाभावत्वं शङ्कनीयम् । अभावस्य स्वप्रकाश-
त्वासंभवात् । प्रमाणेन विना भासमानत्वात्स्वप्रकाशत्वम् । न खल्वद्वैतं प्रमाणेन तदा
प्रमीयते । तथा सति द्वैतापत्त्या सुषुप्तिभङ्गप्रसङ्गात् । भासमानत्वं विप्रतिपत्त्यभावादव-
गन्तव्यम् । यद्वा जाग्रत्स्वप्नौ विप्रतिपत्तिमृत्वा जनोऽभ्युपगच्छति तदा सुषुप्तिसमाधी
अप्यविप्रतिपत्त्याऽभ्युपसंगच्छत्येव । तस्मात्साधनमन्तरेण भासमानतया स्वप्रकाशत्वा-
दद्वैतस्य न दुःखाभावत्वम् । + विषयलाभवत्सुषुप्तिसमाध्योः प्रीतिविषयत्वादद्वैतं
सुखरूपम् । सर्वे जना असति कर्तव्यान्तरे सौषुप्तं सुखं काङ्क्षन्तः शेरते । तत्त्वज्ञा-
निनश्च सुखाभिलाषेणैव निर्विकल्पं समाधिं कुर्वन्ति । उभयेऽप्युत्तरकाले सुखमहम-
स्वाप्सं सुखमहं समाहितवानस्मीति तत्सुखमनुस्मरन्ति । आभ्यां सुषुप्तिसमाध्यवस्था-
न्ताभ्यां द्वैतसृष्टेः प्राचीनमप्यद्वैतं सुखमित्यवगन्तव्यम् । तस्मादद्वैतरूपादानन्दादेवैमा-
न्याकाशादीनि हिरण्यगर्भादीनि च द्वैतरूपाणि भूतान्युत्पद्यन्ते । ननु द्वैताद्वैतरूपौ


  • किं तर्हीत्यादिः ।
    १ ग संभवान्ति , २ ग. च. ० लेशभं ।

: there is a vertical tick!
Wait, why does it look like:
Wait, let's look at the danda after विद्या: "वि॒द्या ।"
Then: "पर॒मे व्योम॑न्प्र॒तिष्ठि॑ता, इति ।"
Wait, what is after प्रतिष्ठिता?
A comma: ", इति ।"
Yes, exactly!

Let's read all lines carefully from L1 to the end:

L1:
[प्रपा० ९ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। ६७९

L2:
सृष्टिप्रलयावहोऱात्रवत्क्रमेण पुनः पुनः पर्यावर्तेते । तथा सत्येकस्य वस्तुनः परस्परवि-
Wait, is it "सृष्टिप्रलयावहोऱात्रवत्क्रमेण" or "सृष्टिप्रलयावहोरात्रवत्क्रमेण"?
"सृष्टिप्रलयावहोरात्रवत्क्रमेण" - standard Sanskrit: सृष्टिप्रलयौ + अहोरात्रवत् -> सृष्टिप्रलयावहोरात्रवत्.
Yes, "सृष्टिप्रलयावहोरात्रवत्क्रमेण".
Then: "पुनः पुनः पर्यावर्तेते । तथा सत्येकस्य वस्तुनः परस्परवि-"

L3:
"रुद्धरूपद्वयासंभवादेकस्य स्वाभाविकत्वमितरस्याऽऽगन्तुकत्वं च वक्तव्यम् ।