सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 678, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 678

[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७३
रागस्यातिनिषिद्धत्वाद्विहितस्यैव धर्मता ।
आरोहनियमोक्त्यादेर्नावरोहोऽस्ति शास्त्रतः ॥
“ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् ” इत्याश्रमाणामारोह इच्छा-
धीनो यथा भवति तथा पारिव्राज्याद्वानप्रस्थ इत्याद्यवरोहोऽपि कचिद्रागवशात्क्वचित्पूर्वा-
श्रमश्रद्धावशाच्च युक्त इति प्राप्ते ब्रूमः—रागस्तावन्मिथ्याज्ञानमूलत्वान्निषिद्धः । न च
पूर्वाश्रमधर्मश्रद्धा युज्यते । उत्तराश्रमं प्रत्यविहितत्वेन धर्मत्वाभावात् । न हि यो
येनानुष्ठातुं शक्यते श्रद्धीयते च स तस्य धर्मो भवति । किं तर्हि यो यं प्रति विहितः
स तस्य धर्मः । किंच “ ततो न पुनरेयात् ” इत्यवरोहनिषेधेनाऽऽरोहो नियम्यते । न
चाऽऽरोहवदवरोहे शिष्टाचारो दृश्यते । तस्मान्नास्त्यवरोहः ” ।
आश्रमभ्रंशे प्रायश्चित्तं तत्रैव*चिन्तितम्—
“भ्रष्टोर्ध्वरेतसो नास्ति प्रायश्चित्तमथास्ति वा ।
अदर्शनोक्तेर्नास्त्येतद्व्रतिनो गर्दभः पशुः ॥
उपपातकमेवैतद्व्रतिनो मधुमांसवत् ।
प्रायश्चित्ताच्च संस्काराच्छुद्धियत्नपरं वचः ।
नैष्ठिकब्रह्मचर्यादूर्ध्वरेतस्त्वं प्राप्य पुनः स्त्रीप्रसङ्गेन भ्रष्टस्य प्रायश्चित्तं नास्ति ।
“आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा” ॥
इति प्रायश्चित्तादर्शनवचनात् । “अथ यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमाल-
भेत” इत्यस्ति प्रायश्चित्तमित्युच्येत । तन्न । तस्य व्रतिविषयत्वात् । उपकुर्वाणाख्यो
यो वेदाध्ययनाङ्गत्वेन ब्रह्मचर्यव्रतमनुतिष्ठति तद्विषयमिदं प्रायश्चित्तवचनम् । तस्मादूर्ध्व-
रेतस्त्वाद्भ्रष्टस्य नास्ति प्रायश्चित्तमिति प्राप्ते ब्रूमः—यथोपकुर्वाणस्य मधुमांसभक्षणमुप-
पातकमिति प्रायश्चित्तपुनःसंस्कारौ विद्येते तद्वदूर्ध्वरेतसोऽपि गुरुदारादिभ्योऽन्यत्र प्रवृत्ति-
रूपपातकमेवै तत् । न तु महापातकम् । ततः प्रायश्चित्तात्पुनःसंस्काराच्च शुद्धिर्भवति ।
यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्रित्य प्रायश्चित्तमुच्येत तर्ह्यदर्शनवचनस्य
का गतिरिति चेद्यत्नपरं तद्वाक्यामिति ब्रूमः । अत एव प्रायश्चित्तं न पश्यामीत्याह ।
न तु नास्तीति । प्रायश्चित्तं तु गर्दभपशुरेव ब्रह्मचारित्वस्य संमत्वात् । तथा वनस्थप-
रिव्राजकयोरपि भ्रंशे प्रायश्चित्तं स्मर्यते—“वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा

  • न चाऽऽधिकारिकमपि पतनानुमात्तदयोगात्—ब्र० सू० अ० ३ पा० ४ अ० ११ सू० ४१ ।
    १ क. ख. ग. ङ. °त्तमाश्र° । २ क. ख. ङ. येन स्वगु° । ३ घ. °स्त्येव व्रति°। ४ क.
    ख. ग ड. °व- । न । ५ क. ग. ङ. °द्धिरिति । ६ घ. त्वेन तदुप° । ७ घ. समानत्वा° ।
    ८५
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग) · पृष्ठ 678, कुल 914 में से · SarvaKosh